संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुवैराग्यप्रकरणम् ।| सर्ग बत्तीसावा मुमुक्षुवैराग्यप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्व सातवा सर्ग आठवा सर्ग नववा सर्ग दहावा सर्ग अकरावा सर्ग बारावा सर्ग तेरावा सर्ग चौदावा सर्ग पंधरावा सर्ग सोळावा सर्ग सतरावा सर्ग अठरावा सर्ग एकोनिसावा सर्ग विसावा सर्ग एकविसावा सर्ग बाविसावा सर्ग तेविसावा सर्ग चोविसावा सर्ग पंचविसावा सर्ग सव्विसावा सर्ग सत्ताविसावा सर्ग अठ्ठाविसावा सर्ग एकोणतिसावा सर्ग तिसावा सर्ग एकतिसावा सर्ग बत्तीसावा सर्ग तेहतिसावा मुमुक्षुवैराग्यप्रकरणम् - सर्ग बत्तीसावा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग बत्तीसावा Translation - भाषांतर श्रीवाल्मीकिरुवाच ॥वदत्येवं मनोमोहविनिवृत्तकरं वचः । रामे राजीवपत्राक्षे तस्मिन्नाजकुमारके ॥१॥ सर्वे बभूवुस्तत्रस्था विस्मयोत्फुल्ललोचनाः । भिन्नाम्बरा देहरुहैर्गिरः श्रोतुमिवोद्धुरैः ॥२॥विरागवासनापास्तसमस्तभववासनाः । मुहूर्तममृताम्भोधिवीचीविलुलिता इव ॥३॥ता गिरो रामभद्रस्य तस्य चित्रार्पितैरिव । संश्रुताः शृणुकैरन्तरानन्दपदपीवरैः ॥४॥वसिष्ठविश्वामित्राद्यैर्मुनिभिः संसदि स्थितैः । जयन्तधृष्टिप्रमुखैर्मन्त्रिभिर्मन्त्रकोविदैः ॥५॥ नृपैर्दशरथप्रख्यैःपौरैः पारशवादिभिः । सामन्तै राजपुत्रैश्च ब्राह्मणैर्ब्रह्मवादिभिः ॥६॥ तथा भृत्यैरमात्यैश्च पञ्जरस्थैश्च पक्षिभिः । क्रीडामृगैर्गतस्पंन्दैस्तुरङ्गैस्त्यक्तचर्वणैः ॥७॥ कौसल्याप्रमुखैश्चैव निजवातायनस्थितैः । संशान्तभूषणारावैरस्पन्दैर्वनितागणैः ॥८॥उद्यानवल्लीनिलयैर्विटङ्कनिलयैरपि । अक्षुब्धपक्षततिभिर्विहङ्गैर्विरतारवैः ॥९॥ सिद्धैर्नभश्चरैश्चैव तथा गन्धर्वकिन्नरैः । नारदव्यासपुलहप्रमुखैर्मुनिपुङ्गवैः ॥१०॥अन्यैश्च देव देवेशविद्याधरमहोरगैः । रामस्य ता विचित्रार्था महोदारा गिरः श्रुताः ॥११॥अथ तूष्णीं स्थितवति रामे राजीवलोचने । तस्मिन्नघुकुलाकाशशशाङ्के शशिसुन्दरे ॥१२॥ साधुवादगिरा सार्धं सिद्धसार्थसमीरिता । वितानकसमा व्योम्नः पौष्पी वृष्टिः पपात ह ॥१३॥मन्दारकोशविश्रान्तभ्रमरद्वन्द्वनादिनी । मधुरामोदसौन्दर्यमुदितोन्मदमानवा ॥१४॥ व्योमवातविनुन्नेव तारकाणां परंपरा । पतितेव धरापीठे स्वर्गस्त्रीहसितच्छटा ॥१५॥वृष्यमूककचन्मेघलवावलिरिव च्युता । हैयंगवीनपिण्डानामीरितेव परंपरा ॥१६॥हिमवृष्टिरिवोदारा मुक्ताहारचयोपमा । ऐन्दवी रश्मिमालेव क्षीरोर्मीणामिवाततिः ॥१७॥ किञ्जल्काम्भोजवलिता भ्रमद्भृङ्गकदम्बका । सीत्कारगायदामोदिमधुरानिललोलिता ॥१८॥प्रभ्रमत्केतकीव्यूहा प्रस्फुरत्कैरवोत्करा । प्रपतत्कुन्दवलया चलत्कुवलयालया ॥१९॥आपूरिताङ्गणरसागृहाच्छादनचत्वरा । उद्ग्रीवपुरवास्तव्यनरनारीविलोकिता ॥२०॥निरभ्रोत्पलसंकाशव्योमवृष्टिरनाकुला । अदृष्टपूर्वा सर्वस्य जनस्य जनितस्मया ॥२१॥अदृश्याम्बरसिद्धौघकरोत्करसमीरिता । सा मुहूर्तचतुर्भागं पुष्पवृष्टिः पपात ह ॥२२॥आपूरितसभालोके शान्ते कुसुमवर्षणे । इमं सिद्धगणालापं शुश्रुवुस्ते समागताः ॥२३॥ आकल्पं सिद्धसेनासु भ्रमद्भिरभितो दिवम् । अपूर्वमिदमस्माभिः श्रुतं श्रुतिरसायनम् ॥२४॥यदनेन किलोदारमुक्तं रघुकुलेन्दुना । वीतरागतया तद्धि वाक्पतेरप्यगोचरम् ॥२५॥अहो बत महत्पुण्यमद्यास्माभिरिदं श्रुतम् । वचो राममुखोद्भूतं महाह्लादकरं धियः ॥२६॥उपशमामृतसुन्दरमादरादधिगतोत्तमतापदमेष यत् । कथितवानुचितं रघुनन्दनः सपदि तेन वयं प्रतिबोधिताः ॥२७॥[ ११२१ ] इत्यार्षे वासिष्ठमहारामायणे० नभश्चरसाधुवादो नाम द्वात्रिंशः सर्गः ॥३२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP