कार्तिकमासमाहात्म्यम् - अध्याय २१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
विष्णुर्जलंधरं गत्वा तद्दैत्यपुटभेदनम् ॥
पातिव्रत्यस्य भंगाय वृंदायाश्चाऽकरोन्मतिम् ॥१॥
अथ वृंदारका देवी स्वप्नमध्ये ददर्श ह ॥
भर्तारं महिषाऽऽरूढं तैलाभ्यक्तं दिगंम्बरम् ॥२॥
कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् ॥
दक्षिणाशागतं मुण्डं तमसाप्याऽऽवृतं तदा ॥३॥
स्वपुरं सागरे मग्नं सहसैवाऽऽत्मना सह ॥
ततः प्रबुद्धा सा बाला तत्स्वप्नं प्रविचिन्वती ॥४॥
ददर्शोदितमादित्यं सच्छिद्रं निष्प्रभं मुहुः ॥
तदनिष्टमिति ज्ञात्वा रुदती भयविह्वला ॥५॥
कुत्रचिन्नाऽलभच्छर्म गोपुराट्टालभूमिषु ॥
ततः सखीद्वययुता नगरोद्यानमागमत् ॥६॥
तत्राऽपि साऽभ्रमद्बाला नाऽलभत्कुत्रचित्सुखम् ॥
वनाद्वनांतरं याता नैव वेदात्मनस्तदा ॥७॥
ततः सा भ्रमती बाला ददर्शाऽतीवभीषणौ ॥
राक्षसौ सिंहवदनौ दंष्ट्राऽऽननविभीषणौ ॥८॥
तौ दृष्ट्वा विह्वलाऽतीव पलायनपराऽभवत् ॥
ददर्श तापसं शांतं सशिष्यं मौनमास्थितम् ॥९॥
ततस्तत्कण्ठमावृत्य निजां बाहुलतां भयात् ॥
मुने मां रक्ष शरणमागताऽस्मीत्यभाषत ॥१०॥
मुनिस्तां विह्वलां दृष्ट्वा राक्षसाऽनुगतां तदा ॥
हुंकारेणैव तौ घोरौ चकार विमुखौ रुषा ॥११॥
तौ हुंकारभयत्रस्तौ दृष्ट्वा च विमुखौ गतौ ॥
प्रणम्य दंडवद्भूमौ वृन्दा वचनमब्रवीत् ॥१२॥
॥ वृन्दोवाच ॥
रक्षिताहं त्वया घोराद्भयादस्मात्कृपानिधे ॥
किंचिद्विप्तुमिच्छामि कृपया तन्निशामय ॥१३॥
जलंधरो हि मद्भर्ता रुद्रं योद्धुं गतः प्रभो ॥
स तत्राऽस्ते कथं युद्धे तन्मे कथय सुव्रत ॥१४॥
॥ नारद उवाच ॥
मुनिस्तद्वाक्यमाकर्ण्य कृपयोर्ध्वमवैक्षत ॥
तावत्कपी समायातौ प्रणम्य चाग्रतः स्थितौ ॥१५॥
ततस्तद्भ्रूलतासंज्ञानियुक्तौ गगनं गतौ ॥
गत्वा क्षणार्द्धादागत्य प्रणतावग्रतः स्थितौ ॥
शिरःकबन्धे हस्तौ च गृहीत्वा समुपस्थितौ ॥१६॥
शिरःकबंधे हस्तौ च दृष्ट्वाऽब्धितनयस्य सा ॥
पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता ॥१७॥
कमंडलूदकैः सिक्त्वा मुनिनाऽऽश्वासिता तदा ॥
स्वभर्तृभाले सा भालं कृत्वा दीना रुरोद ह ॥१८॥
॥ वृन्दोवाच ॥
यः पुरा सुखसंवादे विनोदयसि मां प्रभो ॥
स कथं न वदस्यद्य वल्लभा मामनागसम् ॥१९॥
येन देवाः सगंधर्वा निर्जिता विष्णुना सह ॥
स कथं तापसेनाऽद्य त्रैलोक्यविजयी हतः ॥२०॥
॥ नारद उवाच ॥
रुदित्वेति तदा वृन्दा तं मुनिं वाक्यमब्रवीत् ॥
॥ वृन्दोवाच ॥
कृपानिधे मुनिश्रेष्ठ जीवयैनं मम प्रियम् ॥२१॥
त्वमेवास्य मुने शक्तो जीवनाय मतो मम
॥ नारद उवाच ॥
इति तद्वाक्यमाकर्ण्य प्रहसन्मुनिरब्रवीत् ॥२२॥
॥ मुनिरुवाच ॥
नाऽयं जीवयितुं शक्तो रुद्रेण निहतो युधि ॥
तथाऽपि त्वत्कृपाविष्ट एनं संजीवयाम्यहम् ॥२३॥
॥ नारद उवाच ॥
इत्युक्त्वांतर्दधे विप्रस्तावत्सागरनंदनः ॥
वृंदामालिंग्य तद्वक्त्रं चुचुंब प्रीतमानसः ॥२४॥
अथ वृन्दाऽपि भर्तारं दृष्ट्वा हर्षितमानसा ॥
रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरम् ॥२५॥
कदाचित्सुरतस्यांते दृष्ट्वा विष्णुं तमेव च ॥
निर्भर्त्स्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीत् ॥२६॥
॥ वृंदोवाच ॥
धिक्त्वदीयं हरे शीलं परदाराभिगामिनः ॥
ज्ञातोऽसि त्वं मया सम्यङ्मायाप्रच्छन्नतापसः ॥२७॥
यौ त्वया मायया द्वाःस्थौ स्वकीयौ दर्शितौ मम ॥
तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यतः ॥२८॥
त्वं चाऽपि भार्यादुःखार्तो वने कपिसहायवान् ॥
भ्रम सर्पेश्वरेणाऽयं यस्ते शिष्यत्वमागतः ॥२९॥
इत्युक्त्वा सा तदा वृन्दा प्राविशद्धव्यवाहनम् ॥
विष्णुना वार्यमाणाऽपि तस्यामासक्तचेतसा ॥३०॥
ततो हरिस्तामनुसंस्मरन्मुहुर्वृंदान्वितोभस्मरजोवगुंठितः ॥
तत्रैव तस्थौ सुरसिद्धसंघैः प्रबोध्यमानोऽपि ययौ न शांतिम् ॥३१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने वृन्दाग्निप्रवेशवर्णनंनामैकविंशोऽध्यायः ॥२१॥*

N/A

References : N/A
Last Updated : November 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP