कार्तिकमासमाहात्म्यम् - अध्याय ११

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
भगवन्प्रष्टुमिच्छामि त्वामहं विनयान्वितः ॥
तद्व्रतं ब्रूहि मे मर्त्यो मृत्युं येन न पश्यति ॥१॥
॥ ब्रह्मोवाच ॥
यदि पृच्छसि विप्रेन्द्र व्रतानामुत्तमं व्रतम् ॥
व्रतं यमद्वितीयाख्यं शृणु त्वं मृत्युनाशनम् ॥२॥
कार्तिके मासि शुद्धायां द्वितीयायां मुनीश्वर ॥
कर्तव्यं तद्विधानेन सर्वमृत्युनिवारणम् ॥३॥
ब्राह्मे मुहूर्ते चोप्थाय द्वितीयायां मुनीश्वर ॥
मनसा चिंतयेदात्महितं नैवाऽहितं स्मरेत् ॥४॥
प्रातःस्नानं ततः कुर्याद्दन्तधावनपूर्वकम् ॥ततः
शुक्लांबरधरः शुक्लमाल्यानुलेपनः ॥५॥
कृतनित्यक्रियो हृष्टः कुण्डलांगदभूषितः ॥
औदुम्बर तरुं गत्वा कृत्वा मण्डलमुत्तमम् ॥६॥
पद्ममष्टदलं कृत्वा तस्मिन्नौदुम्बरे शुभे॥
विधिं विष्णुं च रुद्रं च वरदां च सरस्वतीम् ॥७॥
वीणापुस्तकसंयुक्तां पूजयेत्स्वस्थमानसः ॥
चन्दनागरुकस्तूरीकुंकुमैर्द्विजसत्तम ॥८॥
पुष्पैर्धूपैश्च नैवेद्यैर्नारिकेलफलादिभिः ॥
ततो मृत्युविनाशाथ सालंकारां पयस्विनीम् ॥९॥
विप्राय वेदविदुषे गां दद्याच्च सवत्सकाम् ॥
अपमृत्युविनाशार्थं संसारार्णवतारकाम् ॥१०॥
हे विप्र ते त्विमां सौम्यां धेनुं संप्रददाम्यहम् ॥
इति मंत्रेण गां दद्याद्विप्राय ब्रह्मवादिने ॥११॥
तदलाभे तु विप्राय भक्त्या दद्यादुपानहौ ॥
ततः पूजां समाप्याथ भक्तिमान्पुरुषोत्तमे ॥१२॥
ज्ञातिश्रेष्ठान्वयोवृद्धान्सम्यग्भक्त्याऽभिवादयेत् ॥
नानाविधैः फलै रम्यैस्तर्प्पयेत्स्वजनानपि ॥१३॥
ततः सोदरसंपन्ना भगिनी या भवेन्मुने ॥
तस्या गृहं समागत्य सम्यग्भक्त्याऽभिवादयेत् ॥१४॥
भगिनि सुभगे भद्रे त्वदंघ्रिसरसीरुहम् ॥
श्रेयसेऽथ नमस्कर्तुमागतोऽस्मि तवालयम् ॥१९॥
इत्युक्त्वा भगिनीं तां तु विष्णुबुद्ध्याऽभिवादयेत् ॥
तदा तु भगिनी श्रुत्वा भ्रातुर्वचनमुत्तमम् ॥१६॥
भगिन्या भ्रातरं वाक्यं वक्तव्यं प्रति नारद ॥
अद्य भ्रातरहं जाता त्वत्तो धन्याऽस्मि मंगला ॥१७॥
भोक्तव्यं तेऽद्य मद्गेहे स्वायुषे कुलदीपक ॥
कार्तिके शुक्लपक्षस्य द्वितीयायां सहोदर ॥१८॥
यमो यमुनया पूर्वं भोजितः स्वगृहेर्चितः ॥
अस्मिन्दिने यमेनाऽपि नारकीयाश्च मोचिताः ॥
अपि बद्धाः कर्मपाशैः स्वेच्छया पर्यटंति ते ॥१९॥
स्वसुर्नरो वेश्मनि यो न भुंक्ते यमद्वितीयादिनमत्र लब्ध्वा ॥
तं पापिनं प्राप्य वयं सुहृष्टाः प्रभक्षयामोऽद्य च भक्ष्यहीनाः॥ २०॥
इति पापा रटंतीह ब्रह्महत्यादयस्तथा ॥
तस्माद्भ्रातर्मद्गृहे तु भोजनं कुरु कार्तिके ॥२१॥
शुक्लायां तु द्वितीयायां विश्रुतायां जगत्त्रये ॥
अस्यां निजगृहे पुत्र भुज्यते न बुधैरपि ॥२२॥
इत्युक्तः स तथेत्युक्ता भगिनीं पूजयेद्व्रती ॥
प्रहर्षास्तुमहाभाग वस्त्रालंकारभूषणैः ॥२३॥
अग्रजामभिवंद्याऽथ आशिषं च प्रगृह्य च ॥
सर्वा भगिन्यः संतोष्या वस्त्रालंकारदानतः ॥२४॥
अभावे स्वस्य तु स्वसुः पितृव्याः स्वपितुः स्वसा ॥
तस्या गृहं समागत्य कुर्याद्भोजनमादरात् ॥२५॥
एवं यः कुरुते पुत्र द्वितीयां यमनामिकाम् ॥
अपमृत्युविनिर्मुक्तः पुत्रपौत्रादिभिर्वृतः ॥२६॥
इह भुक्त्वा तु विपुलान्भोगानन्यान्यथेप्सितान् ॥
अंते मोक्षमवाप्नोति नान्यथा मद्वचो भवेत् ॥२७॥
व्रतान्येतानि सर्वाणि दानानि विविधानि च ॥
गृहस्थस्यैव युज्यंते तस्माद्गार्हस्थ्यमाश्रयेत् ॥२८॥
कथां यमद्वितीयाया व्रतस्थः शृणुयान्नरः ॥
तस्य सर्वाणि पापानि नश्यंतीत्याह माधवः ॥२९॥
॥ सूत उवाच ॥
कार्तिके च द्वितीयायां पूर्वाह्णे यममर्चयेत् ॥
भानुजायां नरः स्नात्वा यमलोकं न पश्यति ॥३०॥
कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक ॥
यमो यमुनया पूर्वं भोजितः स्वगृहेऽर्चितः ॥३१॥
द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः ॥
पापेभ्यो विप्रयुक्तास्ते मुक्ताः सर्वे निबंधनात् ॥३२॥
अत्राऽऽशिताश्च संतुष्टाः स्थिताः सर्वे यदृच्छया ॥
तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः ॥३३॥
अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता ॥
तस्मान्निजगृहे विप्र न भोक्तव्यं ततो बुधैः ॥३४॥
स्नेहेन भगिनीहस्ताद्भोक्तव्यं बलवर्धनम् ॥
ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः ॥३९॥
महिषासनमारूढो दंडमुद्गरभृत्प्रभुः ॥
वेष्टितः किंकरैर्हृष्टैस्तस्मै याम्यात्मने नमः ॥३६॥
यैर्भगिन्यः सुवासिन्यो वस्त्रदानादितोषिताः ॥
न तेषां वत्सरं यावत्कलहो न रिपोर्भयम् ॥३७॥
धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनम्॥
व्याख्यातं सकलं पुत्र सरहस्यं मयाऽनघ ॥३८॥
यस्यां तिथौ यमुनया यमराजदेवः संभोजितः प्रतितिथौ स्वसृसौहृदेन ॥
तस्मात्स्वसुः करतलादिह यो भुनक्ति प्राप्नोति वित्तशुभसंपदमुत्तमां सः ॥३९॥
॥ सूत उवाच ॥
विशेषश्चात्र संप्रोक्तो वालखिल्यैर्महर्षिभिः ॥
तदहं संप्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ॥४०॥
॥ वालखिल्या ऊचुः ॥
कार्तिकस्य सिते पक्षे द्वितीया यमसंज्ञिता ॥
तत्राऽपराह्ने कर्तव्यं सर्वथैव यमार्चनम् ॥४१॥
प्रत्यहं यमुनाऽऽगत्य यमं संप्रार्थयत्पुरा ॥
भ्रातर्मम गृहे याहि भोजनार्थं गणावृतः ॥४२॥
अद्यश्वो वा परश्वो वा प्रत्यहं वदते यमः ॥
कार्यव्याकुलचित्तानामवकाशो न जायते ॥४३॥
तदैकदा यमुनया बलात्कारान्निमंत्रितः ॥
स गतः कार्तिके मासि द्वितीयायां मुनीश्वराः ॥४४॥
नारकीयजनान्मुक्त्वा गणैः सह रवेः सुतः ॥
कृताऽऽतिथ्यो यमुनया नानापाकाः कृताः खग ॥४५॥
कृताभ्यंगो यमुनया तैलैर्गंधमनोहरैः ॥
उद्वर्तनं लापयित्वा स्नापितः सूर्यनंदनः ॥४६॥
ततोऽलंकारकं दत्तं नानावस्त्राणि चंदनम् ॥
माल्यानि च प्रदत्तानि मंचोपरि उपाविशत् ॥४७॥
पक्वान्नानि विचित्राणि कृत्वा सा स्वर्णभाजने ॥
यमायाभोजयद्देवी यमुना प्रीतमानसा ॥४८॥
भुक्त्वा यमोऽपि भगिनीमलंकारैः समर्चयत् ॥
नानावस्त्रैस्ततः प्राह वरं वरय भामिनि ॥
इति तद्वचनं श्रुत्वा यमुना वाक्यमब्रवीत् ॥४९॥
॥यमुनोवाच ॥
प्रतिवर्षं समागच्छ भोजनार्थं तु मद्गृहे ॥५०॥
अद्य सर्वे मोचनीयाः पापिनो नरकाद्यम ॥
येऽद्यैव भगिनीहस्तात्करिष्यंति च भोजनम् ॥
तेषां सौख्यं प्रदेहि त्वमेतदेव वृणोम्यहम् ॥५१॥
॥ यम उवाच ॥
यमुनायां तु यः स्नात्वा संतर्प्य पितृदेवताः ॥५२॥
भुंक्ते च भगिनीगेहे भगिनीं पूजयेदपि ॥
कदाचिदपि मद्वारं न स पश्यति भानुजे ॥५३॥
वीरेशैशानदिग्भागे यमतीर्थं प्रकीर्तितम् ॥
तत्र स्नात्वा च विधिवत्संतर्प्य पितृदेवताः ॥५४॥
पठेदेतानि नामानि आमध्याह्नं नरोत्तमः ॥
सूर्यस्याभिमुखो मौनी हृतचित्तः स्थिरासनः ॥५५॥
यमो निहंता पितृधर्मराजो वैवस्वतो दंडधरश्च कालः ॥
भूताधिपो दत्तकृतानुसारी कृतांतमेतद्दशभिर्जपंति ॥५६॥
ततो यमेश्वरं पूज्य भगिनीगृहमाव्रजेत् ॥
मंत्रेणाऽनेन च तया भोजितः पूर्वमादरात् ॥५७॥
भ्रातस्तवानुजाताऽहं भुंक्ष्व भक्तमिदं शुभम् ॥
प्रीतये यमराजस्य यमुनाया विशेषतः ॥५८॥
ततः संतोष्य भगिनीं वस्त्रालंकरणादिभिः ॥
स्वप्नेऽपि यमलोकस्य भविष्यति न दर्शनम्॥ ५९॥
नृपैः कारागृहे ये च स्थापिता मम वासरे ॥
अवश्यं ते प्रेषणीया भोजनार्थं स्वसुर्गृहे ॥६०॥
विमोक्तव्या मया पापा नरकेभ्योऽद्य वासरे ॥
येऽद्य बंदी करिष्यंति ते ताड्या मम सर्वथा ॥६१॥
कनीयसी स्वसा नास्ति तदा ज्येष्ठागृहं व्रजेत्॥
तदभावे सपत्यायाः पितृव्यजागृहे ततः ॥६२॥
तदभावे मातृष्वसुर्मातुलस्याऽऽत्मजा तथा ॥
सापत्नगोत्रसंबंधैः कल्पयेदथवा क्रमम्॥ ६३॥
सर्वाऽभावे माननीया भगिनी काचिदेव हि ॥
गोनद्याद्यथवा तस्या अभावे सति कारयेत् ॥६४॥
तदभावेप्यरण्यानीं कल्पयित्वा सहोदराम् ॥
अस्यां निजगृहे देवि न भोक्तव्यं कदाचन ॥६५॥
ये भुंजते दुराचारा नरके ते पतंति च ॥
एवमुक्त्वा धर्मराजो ययौ संयमिनीं ततः ॥६६॥
तस्मादृषिवराः सर्वे कार्तिकव्रतकारिणः ॥
भुंजते भगिनीहस्तात्सत्यं सत्यं न संशयः ॥६७॥
यमद्वितीयां यः प्राप्य भगिनीगृहभोजनम् ॥
न कुर्याद्वर्षजं पुण्यं नश्यतीति रवेः श्रुतिः ॥६८॥
या तु भोजयते नारी भ्रातरं भ्रातृके तिथौ ॥
अर्चयेच्चाऽपि तांबूलैर्न सा वैधव्यमाप्नुयात् ॥६९॥
भ्रातुरायुःक्षयो नूनं न भवेत्तत्र कर्हिचित् ॥
अपराह्नव्यापिनी सा द्वितीया भ्रातृभोजने ॥७०॥
अज्ञानाद्यदि वा मोहान्न भुक्तं भगिनीगृहे ॥
प्रवासिना ह्यभावाद्वा ज्वरितेनाऽथ बंदिना ॥७१॥
एतदाख्यानकं श्रुत्वा भोजनस्य फलं भवेत् ॥
कार्तिके तु विशेषेण धात्रीछायां समाश्रितः ॥७२॥
भोजनं कुरुते यस्तु स वैकुंठमवाप्नुयात् ॥७३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये यमद्वितीयामाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥११॥ छ ॥

N/A

References : N/A
Last Updated : October 31, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP