कार्तिकमासमाहात्म्यम् - अध्याय ९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ वालखिल्या ऊचुः ॥
कृष्णः प्रोवाच धर्माय द्वादशीं वत्ससंज्ञिताम्॥
गोधूलिकालसंयुक्ता द्वादशी वत्सपूजने॥१॥
वत्सपूजा वटे चैव कर्तव्या प्रथमेऽहनि ॥
सवत्सां तुल्यवर्णां च शीलिनीं गां पयस्विनीम् ॥
चंदनादिभिरालिप्य पुष्पमालाभिरर्चयेत् ॥२॥
तद्दिने तैलपक्वं च स्थालीपक्वं युधिष्ठिर ॥
गोक्षीरं गोघृतं चैव दधिक्षीरं च वर्जयेत् ॥३॥
दिनांते सूर्यबिंबार्धादुभयत्र घटीदलम् ॥
ततो नीराजनं कार्य्यं निरीक्षेच्च शुभाऽशुभम् ॥४॥
नानादीपान्प्रकल्प्याऽऽदौ स्वर्णपात्रादि संस्थितान् ॥
नीराजयेद्दीपपूर्वं निरीक्षेत शुभाऽशुभम् ॥५॥
लापयित्वा सर्वदीपानुत्तराभिमुखान्न्यसेत् ॥
मुख्या दीपा नव प्रोक्ता अन्यानपि च कल्पयेत् ॥६॥
ज्वाला चेद्दक्षिणासंस्था सतेजस्का शिखान्विता ॥
स्थिरा चेत्सौख्यदा प्रोक्ता विपरीता तु दुःखदा ॥७॥
कार्तिके कृष्णपत्रे तु द्वादश्यादिषु पंचसु ॥
तिथिषूक्तः पूर्वरात्रे नृणां नीराजनाविधिः ॥८॥
पक्षं संसूचयत्यादिर्द्वितीयो मासमेव च ॥
तृतीय ऋतुमेवेह चतुर्थस्त्वयनं तथा ॥
वर्षं तु पंचमो दीपः शुभाशुभं विनिर्णयेत् ॥९॥
सूर्यांशसंभवा दीपा अंधकारविनाशकाः ॥
त्रिकाले मां दीपयंतु दिशंतु च शुभाऽशुभम्॥१०॥
अभिमंत्र्य च मंत्रेण ततो नीराजयेत्क्रमात् ॥११॥
आदौ देवांस्ततो विप्रान्हस्तिनश्च तुरंगमान् ॥
ज्येष्ठाञ्च्छ्रेष्ठाञ्जघन्यांश्च मातृमुख्याश्च योषितः ॥१२॥
ततो नीराजितान्दीपान्स्वस्वस्थानेषु विन्यसेत् ॥
रूक्षैर्लक्ष्मीविनाशः स्याच्छ्वेतैरन्नक्षयो भवेत् ॥
अतिरक्तेषु युद्धानि मृत्युः कृष्णशिखेषु च ॥१३॥
एकांगीनाम गोपाला तयैतच्च व्रतं कृतम् ॥
धनधान्यसमायुक्ता जाता वर्षत्रयेण सा ॥१४॥ *
तस्माद्गोपूजनं कार्यं द्वादश्यां कार्तिकस्य तु ॥
एतद्गोव्रतमाहात्म्यं श्रुत्वा कुर्वंति ये नराः ॥१५॥
ते गोव्रतप्रभावेन न गोभिर्विच्युता भुवि ॥
गोऽपराधः कृतो यः स्यात्स व्रताद्विलयं व्रजेत् ॥१६॥
॥ वालखिल्या ऊचुः ॥
कृष्णपक्षे चतुर्दश्यां मासि चाऽऽश्वयुजे तथा ॥
दीपोत्सव समीपे तु व्रतमेतत्समाचरेत् ॥१७॥
प्रातः स्नात्वा त्रयोदश्यां कृत्वा वै दंतधावनम्॥
त्रिरात्रनियमं कृत्वा गोविंदे भक्तितत्परः ॥१८॥
कार्य एतद्व्रतस्यांते तथा गोवर्द्धनोत्सवः ॥
त्रिमुहूर्ताऽधिका ग्राह्या परवेधो न दोषभाक् ॥१९॥
आश्विनस्याऽसिते पक्षे त्रयोदश्यां निशामुखे ॥
यमदीपं बलिं दद्यादपमृत्युर्विनश्यति ॥२०॥
पुरा हेमनकस्यैव बालकश्चाऽपमृत्युतः ॥
मुक्तोभूदाश्विने कृष्णत्रयोदश्यां दयावशात् ॥२१॥
॥ दूता ऊचुः ॥
यथा न जीविताद्भ्रश्येदीदृशे तु महोत्सवे ॥
तथोपायं ब्रूहि यम कृपां कृत्वाऽस्मदग्रतः ॥२२॥
॥ यम उवाच ॥
आश्विनस्याऽसिते पक्षे त्रयोदश्यां निशामुखे ॥
प्रतिवर्षं तु यो दद्याद्गृहद्वारे सुदीपकम् ॥२३॥
मन्त्रेणाऽनेन भो दूताः समानेयः स नोत्सवे ॥
प्राप्तेऽपमृत्यावपि च शासनं क्रियतां मम ॥२४॥
मृत्युना पाशदंडाभ्यां कालेन च मया सह ॥
त्रयोदश्यां दीपदानात्सूर्यजः प्रीयतामिति ॥२५॥
मन्त्रेणानेन यो दीपं द्वारदेशे प्रयच्छति ॥
उत्सवे चाऽपमृत्योश्च भयं तस्य न जायते ॥२६॥
॥ वालखिल्या ऊचुः ॥
पूर्वविद्धचतुर्दश्यामाश्विनस्य सितेतरे ॥
पक्षे प्रत्यूषसमये स्नानं कुर्यात्प्रयत्नतः ॥२७॥
अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः ॥
तस्याऽब्दिकभवो धर्मो नश्यत्येव न संशयः ॥२८॥
तथा कृष्णचतुर्दश्यामाश्विनेऽर्कोदये सुराः ॥
यामिन्याः पश्चिमे यामे तैलाभ्यंगो विशिष्यते ॥२९॥
यदा चतुर्दशी न स्याद्द्विदिने चेद्विधूदये ॥
दिनद्वये भवेच्चाऽपि तदा पूर्वैव गृह्यते ॥३०॥
बलात्काराद्धठाद्वाऽपि शिष्टत्वान्न करोति चेत् ॥
तैलाभ्यंगं चतुर्दश्यां रौरवं नरकं व्रजेत् ॥३१॥
तैले लक्ष्मीर्जले गंगा दीपावल्याश्चतुर्दशीम् ॥
प्रातःस्नानं हि यः कुर्याद्यमलोकं न पश्यति ॥३२॥
अपामार्गमथो तुंबीं प्रपुन्नाडमथाऽपरम् ॥
भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै ॥३३॥
वारत्रयं त्रिवारं च पठित्वा मन्त्रमुत्तमम् ॥३४॥
सीतालोष्टसमायुक्त सकंटकदलान्वित ॥
हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः ॥
अपामार्गं प्रपुन्नाडं भ्रामयेच्छिरसोपरि ॥३५॥
स्नात्वार्द्रवाससा दद्याद्दीपकं मृत्युपुत्रयोः ॥
शुनकौ श्यामशबलौ भ्रातरौ यमसेवकौ ॥
तुष्टौ स्यातां चतुर्दश्यां दीपदानेन मृत्युजौ ॥३६॥
इष्टवंधुजनैः सार्द्धमेतत्स्नानं समाचरेत् ॥
स्नानांगतर्पणं कृत्वा यमं संतर्पयेत्ततः॥ ३७॥
यमाय धर्मराजाय मृत्यवे चाऽन्तकाय च ॥
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥३८॥
औदुंबराय दध्नाय नीलाय परमेष्ठिने ॥
वृकोदराय चित्राय चित्रगुप्ताय ते नमः ॥३९॥
चतुर्दशैते मन्त्राः स्युः प्रत्येकं च नमोऽन्विताः ॥
एकैकेन तिलैर्मिश्रान्दद्यात्त्रीनुदकाञ्जलीन् ॥४०॥
यज्ञोपवीतिना कार्यं प्राचीनावीतिनाऽथवा ॥
देवत्वं च पितृत्वं च यमस्याऽस्ति द्विरूपता ॥४१॥
जीवत्पिताऽपि कुर्वीत तर्पणं यमभीष्मयोः ॥
नरकाय प्रदातव्यो दीपः संपूज्य देवताः ॥४२॥*
अत्रैव लक्ष्मीकामस्य विधिः स्नाने मयोच्यते ॥
इषे भूते च दर्शे च कार्तिके प्रथमे दिने ॥४३॥
यदा स्नाति तदाऽभ्यंगस्नानं कुर्याद्विधूदये
ऊर्ज्जशुक्लद्वितीयायां तिथौ च स्वातियुग्मगे ॥४४॥
मानवो मंगलस्नायी नैव लक्ष्म्या वियुज्यते ॥
दीपैर्नीराजनादत्र सैषा दीपावलिः स्मृता ॥४५॥
इंदुक्षयेऽपि संक्रातौ रवौ पाते दिनक्षये ॥
अत्राऽभ्यंगो न दोषाय प्रातः पापाऽपनुत्तये ॥४६॥
माषपत्रस्य शाकं वै भुक्त्वा तस्मिन्दिने नरः ॥
प्रेताख्यायां चतुर्दश्यां सर्वपापैः प्रमुच्यते ॥४७॥
इषासितचतुर्दश्यामिन्दुक्षयतिथावपि ॥
दर्शादौ स्वातिसंयुक्ते तदा दीपावलिर्भवेत् ॥४८॥
कुर्यात्संलग्नमेतच्च दीपोत्सवदिनत्रयम् ॥
महाराजो बलिः प्रोक्तस्तुष्टेन हरिणा तथा ॥४९॥
वरं याचस्व भद्रं ते यद्यन्मनसि वर्तते ॥
इति विष्णुवचः श्रुत्वा बलिर्वचनमब्रवीत् ॥५०॥
आत्मार्थं किं याचनीयं सर्वं दत्तं मया तथा ॥
लोकार्थं याचयिष्यामि शक्तश्चेद्देहि तच्च मे ॥५१॥
मयाऽद्य ते धरा दत्ता वामनच्छद्मरूपिणे ॥
त्रिभिः पदैस्त्रिदिवसैः सा चाऽऽक्रांता यतस्त्वया ॥५२॥
तस्माद्भूमितले राज्यमस्तु घस्रत्रये हरे ॥५३॥
मद्राज्ये ये दीपदानं भुवि कुर्वंति मानवाः ॥
तेषां गृहे तव स्त्रीयं सदा तिष्ठतु सुस्थिरा ॥५४॥
मम राज्ये गृहे यैषामंधकारः पतिष्यति ॥
लक्ष्मीसंतानांधकारः सदा पततु तद्गृहे ॥५५॥
चतुर्दश्यां च ये दीपान्नरकाय ददंति च ॥
तेषां पितृगणाः सर्वे नरके न वसंति च ॥५६॥
बलिराज्यं समासाद्य यैर्न दीपावलिः कृता ॥
तेषां गृहे कथं दीपाः प्रज्वलिष्यंति केशव ॥५७॥
बलिराज्ये तु ये लोकाः शोकाऽनुत्साहकारिणः ॥
तेषां गृहे सदा शोकः पतेदिति न संशयः ॥५८॥
चतुर्दशीत्रये राज्यं बलेरस्त्विति याचयेत् ॥
पुरा वामनरूपेण प्रार्थयित्वा धरामिमाम् ॥
ददावतिथयेंद्राय बलिं पातालवासिनम् ॥५९॥
दत्तं दैत्यपतेरित्थं हरिणा तद्दिनत्रयम् ॥
तस्मान्महोत्सवं चात्र सर्वथैव हि कारयेत् ॥६०॥
महारात्रिः समुत्पन्ना चतुर्दश्यां मुनीश्वराः ॥
अतस्तदुत्सवः कार्यः शक्तिपूजापरायणैः ॥६१॥
बलिराज्यं समासाद्य यक्षगंधर्वकिन्नराः ॥
औषध्यश्च पिशाचाश्च मंत्राश्च मणयस्तथा ॥६२॥
सर्व एव प्रहृष्यंति नृत्यंति च निशामुखे ॥
तत्तन्मंत्राश्च सिद्ध्यंति बलिराज्ये न संशयः ॥६३॥
बलिराज्यं समासाद्य यथा लोकाः सुहर्षिताः ॥
तथा तद्दिनमध्ये तु लोकाः स्युर्हर्षिता भृशम् ॥६४॥
तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः ॥
उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम् ॥६५॥
नरकस्थास्तु ये प्रेतास्ते मार्गं तु व्रतात्सदा ॥
पश्यंत्येव न संदेहः कार्योऽत्र मुनिपुंगवैः ॥६६॥
आश्विने मासि भूतादितिथयः कीर्तितास्त्रयः॥
दीपदानादिकार्येषु ग्राह्या मध्याह्नकालिकाः ॥६७॥
यदि स्युः संगवादर्वागेताश्च तिथयस्त्रयः ॥
दीपदानादिकार्येषु कर्तव्याः पूर्वसंयुताः ॥६८॥
॥ ऋषय ऊचुः ॥
कौमोदिन्यास्तु माहात्म्यं प्रष्टुमिच्छामहे द्विजाः ॥
तस्मिन्दिने तु किं भोज्यं कस्य पूजां तु कारयेत् ॥६९॥
किमर्थं क्रियते सा तु तस्याः का देवता भवेत् ॥
किं च तत्र भवेद्देयं किं न देयं विशेषतः॥७०॥
प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा काऽत्र प्रकीर्तिता ॥
दीपावल्याः फलं सर्वं वदन्तु ऋषिसत्तमाः ॥७१॥
॥ वालखिल्या ऊचुः ॥
ततः प्रभात समये त्वमायां तु मुनीश्वराः ॥
स्नात्वा देवान्पितॄन्भक्त्या संपूज्याऽथ प्रणम्य च ॥७२॥
कृत्वा तु पार्वणश्राद्धं दधिक्षीरघृतादिभिः ॥
दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात् ॥७३॥
ततः प्रदोषसमये पूजयेदिंदिरां शुभाम् ॥
कुर्यान्नानाविधैर्वस्त्रैः स्वच्छं लक्ष्म्याश्च मण्डपम् ॥७४॥
नानापुष्पैः पल्लवैश्च चित्रैश्चाऽपि विचित्रितम् ॥
तत्र संपूजयेल्लक्ष्मीं देवांश्चाऽपि प्रपूजयेत् ॥७५॥
संपूज्या देवनार्योऽपि वहुभिश्चोपचारकैः ॥
पादसंवाहनं कुर्याल्लक्ष्म्यादीनां तु भक्तितः ॥७६॥
अस्मिन्नहनि सर्वेऽपि विष्णुना मोचिताः पुरा ॥
बलिकारागृहाद्देवा लक्ष्मीश्चाऽपि विमोचिता ॥७७॥
लक्ष्म्या सार्द्धं ततो देवा जग्मुः क्षीरोदधौ पुनः ॥
प्रसुप्ता बहुकालं ते सुखं तस्मान्मुनीश्वराः॥७८॥
रचनीयाः सूत्रगर्भाः पर्यंकाश्च सुतूलिकाः ॥
दुग्धफेनोपमैर्वस्त्रैरास्तृताश्च यथादिशम् ॥७९॥
स्थापयेत्तान्सुराँल्लक्ष्मीं वेदघोषसमन्वितः ॥
लक्ष्मीर्दैत्यभयान्मुक्ता सुखं सुप्तांबुजोदरे ॥८०॥
अतोऽत्र विधिवत्कार्या तुष्ट्यै तु सुखसुप्तिका ॥
तदह्नि पद्मशय्यां यः पद्मासौख्यविवृद्धये ॥८१॥
कुर्यात्तस्य गृहं मुक्त्वा तत्पद्मा क्वाऽपि न व्रजेत् ॥
न कुर्वंति नरा इत्थं लक्ष्म्या ये सुखसुप्तिकाम् ॥८२॥
धनचिन्ता विहीनास्ते कथं रात्रौ स्वपंति हि ॥
तस्मात्सर्वप्रयत्नेन लक्ष्मीं संपूजयेन्नरः ॥८३॥
स तु दारिद्र्यनिर्मुक्तः स्वजातौ स्यात्प्रतिष्ठितः ॥
जातिपत्रलंवगैलात्वक्कर्पूरसमन्वितम् ॥८४॥
पाचयित्वा गव्यदुग्धं सितां दत्त्वा यथोचिताम् ॥
लड्डुकांस्तस्य कुर्वीत तांश्च लक्ष्म्यै समर्पयेत् ॥८५॥
अन्यच्चतुर्विधं भक्ष्यं दद्याच्छ्रीः प्रीयतामिति ॥
अप्रबुद्धे हरौ पूर्वं स्त्रीभिर्लक्ष्मीं प्रबोधयेत् ॥८६॥
प्रबोधसमये लक्ष्मीं बोधयित्वा भुनक्ति या ॥
पुमान्वा वत्सरं यावल्लक्ष्मीस्तं नैव मुञ्चति ॥८७॥
अभयं प्राप्य विप्रेभ्यो विष्णुभीताः सुरद्विषः ॥
क्षीराब्धौ तुष्टुवुर्ज्ञात्वा सुप्तां पद्माश्रितां श्रियम् ॥८८॥
त्वं ज्योतिः श्रीरवीन्द्वग्निविद्युत्सौवर्णतारकाः ॥
सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिःस्थिते नमः ॥८९॥
या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले ॥
गवां गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम ॥९०॥
दीपदानं ततः कुर्यात्प्रदोषे च तथोल्मुकम् ॥
भ्रामयेत्स्वस्य शिरसि सर्वाऽरिष्टनिवारणम् ॥९१॥
दीपवृक्षास्तथा कार्याः शक्त्या देवगृहादिषु ॥
चतुष्पथे श्मशाने च नदीपर्वतवेश्मसु ॥९२॥
वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च ॥
वस्त्रैः पुष्पैः शोभितव्या राजमार्गस्य भूमयः ॥९३॥
सर्वं पुरमलंकृत्य प्रदोषे तदनन्तरम् ॥
ब्राह्मणान्भोजयित्वाऽऽदौ संभोज्य च बुभुक्षितान्॥ ९४॥
अलंकृतेन भोक्तव्यं नववस्त्रोपशोभिना ॥
ततोऽपराह्नसमये घोषयेन्नगरं नृपः ॥९५॥
अद्य राज्यं बलेर्लोका यथेच्छं क्रीड्यतामिति ॥
यथेच्छं क्रीडतां बाला इत्याज्ञाप्य नृपेण तु ॥९६॥
तेभ्यो दद्यात्क्रीडनकं ततः पश्येच्छुभाशुभ्य ॥
बलिराज्ये प्रकर्तव्यं यद्यन्मनसि वर्तते ॥९७॥
जीवहिंसा सुरापानमगम्यागमनं तथा ॥
चौर्यं विश्वासघातश्च पंचैतानि मुनीश्वराः ॥
बलिराज्ये तु नरकद्वाराण्युक्तानि संत्यजेत् ॥९८॥
ततोऽर्द्धरात्रसमये स्वयं राजा व्रजेत्पुरम् ॥
अवलोकयितुं रम्यं पद्भ्यामेव शनैःशनैः ॥
बलिराज्यप्रमोदं च दृष्ट्वा स्वगृहमाव्रजेत् ॥९९॥
एवं गते निशीथे च जने निद्रार्द्धलोचने ॥
एवं नगरनारीभिः शूर्पडिंडिमवादनैः ॥
निष्कास्यते प्रदृष्टाभिरलक्ष्मीः स्वगृहांऽगणात् ॥१००॥
दंडैकरजनीयोगे दर्शः स्यात्तु परेऽहनि ॥
तदा विहाय पूर्वेद्युः परेऽह्नि सुखरात्रिका ॥१०१॥ *
ये वैष्णवाऽवैष्णवाश्च बलिराज्योत्सवं नराः ॥
न कुर्वंति वृथा तेषां धर्माः स्युर्नात्र संशयः ॥१०२॥
रात्रौ जागरणं कुर्यात्पुराणपठनादिभिः ॥
द्यूतेन वा हरेरग्रे गीतया वा तथैव च ॥१०३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये वत्सद्वादशीयमत्रयोदशीनरकचतुर्दशीदीपावलीकृत्यवर्णनंनाम नवमोऽध्यायः ॥९॥
N/A
References : N/A
Last Updated : October 29, 2024
TOP