मुमुक्षुवैराग्यप्रकरणम् - सर्ग नववा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


वाल्मीकिरुवाच ॥
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलेक्षणम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥१॥
करिष्यामीति संश्रुत्य प्रतिज्ञां हातुमर्हसि । स भवान्केसरी भूत्वा मृगतामिव वाञ्च्छसि ॥२॥
राघवाणामयुक्तोयं कुलस्यास्य विपर्ययः । न कदाचन जायन्ते शीतांशोरुष्णरश्मयः ॥३॥
यदि त्वं न क्षमो राजन्गमिष्यामि यथागतम् । हीनप्रतिज्ञः काकुत्स्थ सुखीभव सबान्धवः ॥४॥
वाल्मीकिरुवाच ॥
तस्मिन्कोपपरीतेथ विश्वामित्रे महात्मनि । चचाल वसुधा कृत्स्ना सुरांश्च भयमाविशत् ॥५॥
क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् । धृतिमान्सुव्रतो धीमान्वसिष्ठो वाक्यमब्रवीत् ॥६॥
श्रीवसिष्ठ उवाच ॥
इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः । भवान्दशरथः श्रीमांस्रैलोक्यगुणभूषितः ॥७॥
धृतिमान्सुव्रतो भूत्वा न धर्मं हातुमर्हमि । त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः ॥८॥
स्वधर्मं प्रतिपद्यस्व न धर्मं हातुमर्हसि । मुनेस्त्रिभुवनेशस्य वचनं कर्तुमर्हसि ॥९॥
करिष्यामीति संश्रुत्य तत्ते राजन्नकुर्वतः । इष्टापूर्तं हरेद्धर्मं तस्माद्रामं विसर्जय ॥१०॥
इक्ष्वाकुवंशजातोपि स्वयं दशरथोपि सन् । न पालयसि चेद्वाक्यं कोपरः पालयिष्यति ॥११॥
युष्मदादिप्रणीतेन व्यवहारेण जन्तवः । मर्यादां न विमुञ्चन्ति तां न हातुं त्वमर्हसि ॥१२॥
गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा । कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ॥१३॥
एष विग्रहवान्धर्म एष वीर्हवतां वरः । एष बुद्ध्याधिको लोके तपसां च परायणम् ॥१४॥
एषोस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे । नैतदन्यः पुमान्वेत्ति न च वेत्स्यति कश्चन ॥१५॥
न देवा नर्षयः केचिन्नासुरा न च राक्षसाः । न नागा यक्षगन्धर्वाः समेताः सदृशा मुनेः ॥१६॥
अस्त्रमस्मै कृशाश्वेन परैः परमदुर्जयम् । कौशिकाय पुरा दत्तं यदा राज्यं समन्वगात् ॥१७॥
ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः । एवमन्वचरन्वीरा दीप्तिमन्तो महौजसः ॥१८॥
जया च सुप्रभा चैव दाक्षायिण्यौ सुमध्यमे । तयोस्तु यान्यपत्यानि शतं परमदुर्जयम् ॥१९॥
पञ्चाशतं सुताञ्जज्ञे जया लब्धवरा पुरा । वधार्थं सुरसैन्यानां ते क्षमाः कामचारिणः ॥२०॥
सुप्रभा जनयामास पुत्रान्पञ्चाशतं परान् । संघर्षान्नाम दुर्धर्षान्दुराकारान्बलीयमः ॥२१॥
एवंवीर्यो महातेजा विश्वामित्रो जगन्मुनिः । न रामगमने बुद्धिं विक्लवां कर्तुमर्हसि ॥२२॥
अस्मिन्महासत्त्वतमे मुनीन्द्रेस्थिते समीपे पुरुषस्य साधो । प्राप्तेपि मृत्यावमरत्वमेति मा दीनतां गच्छ यथा विमूढः ॥२३॥
[ ३१० ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे वसिष्ठसमाश्वासनं नाम नवमः सर्गः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP