कार्तिकमासमाहात्म्यम् - अध्याय २४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पृथुरुवाच ॥
यदूर्जव्रतिनः पुंसः फलं महदुदादृतम् ॥
तत्पुनर्ब्रूहि माहात्म्यं केन चीर्णमिदं शुभम् ॥१॥
॥ नारद उवाच ॥
आसीत्सह्याद्रिविषये करवीरपुरे पुरा ॥
ब्राह्मणो धर्मवित्कश्चिद्धर्मदत्तेति विश्रुतः ॥२॥
विष्णुव्रतकरः सम्यग्विष्णुपूजारतः सदा ॥
कदाचित्कार्तिके मासि हरिजागरणाय सः ॥३॥
रात्र्यां तुर्यावशेषायां जगाम हरिमदिरम्॥
हरिपूजोपकरणान्प्रगृह्य व्रजता तदा ॥४॥
तेन दृष्टा समायाता राक्षसी भीमदर्शना ॥
तां दृष्ट्वा भयवित्रस्तः कंपितावयवस्तदा ॥५॥
पूजोपकरणैः सर्वैः पयोभिश्चाहनद्भयात् ॥
संस्मृत्य तद्धरेर्नाम तुलसीयुक्तवारिणा ॥
तेन वै हतमात्रे तु पापं तस्या ह्यगाल्लयम् ॥६॥
अथ संस्मृत्य सा पूर्वजन्मकर्मविपाकजाम् ॥
स्वां दशामब्रवीद्विप्रं दंडवच्च प्रणम्य वै ॥७॥
॥ कलहोवाच ॥
पूर्वकर्मविपाकेन दशामेतां गतास्म्यहम् ॥
तत्कथं नु पुनर्विप्र प्रयास्याम्युत्तमां गतिम् ॥८॥
॥ नारद उवाच ॥
तां दृष्ट्वा प्रणतां सम्यग्वदमानां स्वकर्म तत् ॥
अतीव विस्मितो विप्रस्तदा वचनमब्रवीत् ॥९॥
॥ धर्मदत्त उवाच ॥
केन कर्मविपाकेन त्वं दशामीदृशीं गता ॥
कुत्रत्या का च किं शीला तत्सर्वं कथयस्व मे ॥१०॥
॥ कलहोवाच ॥
सौराष्ट्रनगरे ब्रह्मन्भिक्षुर्नामाऽभवद्द्विजः ॥
तस्याहं गृहिणी पूर्वं कलहाख्याऽतिनिष्ठुरा ॥११॥
न कदाचिन्मया भर्तुर्वचसाऽपि शुभं कृतम् ॥
नाऽर्पितं तस्य मिष्टान्नं भर्तुर्वचनशीलया ॥१२॥
कलहप्रियया नित्यं मयोद्विग्नमना यदा ॥
परिणेतुं यदाऽन्यां स मतिं चक्रे पतिर्मम ॥१३॥
ततो गरं समादाय प्राणास्त्यक्ता मया द्विज ॥
अथ बद्ध्वा बध्यमानां मां निन्युर्यमकिंकराः ॥१४॥
यमश्च मां तदा दृष्ट्वा चित्रगुप्तमपृच्छत ॥१५॥
॥ यम उवाच ॥
अनया किं कृतं कर्म चित्रगुप्त विलोकय ॥
प्राप्नोत्वेषा च तत्कर्म शुभं वा यदि वाऽशुभम् ॥१६॥
॥कलहोवाच ॥
चित्रगुप्तस्तदा वाक्यं भर्त्सयन्मामुवाच सः ॥
॥ चित्रगुप्त उवाच ॥
अनया तु कृतं कर्म शुभं किंचिन्न विद्यते ॥१७॥
मिष्टान्नं भुंजमानेयं न भर्तरि तदर्पितम् ॥
अतश्च वल्गुलीयोन्यां स्वविष्ठादाऽवतिष्ठतु ॥१८॥
भर्तुर्द्वेषात्तदाप्येषा नित्यं कलहकारिणी ॥
विष्ठादां सूकरीं योनिं तस्मात्तिष्ठत्वियं हरे ॥१९॥
पाकभांडे सदा भुंक्ते भुंक्ते चैका यतस्ततः ॥
तस्मादेषा बिडाल्यस्तु स्वजाताऽपत्यभक्षिणी ॥२०॥
भर्तारमपि चोद्दिश्य ह्यात्मघातः कृतोऽनया ॥
तस्मात्प्रेतशरीरेऽपि तिष्ठत्वेकाऽतिनिंदिता ॥२१॥
अतश्चैषा मरुद्देशं प्रापितव्या भटैरियम् ॥
तत्र प्रेतशरीरस्था चिरं तिष्ठत्वियं ततः ॥२२॥
ऊर्ध्वं योनित्रयं चैषा भुनक्त्वशुभकारिणी॥२३॥
॥ कलहोवाच ॥
साहं पंचशताब्दानि प्रेतदेहे स्थिता किल॥
क्षुतृड्भ्यां पीडिताऽऽविश्य शरीरं वणिजस्य च॥
आयाता दक्षिणं देशं कृष्णावेण्योश्च संगमम् ॥२४॥
तत्तीरं संश्रिता यावत्तावत्तस्य शरीरतः ॥
शिवविष्णुगणैर्दूरमपकृष्टा बलादहम् ॥२५॥
ततः क्षुत्क्षामया दृष्टो मया हि त्वं द्विजोत्तम ॥
त्वद्धस्ततुलसीवारिसंसर्गगतपापया ॥२६॥
तत्कृत्यं कुरु विप्रेंद्र कथं मुक्तिमियाम्यहम्॥
योनित्रयादग्रभवादस्माच्च प्रेतदेहतः ॥२७॥
इत्थं विचिंत्य कलहावचनं द्विजाग्र्यस्तत्कर्मपाकभयविस्मयदुःखयुक्तः ॥
तद्ग्लानिदर्शनकृपाचलचित्तवृत्ति ध्यात्वा चिरं स वचनं निजगाद दुःखात् ॥२८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धर्मदत्तेतिहासकथनंनाम चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP