संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुवैराग्यप्रकरणम् ।| सर्ग आठवा मुमुक्षुवैराग्यप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्व सातवा सर्ग आठवा सर्ग नववा सर्ग दहावा सर्ग अकरावा सर्ग बारावा सर्ग तेरावा सर्ग चौदावा सर्ग पंधरावा सर्ग सोळावा सर्ग सतरावा सर्ग अठरावा सर्ग एकोनिसावा सर्ग विसावा सर्ग एकविसावा सर्ग बाविसावा सर्ग तेविसावा सर्ग चोविसावा सर्ग पंचविसावा सर्ग सव्विसावा सर्ग सत्ताविसावा सर्ग अठ्ठाविसावा सर्ग एकोणतिसावा सर्ग तिसावा सर्ग एकतिसावा सर्ग बत्तीसावा सर्ग तेहतिसावा मुमुक्षुवैराग्यप्रकरणम् - सर्ग आठवा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग आठवा Translation - भाषांतर वाल्मीकिरुवाच ॥ तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहूर्तमासीन्निश्चेष्टः संदैन्य चेदमब्रवीत् ॥१॥ऊनषोडशवर्षोयं रामो राजीवलोचनः । न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥२॥इयमक्षौहिणी पूर्णा यस्याः पतिरहं प्रभो । तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् ॥३॥इमे हि शूरा विक्रान्ता भूत्या मन्त्रविशारदाः । अहं चैषा धनुष्पाणिर्गोप्ता समरमूर्धनि ॥४॥एभिः सहैव वीराणां महेन्द्रमहतामपि । ददामि युद्धं मत्तानां करिणामिव केसरी ॥५॥बालो रामस्त्वनीकेषु न जानाति बलाबलम् । अन्तःपुरादृते दृष्ट्वा नानेनान्या रणावनिः ॥६॥ न शस्त्रैः परमैर्युक्तो न च युद्धविशारदः । न वास्त्रैःशूरकोटीनां तज्ज्ञः समरभूमिषु ॥७॥केवलं पुष्पखण्डेषु नगरोपवनेषु च । उद्यानवनकुञ्जेषु सदैव परिशीलनम् ॥८॥विहर्तुमेष जानाति सह राजकुमारकैः । कीर्णपुष्पोपहारासु स्वकास्वजिरभूमिषु ॥९॥अद्य त्वतितरां ब्रह्मन्मम भाग्यवीपर्ययात् । हिमेनेव हि पद्माभः संपन्नो हरिणः कृशः ॥१०॥नात्तुमन्ननि शक्नोति न विहर्तुं गृहावनिम् । अन्तःखेदपरीतात्मा तृष्णीं तिष्ठति केवलम् ॥११॥सदारः सह भृत्योहं तत्कृते मुनिनायक । शरदीव पयोवाहो नूनं निःसारतांगतः ॥१२॥ईदृशोसौ सुतो बाल आधिनाथ वशीकृतः । कथ ददामि तं तुभ्यं योद्धुं सह निशाचरैः ॥१३॥अपि बालाङनासङ्गादपि साधो सुधारमात् । राज्यादपि सुखायैव पुत्रस्नेहो महामते ॥१४॥ये दुरन्ता महारम्यास्त्रिषु लोकेपु खेददाः । पुत्रस्नेहेन संतोपि कुर्वते तानसंशयम् ॥१५॥असवोथ धनं दारास्त्यज्यन्ते मानवैः सुखम् । न पुत्रो मुनिशार्दूल स्वभावो ह्येष जन्तुषु ॥१६॥राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः । रामस्तान्योधयत्वित्थं युक्तिरेवातिदुःसहा ॥१७॥विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे । जीवितुं जीविताकाङ्क्षी न रामं नेतुमर्हसि ॥१८॥नव वर्षसहस्राणि मम जातस्य कौशिक । दुःखेनोत्पादितास्त्वेते चत्वारः पुत्रकाम्यया ॥१९॥प्रधानभूतस्तेष्वेव रामः कमललोचनः । तं विनेह त्रयोप्यन्ये धारयन्ति न जीवितम् ॥२०॥स एव रामो भवता नीयते राक्षसान्प्रति । यदि तत्पुत्रहीनं त्वं मृतमेवाशु विद्धि माम् ॥२१॥चतुर्णामात्मजानां हि प्रीतिरत्रैव मे परा । ज्येष्ठं धर्ममयं तस्मान्न रामं नेतुमर्हसि ॥२२॥निशाचरबलं हन्तुं मुने यदि तवेप्सितम् । चतुरङ्गसमायुक्तं मया सह बलं नय ॥२३॥किंवीर्या राक्षसास्ते तु कस्य पुत्राः कथं च ते । कियत्प्रमाणाः के चैव इति वर्णय मे स्फुटम् ॥२४॥कथं तेन प्रकर्तव्यं तेषां रामेण रक्षसाम् । मामकैर्बालकैर्बह्मन्मया वा कूटयोधिनाम् ॥२५॥सर्वं मे शंस भगवन्यथा तेषां महारणे । स्थातव्यं दुष्टभाग्यानां वीर्योत्सिक्ता हि राक्षसाः ॥२६॥श्रूयते हि महावीर्यो रावणो नाम राक्षसः । साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥२७॥ स चेत्तव मखे विघ्नं करोति किल दुर्मतिः । तत्सङ्ग्रामे न शक्ताः स्मो वयं तस्य दुरात्मनः ॥२८॥काले काले पृथग्ब्रह्मन्भूरिवीर्यविभूतयः । भूतेष्वभ्युदयं यान्ति प्रलीयन्ते च कालतः ॥२९॥अद्यास्मिंस्तु वयं काले रावणादिषु शत्रुषु । न समर्थाः पुरः स्थातुं नियतेरेषनिश्चयः ॥३०॥तस्मात्प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके । मम चैवाल्पभाग्यस्य भवान्हि परदैवतम् ॥३१॥देवदानवगन्धर्वा यक्षाः पतगपन्नगाः । न शक्ता रावणं योद्धुं किं पुनः पुरुषा युधि ॥३२॥महावीर्यवतां वीर्यमादत्ते युधि राक्षसः । तेन सार्धं न शक्ताः स्म संयुगे तस्य बालकैः ॥३३॥अयमन्यतमः कालः पेलवीकृतसज्जनः । राघवोपि गतो दैन्यं यतो वार्धकजर्जरः ॥३४॥ अथ वा लवणं ब्रह्मन्यज्ञघ्नन्तं मधोः सुतम् । कथयत्वसुरप्रख्यं नैव मोक्ष्यामि पुत्रकम् ॥३५॥संदोपसुंदयोश्चैव पुत्रौ वैवस्वतोपमौ । यज्ञविघ्नकरौ ब्रूहि न ते दास्यामि पुत्रकम् ॥३६॥अथ नेप्यसि चेद्ब्रह्मंस्तद्धतोस्म्यहमेव ते । अन्यथा तु न पश्यामि शाश्वतं जयमात्मनः ॥३७॥इत्युक्त्वा मृदुवचनं रघूद्वहोसौ कल्लोले मुनिमतसंशये निमग्नः । नाज्ञासीत्क्षणमपि निश्चयं महात्मा प्रोद्वीचाविव जलधौ स मुह्यमानः ॥३८॥[ २८७ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे दशरथवाक्यं नामाष्टमः सर्गः ॥८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP