कार्तिकमासमाहात्म्यम् - अध्याय २६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
इत्थं तद्वचनं श्रुत्वा धर्मदत्तः सविस्मयः ॥
प्रणम्य दण्डवद्भूमौ वाक्यमेतदुवाच ह ॥१॥
॥ धर्मदत्त उवाच ॥
आराधयंति सर्वेऽपि विष्णुं भक्ताऽर्तिनाशनम् ॥
यज्ञैर्दानैर्व्रतैस्तीर्थैस्तपोभिश्च यथाविधि॥२॥
विष्णुप्रीतिकरं तेषां किंचित्सान्निध्यकारकम् ॥
यत्कृत्वा तानि चीर्णानि सर्वाण्यपि भवंति हि ॥३॥
॥ गणावूचतुः ॥
साधु पृष्टं त्वया विप्र शृणुष्वैकाग्रमानसः ॥
सेतिहासकथां पुण्यां कथ्यमानां पुराभवाम् ॥४॥
कांचिपुर्यां पुरा चोलश्चक्रवर्ती नृपोऽभवत् ॥
यस्याख्ययैव ते देशाश्चोला इति प्रथां गताः ॥५॥
यस्मिञ्छासति भूचक्रं दरिद्रो वाऽपि दुःखितः॥
पापबुद्धिः सरुग्वापि नैव कश्चिदभून्नरः ॥६॥
यस्याप्युन्नतयज्ञस्य ताम्रपर्ण्यास्तटावुभौ ॥
सुवर्णयूपैः शोभाढ्यावास्तां चैत्ररथोपमौ ॥७॥
स कदाचिदगाद्राजा ह्यनंतशयनं द्विज ॥
यत्राऽसौ जगतां नाथो योगनिद्रामुपाश्रितः॥ ६॥
तत्र श्रीरमणं देवं संपूज्य विधिवन्नृपः ॥
मणिमुक्ताफलैर्दिव्यैः स्वर्णपुष्पैश्च शोभनैः ॥९॥
प्रणम्य दण्डवद्भूमावुपविष्टः स तत्र वै ॥
तावद्ब्राह्मणमायांतमपश्यद्देवसन्निधौ ॥१०॥
देवार्चनार्थं पाणौ तु तुलस्युदकधारिणम्॥
स्वपुरीवासिनं तत्र विष्णुदासाह्वयं द्विजम् ॥११॥
स तत्राभ्येत्य विप्रर्षिर्देवदेवमपूजयत् ॥
विष्णुसूक्तेन संस्नाप्य तुलसीमंजरीदलैः ॥१२॥
तुलसीपूजया तस्य रत्नपूजां पुरा कृताम् ॥
आच्छादितां समालोक्य राजा कुद्धोऽब्रवीदिदम् ॥१३॥
॥ चोल उवाच ॥
माणिक्यस्वर्णपूजाऽत्र शोभाढ्या या कृता मया ॥
विष्णुदास कथं सेयमाच्छन्ना तुलसीदलैः ॥१४॥
विष्णुभक्तिं न जानासि वराकोऽसि मतो मम ॥
यस्त्विमामतिशोभाढ्यां पूजामाच्छादयस्यहो ॥१५॥
इति तद्वचनं श्रुत्वा सक्रोधः स द्विजोत्तमः ॥
राज्ञो गौरवमुल्लंघ्य जगाद वचनं तदा ॥१६॥
॥ विष्णुदास उवाच ॥
राजन्भक्तिं न जानासि गर्वितोऽसि नृपश्रिया ॥
कियद्विष्णुव्रतं पूर्वं त्वया चीर्णं वदस्व तत् ॥१७॥
॥गणावूचतुः॥
तद्ब्राह्मणवचः श्रुत्वा प्रहस्य स नृपोत्तमः॥
विष्णुदासं तदा गर्वादुवाच वचनं द्विजम् ॥१८॥
॥राजोवाच॥
इत्थं चेद्वदसे विप्र विष्णुभक्त्याऽतिगर्वितः॥
भक्तिस्ते कियती विष्णोर्दरिद्रस्याऽधनस्य च ॥१९॥
यज्ञदानादिकं नैव विष्णोस्तुष्टिकरं कृतम् ॥
नाऽपि देवालयं पूर्वं कृतं विप्र त्वया क्वचित् ॥२०॥
ईदृशस्याऽपि ते गर्व एष तिष्ठति भक्तितः ॥
तच्छृण्वंतु वचो मेऽद्य सर्वेऽप्येते द्विजातयः ॥२१॥
साक्षात्कारमहं विष्णोरेष वादो गमिष्यति ॥
पश्यंतु सर्वेऽपि ततो भक्तिं ज्ञास्यंति चावयोः ॥२२॥
॥ गणावूचतुः ॥
इत्युक्त्वा स नृपोऽगच्छन्निजराजगृहं तदा ॥
आरभद्वैष्णवं सत्रं कृत्वाऽऽचार्यं तु मुद्गलम् ॥२३॥
ऋषिसंघसमाजुष्टं बह्वन्नं बहुदक्षिणम् ॥
यच्च ब्रह्मकृतं पूर्वं गयाक्षेत्रे समृद्धिमत् ॥२४॥
विष्णुदासोऽपि तत्रैव तस्थौ देवालये व्रती ॥
यथोक्तनियमान्कुर्वन्विष्णोस्तुष्टिकरान्सदा ॥२५॥
माघोर्जयोर्व्रतं सम्यक्तुलसीवनपालनम् ॥
एकादश्यां हरेर्जाप्यं द्वादशाक्षरविद्यया ॥२६॥
उपचारैः षोडशभिर्नृत्यगीतादिमंगलैः ॥
नित्यं विष्णोस्तथा पूजां व्रतान्येतानि सोऽकरोत् ॥२७॥
नित्यं संस्मरणं विष्णोर्गच्छन्भुवि स्वपन्नपि ॥
सर्वभूतस्थितं विष्णुमपश्यत्समदर्शनः ॥२८॥
माघकार्तिकयोर्नित्यं विशेषनियमानपि ॥
अकरोद्विष्णुतुष्ट्यर्थं सोद्यापनविधिं तथा ॥२९॥
एवं समाराधयतोः श्रियः पतिं तयोश्च चोलेश्वरविष्णुदासयोः ॥
अगाद्धि कालः सुमहान्व्रतस्थयोस्तन्निष्ठसर्वेंद्रियकर्मणोस्तदा ॥३०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये चोलराजविष्णुदासब्राह्मणविवादकथनंनाम षड्विंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : November 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP