कार्तिकमासमाहात्म्यम् - अध्याय २०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात् ॥
अगमंस्ते रणं हित्वा क्रोशमाना महेश्वरम् ॥१॥
अथ कोलाहलं श्रुत्वा गणानां चंद्रशेखरः ॥
अभ्ययाद्वृषभारूढः संग्रामं प्रहसन्निव ॥२॥
रुद्रमायांतमालोक्य सिंहनादैर्गणाः पुनः ॥
निवृत्ताः संगरे दैत्यान्निर्जघ्नुः शरवृष्टिभिः ॥३॥
दैत्याश्च भीषणं दृष्ट्वा सर्वे चैव विदुद्रुवुः ॥
कार्तिकव्रतिनं दृष्ट्वा पातकानीव तद्भयात् ॥४॥
जलंधरोथ तान्दैत्यान्निवृत्तान्प्रेक्ष्य संगरे ॥
रोषादधावच्चंडीशं मुंचन्बाणान्सहस्रशः ॥५॥
शुंभो निशुंभोऽश्वमुखः कालनेमिर्बलाहकः ॥
खड्गरोमा प्रचंडश्च घस्मराद्याः शिवं ययुः ॥६॥
बाणांधकारसंछन्नं दृष्ट्वा गणबलं शिवः ॥
बाणजालमवाच्छिद्य स्वबाणैरावृणोन्नभः ॥७॥
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ॥
प्रचंडबाणजालौघैरपातयत भूतले ॥८॥
खड्गरोम्णः शिरः कायात्तदा परशुनाऽच्छिनत् ॥
बलाहकस्य च शिरः खट्वांगेनाऽकरोद्द्विधा ॥९॥
बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि ॥
वृषभेण हताः केचित्केचिद्बाणैर्निपातिताः ॥१०॥
न शेकुरसुराः स्थातुं गजाः सिंहार्दिता इव ॥
ततः क्रोधपरीतात्मा वेगाद्रुद्रं जलंधरः ॥११॥
आह्वयामास समरे तीव्राशनिसमस्वनः ॥
॥ जलंधर उवाच ॥
युध्यस्व च मया सार्द्धं किमेभिर्निहितैस्तव ॥१२॥
यच्च किंचिद्बलं तेऽस्ति तद्दर्शय जटाधर ॥
इत्युक्त्वा बाणसप्तत्या जघान वृषभध्वजम् ॥१३॥
तान्प्राप्तान्निशितैर्बाणैश्चिच्छेद प्रहसन्निव॥
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद शक्तिभिः॥१४॥
स च्छिन्नधन्वा विरथो गदामुद्यम्य वेगवान् ॥
अभ्यधावच्छिवस्तावद्गदां बाणैर्द्विधाऽच्छिनत् ॥१५॥
तथाऽपि मुष्टिमुद्यम्य ययौ रुद्रं जिघांसया ॥
तावच्छिवेन बाणौघैः क्रोशमात्रमपाकृतः॥१६॥
ततो जलंधरो दैत्यो मत्वा रुद्रं बलाधिकम् ॥
ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम् ॥१७॥
ततो जगुश्च ननृतुर्गंधर्वाप्सरसां गणाः ॥
तालवेणुमृदंगाद्यान्वादयंति स्म चाऽपरे ॥१८॥
तद्दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः ॥
पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः ॥१९॥
एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलंधरः ॥
कामार्तः स जगामाशु यत्र गौरी स्थिताऽभवत् ॥२०॥
युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबली ॥
दशदोर्दंडपचास्यस्त्रिनेत्रश्च जटाधरः ॥२१॥
महावृषभमारूढः स बभूव जलंधरः ॥
अथो रुद्रं समायांतमालोक्य भववल्लभा॥२२॥
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ॥
यावद्ददर्श चार्वंगी पार्वती दनुजेश्वरः ॥२३॥
तावत्स्ववीर्यं मुमुचे जडांगश्चाऽभवत्तदा ॥
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला ॥२४॥
जगामाऽन्तर्हिता वेगात्सा तदोत्तरमानसे ॥
तामदृष्ट्वा ततो दैत्यः क्षणाद्विद्युल्लतामिव ॥२५॥
जवेनाऽऽगात्पुनर्युद्धं यत्र देवो वृषध्वजः ॥
पार्वत्यपि भयाद्विष्णुं सस्मार मनसा तदा ॥२६॥
तावद्ददर्श तं देवं सूपविष्टं समीपगम् ॥
॥ पार्वत्युवाच॥
विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम् ॥२७॥
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ॥
॥ विष्णुरुवाच ॥
तेनैव दर्शितः पंथा वयमप्यन्वयामहे ॥२८॥
नाऽन्यथा स भवेद्वध्यः पातिव्रत्यसुरक्षित्ः ॥
॥ नारद उवाच ॥
जगाम विष्णुरित्युक्त्वा पुनर्जालंधरं पुरम् ॥२९॥
अथ रुद्रश्च गंधर्वाऽनुगतः संगरे स्थितः ॥
अंतर्धानं गतां मायां दृष्ट्वा स बुबुधे तदा ॥३०॥
ततो भवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा ॥
स चाऽपि दैत्यः पुनरागतं शिवं दृष्ट्वा शरौघैः समवाकिरद्रणे ॥३१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने शिवजलंधरयुद्धवर्णनंनाम विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : November 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP