कार्तिकमासमाहात्म्यम् - अध्याय १६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
पुनर्दैत्यं समायांतं दृष्ट्वा देवाः सवासवाः ॥
भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥१॥
नमो मत्स्यकूर्मादिनानास्वरूपैः सदाभक्तकार्योद्यतायाऽर्तिहंत्रे ॥
विधात्रादिसर्गस्थितिध्वंसकर्त्रे गदाशंखपद्मारिहस्ताय तेस्तु ॥२॥
रमा वल्लभायाऽसुराणां निहंत्रे भुजंगारियानाय पीतांबराय ॥
मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ॥३॥
नमो दैत्यसंतापितामर्त्यदुःखाचलध्वंसदंभोलये विष्णवे ते ॥
भुजंगेशतल्पेशयायार्कचंद्रद्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥४॥
॥नारद उवाच ॥
संकष्टनाशनंनाम स्तोत्रमेतत्पठेन्नरः ॥
स कदाचिन्न संकष्टैः पीड्यते कृपया हरेः ॥५॥
इति देवाः स्तुतिं यावत्कुर्वंति दनुजद्विषः ॥
तावत्सुराणामापत्तिर्विज्ञाता विष्णुना तदा ॥६॥
सहसोत्थाय दैत्यारिः सक्रोधः खिन्नमानसः ॥
आरूढो गरुडं वेगाल्लक्ष्मीं वचनमब्रवीत् ॥७॥
॥ श्रीभगवानुवाच ॥
जलंधरेण ते भ्रात्रा देवानां कदनं कृतम् ॥
तैराहूतो गमिष्यामि युद्धायाद्य त्वरान्वितः ॥८॥
॥ श्रीरुवाच ॥
अहं ते वल्लभा नाथ भक्त्या च यदि सर्वदा ॥
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ॥९॥
श्रीभगवानुवाच ॥
रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि ॥
प्रीत्या च तव नैवायं मम वध्यो जलंधरः ॥१०॥
॥ नारद उवाच ॥
इत्युक्त्वा गरुडारूढः शंखचक्रगदासिभृत् ॥
विष्णुर्वेगाद्ययौ योद्धुं यत्र देवाः स्तुवंति ते ॥११॥
अथाऽरुणानुजात्युग्रपक्षवातप्रपीडिताः ॥
वात्या विमर्दिता दैत्या बभ्रमुः खे यथा घनाः ॥१२॥
ततो जलंधरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान् ॥
उद्वृत्तनयनः क्रोधात्ततोविष्णुं समभ्ययात् ॥१३॥
ततः समभवद्युद्धं विष्णुदैत्येंद्रयोर्महत् ॥
आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत् ॥१४॥
विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुर्हयान् ॥
चिच्छेद तं च हृदये बाणेनैकेन ताडयत् ॥१५॥
ततो दैत्यः समुत्पत्य गदापाणिस्त्वरान्वितः ॥
आहत्य गरुडं मूर्ध्नि पातयामास भूतले ॥१६॥
विष्णुर्गदां स्वखङ्गेन चिच्छेद प्रहसन्निव ॥
तावत्स हृदये विष्णुं जघान दृढमुष्टिना ॥१७॥
ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ ॥
बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् ॥१८॥
एवं तौ सुचिरं युद्धं कृत्वा विष्णुः प्रतापवान् ॥
उवाच दैत्यराजानं मेघगंभीरनिस्वनः ॥१९॥
॥ विष्णुरुवाच ॥
वरं वरय दैत्येंद्र प्रीतोऽस्मि तव विक्रमात् ॥
अदेयमपि ते दद्मि यत्ते मनसि वर्तते ॥२०॥
॥ जलंधर उवाच ॥
यदि भावुक तुष्टोऽसि वरमेनं ददस्व मे ॥
मद्भगिन्या सहाऽद्य त्वं मद्गृहे सगणो वस ॥२१॥
॥ नारद उवाच ॥
तथेत्युक्ता स भगवान्सर्वदेवगणैः सह ॥
तदा जलंधरपुरमगमद्रमया सह ॥२२॥
जलंधरस्तु देवानामधिकारेषु दानवान् ॥
स्थापयित्वा महाबाहुः पुनरागान्महीतलम् ॥२३॥
देवगंधर्वसिद्धेषु यत्किंचिद्रत्नसंयुतम् ॥
तदात्मवशगं कृत्वाऽतिष्ठत्सागरनंदनः ॥२४॥
पातालभुवने दैत्यं निशुंभं स महाबलम् ॥
स्थापयित्वा स शेषादीनानयद्भूतलं बली ॥२५॥
देवगंधर्वसिद्धाऽऽद्यान्सर्पराक्षसमानुषान्॥
स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् ॥२६॥
एवं जलंधरः कृत्वा देवान्स्ववशवर्तिनः ॥
धर्मेण पालयामास प्रजाः पुत्रानिवौरसान्॥२७॥
न कश्चिद्व्याधितो नैव दुःखी नैव कृतस्तथा ॥
न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति ॥२८॥
एवं महीं शासति दानवेंद्रे धर्मेण सम्यक्च दिदृक्षयाऽहम् ॥
कदाचिदागामथ तस्य लक्ष्मीं विलोकितुं श्रीरमणं च सेवितुम् ॥२९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरसभायां नारदागमनंनाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP