कार्तिकमासमाहात्म्यम् - अध्याय १८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ नारद उवाच ॥
जलंधरस्तु तच्छुत्वा कोपाकुलितविग्रहः ॥
निर्जगामाऽऽशु दैत्यानां कोटिभिः परिवारितः ॥१॥
गच्छतोऽस्याऽग्रतः शुक्रो राहुर्दृष्टिपथेऽभवत् ॥
मुकुटश्चाऽपतद्भूमौ वेगात्प्रस्खलितस्तदा ॥२॥
दैत्यसैन्याऽऽवृतैस्तस्य विमानानां शतैस्तदा ॥
व्यराजत नभःपूर्णं प्रावृषीव यथा घनैः ॥३॥
तस्योद्योगं तदा दृष्ट्वा देवाः शक्रपुरोगमाः ॥
अलक्षितास्तदा जग्मुः शूलिनं तं व्यजिज्ञपुः ॥४॥
॥ देवा ऊचुः ॥
न जानासि कथं स्वामिन्देवापत्तिमिमां विभो ॥
तदस्मद्रक्षणार्थाय जहि सागरनंदनम् ॥५॥
॥ नारद उवाच ॥
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः॥
महाविष्णुं समाहूय वचनं चेदमब्रवीत्॥ ६॥
॥ ईश्वर उवाच ॥
जलंधरः कथं विष्णो न हतः संगरे त्वया ॥
तद्गृहं चाऽपि यातोऽसि त्यक्त्वा वैकुंठमात्मनः ॥७॥
॥ विष्णुरुवाच ॥
तवांशसंभवत्वाच्च भ्रातृत्वाच्च तथा श्रियः ॥
न मया निहतः संख्ये त्वमेनं जहि दानवम् ॥८॥
॥ ईश्वर उवाच ॥
नायमेभिर्महातेजाः शस्त्रास्त्रैर्वध्यते मया ॥
देवैः सह स्वतेजोंशं शस्त्रार्थं दीयतां मम ॥९॥
॥ नारद उवाच ॥
अथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तदा ॥
तान्यैक्यमागतानीशो दृष्ट्वा स्वं चामुचन्महः ॥१०॥
तेनाकरोन्महादेवो महसा शस्त्रमुत्तमम् ॥
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ॥११॥
ततः शेषेण च तदा वज्रं च कृतवान्हरिः ॥
तावज्जलंधरो दृष्टः कैलासतलभूमिषु ॥१२॥
हस्त्यश्वरथपत्तीनां कोटिभिः परिवारितः ॥
तं दृष्ट्वा लक्षिता जग्मुर्देवाः सर्वे यथागताः ॥१३॥
गणाश्च समसज्जंत युद्धायाऽतित्वरान्विताः ॥
नन्दीभवक्त्रसेनानीमुखाः सर्वे शिवाज्ञया ॥१४॥
अवतेरुर्गणा वेगात्कैलासाद्युद्धदुर्मदाः ॥
ततः समभवद्युद्धं कैलासोपत्यकाभुवि ॥१५॥
प्रमथाधिपदैत्यानां घोरशस्त्रास्त्रसंकुलम् ॥
भेरीमृदंगशंखौघ निःस्वनैर्वीरहर्षणैः ॥१६॥
गजाश्वरथशब्दैश्च नादिता भूर्व्यकंपत ॥
शक्तितोमरबाणौघमुसलप्रासपट्टिशैः ॥१७॥
व्यराजत नभः पूर्णमुल्काभिरिव संवृतम् ॥
निहतैरथनागाश्वपत्तिभिर्भूर्व्यराजत ॥१८॥
वज्राहताचलशिरःशकलैरिव संवृता ॥
प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा ॥१९॥
वसासृङ्मांसपंकाढ्या भूरगम्याऽभवत्तदा ॥
प्रमथाहतदैत्यौघान्भार्गवः समजीवयत् ॥२०॥
युद्धे पुनः पुनस्तत्र मृतसंजीविनीबलात् ॥
तं दृष्ट्वा व्याकुलीभूता गणाः सर्वे भयान्विताः ॥
शशंसुर्देवदेवाय तत्सर्वं शुक्रचेष्टितम् ॥२१॥
अथ रुद्रमुखात्कृत्या बभूवाऽतीवभीषणा ॥
तालजंघा दरीवक्त्रा स्तनापीडितभूरुहा ॥२२॥
सा युद्धभूमिमासाद्य भक्षयंती महासुरान् ॥
भार्गवं स्वभगे धृत्वा जगामांतर्हिता नभः ॥२३॥
विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यं गणास्तदा ॥
अम्लानवदना हर्षान्निजघ्नुर्युद्धदुर्मदाः ॥२४॥
अथाभज्यत दैत्यानां सेना गणभयार्दिता ॥
वायुवेगेनाहतेव प्रकीर्णा तृणसंततिः ॥
भग्नां गणभयात्सेनां दृष्ट्वामर्षयुता ययुः ॥
निशुंभशुंभौ सेनान्यौ कालनेमिश्च वीर्यवान् ॥२६॥
त्रयस्ते वारयामासुर्गणसेनां महाबलाः ॥
मुञ्चतः शरवर्षाणि प्रावृषीव बलाहकाः ॥२७॥
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः ॥
रुरुधुः खं दिशः सर्वा गणसेनामकंपयन् ॥२८॥
गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः ॥
वसंते किंशुकाभासा न प्राज्ञायत किंचन ॥२९॥
पतिताः पात्यमानाश्च भिन्नाश्छिन्नास्तदा गणाः ॥
त्यक्त्वा संग्रामभूमिं ते सर्वेपि विमुखाऽभवन् ॥३०॥
ततः प्रभग्नं स्वबलं विलोक्य शैलादिलंबोदरकार्तिकेयाः ॥
त्वरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षिणस्ते ॥३१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने रुद्रसेनापराभवोनामाऽष्टादशोऽध्यायः ॥१८॥
N/A
References : N/A
Last Updated : November 08, 2024
TOP