कार्तिकमासमाहात्म्यम् - अध्याय १
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥श्रीगणेशाय नमः ॥
॥ अथ कार्त्तिकमासमाहात्म्यप्रारम्भः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥१॥
॥ ऋषय ऊचुः ॥
सूत नः कथितं पुण्यं माहात्म्यमाश्विनस्य च ॥
भूयोऽन्यच्छ्रोतुमिच्छामः कार्तिकस्य च वैभवम् ॥२॥
कलौ कलुषचित्तानां नराणां पापकर्मणाम् ॥
संसाराब्धौ निमग्नानामनायासेन का गतिः ॥३॥
को धर्मः सर्वधर्माणामधिको मोक्षसाधकः ॥
इहाऽपि मुक्तिदो नृणामेतत्त्वं कथय प्रभो ॥४॥
॥ सूत उवाच ॥
भवद्भिर्यदहं पृष्टस्तदेतत्पृष्टवान्मुनिः ॥
नारदो ब्रह्मणः पुत्रो ब्रह्माणं तु जगद्गुरुम् ॥५॥
तथैव सत्यभामा च श्रीकृष्णं जगदीश्वरम् ॥
अपृच्छत्कार्तिकस्यैव वैभवं श्रवणोत्सुका ॥६॥
वालखिल्यैश्च ऋषिभिर्यदुक्तमृषिसंसदि ॥
श्रीसूर्यारुणसंवादरूपेणाऽतिमनोहरम् ॥७॥
कैलासे शंकरेणैव कार्तिकस्य च वैभवम् ॥
वर्णितं षण्मुखस्याग्रे नानाख्यानसमन्वितम् ॥८॥
पृथुं प्रति नारदेन कथितं च महात्म्यकम् ॥
कार्तिकस्य च विप्रेंद्रा श्रुत्वा ब्रह्ममुखात्पुरा ॥९॥
एकदा नारदो योगी सत्यलोकमुपागतः ॥
पप्रच्छ विनयेनैव सर्वलोकपितामहम् ॥१०॥
॥ श्रीनारद उवाच ॥
पापेंधनस्य घोरस्य शुष्कार्द्रस्य च भूरिशः ॥
को वह्निर्दहते ब्रह्मंस्तद्भवान्वक्तुमर्हति ॥११॥
नाज्ञातं त्रिषु लोकेषु ब्रह्मांडांतर्गतस्य यत् ॥
विद्यते तव देवेश त्रिविधस्य सुनिश्चितम् ॥१२॥
मासानां प्रवरो मासो देवानामुत्तमोत्तमः ॥
तीर्थानि तद्विशेषेण कथयस्व पितामह ॥१३॥
॥ ब्रह्मोवाच ॥
मासानां कार्तिकः श्रेष्ठो देवानां मधुसूदनः ॥
तीर्थं नारायणाख्यं हि त्रितयं दुर्लभं कलौ ॥१४॥
॥ नारद उवाच ॥
भगवंस्तव दासोऽस्मि भक्तोऽस्मि हरिवल्लभ ॥
वैष्णवान्ब्रूहि मे धर्मान्सर्वज्ञोऽसि पितामह ॥१५॥
आदौ कार्तिकमाहात्म्यं वक्तुमर्हसि मे प्रभो ॥
दीपदानस्य माहात्म्यं व्रतिनां नियमांस्तथा ॥१६॥
गोपीचंदनमाहात्म्यं तुलस्याश्च तथा विभो ॥
धात्र्याश्चैव च माहात्म्यं विधिं स्नानादिकस्य च ॥
व्रतारंभः कदा कार्यं उद्यापनविधिं तथा ॥१७॥
यत्किंचिद्वैष्णवं धर्मं तत्सर्वं वक्तुमर्हसि ॥
येनाऽहं त्वत्प्रसादेन पदं यास्याम्यनामयम् ॥१८॥
॥ सूत उवाच ॥
इति पुत्रवचः श्रुत्वा ब्रह्मा हर्षसमन्वितः ॥
राधादामोदरं स्मृत्वा प्रोवाच तनुजं प्रति ॥१९॥
॥ ब्रह्मोवाच ॥
साधु पृष्टं त्वया पुत्र लोकोद्धरणहेतवे ॥
कथयामि न संदेहः कार्तिकस्य च वैभवम् ॥२०॥
एकतः सर्वतीर्थानि सर्वे यज्ञाः सदक्षिणाः ॥
कार्तिकस्य तु मासस्य कलां नार्हंति षोडशीम् ॥२१॥
एकतः पुष्करे वासः कुरुक्षेत्रे हिमालये ॥
एकतः कार्तिकः पुत्र सर्वपुण्याधिको मतः ॥२२॥
स्वर्णानि मेरुतुल्यानि सर्वदानानि चैकतः ॥
एकतः कार्तिको वत्स सर्वदा केशवप्रियः ॥२३॥
यत्किंचित्क्रियते पुण्यं विष्णुमुद्दिश्य कार्तिके ॥
तस्य क्षयं न पश्यामि मयोक्तं तव नारद ॥२४॥
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ॥
तथात्मानं समादद्यान्न भ्रश्येत यथा पुनः ॥२५॥
दुष्प्राप्यं प्राप्य मानुष्यं कार्तिकोक्तं चरेन्न यः ॥
धर्मं धर्मभृतां श्रेष्ठ स मातापितृघातकः ॥२६॥
कार्तिकः खलु वै मासः सर्वमासेषु चोत्तमः ॥
पुण्यानां परमं पुण्यं पावनानां च पावनम् ॥२७॥
अस्मिन्मासे त्रयस्त्रिंशद्देवाः सन्निहिता मुने ॥
अत्र स्नानानिदानानि भोजनानि व्रतानि च ॥२८॥
तिलधेनुं हिरण्यं च रजतं भूमिवाससी ॥
गोप्रदानानि कुर्वंति सर्वभावेन नारद ॥२९॥
तानि दानानि दत्तानि गृह्णंति विधिवत्सुराः ॥
यत्किंच दत्तं विप्रेंद्र तपश्चैव तथा कृतम् ॥३०॥
तदक्षय्यफलं प्रोक्तं विष्णुना प्रभविष्णुना ॥
पापानां मोक्षणं चैव कार्तिके मासि शस्यते ॥३१॥
तस्माद्यत्नेन विप्रेंद्र कार्तिके मासि दीयते ॥
यत्किंचित्कार्तिके दत्तं विष्णुमुद्दिश्य मानवैः ॥३२॥
तदक्षयं हि लभते अन्नदानं विशेषतः ॥
यथा नदीनां विप्रेंद्र शैलानां चैव नारद ॥३३॥
उदधीनां च विप्रर्षे क्षयो नैवोपपद्यते ॥
दानं कार्तिकमासे तु यत्किंचिद्दीयते मुने ॥३४॥
न तस्यास्ति क्षयो विप्र पापं याति सहस्रधा ॥
संप्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत् ॥३५॥
दिनेदिनेऽतिकृच्छ्रस्य फलं प्राप्नोत्ययत्नतः ॥
न कार्तिकसमो मासो न कृतेन समं युगम् ॥३६॥
न वेदसदृशं शास्त्रं न तीर्थं गंगया समम् ॥
न चान्नसदृशं दानं न सुखं भार्यया समम् ॥३७॥
न्यायेनोपार्जितं द्रव्यं दुर्लभं दानकारिणाम् ॥
दुर्लभं मर्त्यधर्माणां तीर्थे च प्रतिपादनम् ॥३८॥
कार्तिके मुनिशार्दूल शालिग्रामशिलार्चनम् ॥
स्मरणं वासुदेवस्य कर्तव्यं पापभीरुणा ॥३९॥
एतादृशं कार्तिकं च अकृतेनैव यो नयेत् ॥
पूर्वं कृतस्य पुण्यस्य क्षयमाप्नोत्यसंशयम् ॥४०॥
॥ नारद उवाच ॥
अशक्तेन कथं कार्यं कार्तिकव्रतमुत्तमम् ॥
येन तत्फलमाप्नोति तन्मे वद पितामह ॥४१॥
॥ ब्रह्मोवाच ॥
अशक्तस्तु यदा मर्त्यस्तदैवं व्रतमाचरेत् ॥
अन्यस्मै द्रविणं दत्त्वा कारयेत्कार्तिकव्रतम् ॥४२॥
तस्मात्पुण्यं प्रगृह्णीत दानसंकल्पपूर्वकम् ॥
द्रव्यदानेऽप्यशक्तश्चेद्यदा देवर्षिसत्तम ॥४३॥
तदा तेन प्रकर्तव्यं पानं तीर्थजलस्य च ॥
तत्राप्यशक्तो यो मर्त्यस्तेन नित्यं हरेर्मुदा ॥४४॥
स्मरणं च प्रकर्तव्यं नाम्ना नियमपूर्वकम् ॥
अखंडितं तदा तेन कार्तिकव्रतजं फलम् ॥४५॥
विष्णोः शिवस्य वा कुर्यादालये हरिजागरम् ॥
शिवविष्ण्वोर्गृहाभावे सर्वदेवालयेष्वपि ॥४६॥
दुर्गाटव्यां स्थितो वाऽथ यदिवाऽऽपद्गतो भवेत् ॥
कुर्यादश्वत्थमूले तु तुलसीनां वनेष्वपि ॥४७॥
विष्णुनामप्रबंधानां गायनं विष्णुसन्निधौ ॥
गोसहस्रप्रदानस्य फलमाप्नोति मानवः ॥४८॥
वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेत्॥
सर्वतीर्थावगाहोत्थं नर्तकः फलमाप्नुयात् ॥४९॥
सर्वमेतल्लभेत्पुण्यमेतेषां द्रव्यदः पुमान्॥
श्रवणाद्दर्शनाद्वापि षडंशं फलमाप्नुयात् ॥५०॥
आपद्गतो यदाप्यंभो न लभेत्कुत्रचिन्नरः ॥
व्याधितो वाथवा कुर्याद्विष्णोर्नाम्नाऽपि मार्जनम् ॥५१॥
उद्यापनविधिं कर्तुमशक्तो यो व्रतस्थितः ॥
ब्राह्मणान्भोजयेत्पश्चाद्व्रतसंपूर्तिहेतवे ॥५२॥
अशक्तो दीपदानाय परदीपं प्रबोधयेत् ॥
तस्य वा रक्षणं कुर्याद्वातादिभ्यः प्रयत्नतः ॥५३॥
श्रीविष्णोः पूजनाऽभावे तुलसीधात्रिपूजनम् ॥
सर्वाऽभावे व्रती कुर्याद्ब्राह्मणानां गवामपि ॥
तस्याप्यभावे मनसि विष्णोर्नामानुकीर्तनम् ॥५४॥
॥ नारद उवाच ॥
ब्रह्मन्ब्रूहि विशेषेण धर्मान्कार्तिकसंभवान् ॥५५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकव्रतप्रशंसावर्णनंनाम प्रथमोऽध्यायः ॥१॥
N/A
References : N/A
Last Updated : October 29, 2024
TOP