मुमुक्षुवैराग्यप्रकरणम् - सर्ग सोळावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
दोषैर्जर्जरतां याति सत्कार्यादार्यसेवनात् । वातान्तःपिच्छलवच्चेतश्चलति चञ्चलम् ॥१॥
इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति । दूराद्दूरतरं दीनं ग्रामे कौलेरको यथा ॥२॥
न प्राप्नोति क्कचित्किंचित्प्राप्तैरपि महाधनैः । नान्तः संपूर्णतामेति करण्डक इवाम्बुभिः ॥३॥
नित्यमेव मुने शून्यं कदाशावागुरावृतम् । न मनो निर्वृतिं याति मृगो यूथादिव च्युतः ॥४॥
तरङ्गतरलां वृत्तिं दधदालूनशीर्णताम् । परित्यज्य क्षणमपि हृदये याति न स्थितिम् ॥५॥
मनो मननविक्षुब्धं दिशो दश विधावति । मन्दराहननोद्भूतं क्षीरार्णवपयो यथा ॥६॥
कल्लोलकलितावर्तं मायामकरमालिनम् । न निरोद्धुं समर्थोस्मि मनोमयमहार्णवम् ॥७॥
भोगदूर्वाङ्कुराकाङ्क्षी श्वभ्रपातमचिन्तयन् । मनो हरिणको ब्रह्मन्दूरं विपरिधावति ॥८॥
न कदाचन मे चेतः स्वामालूनविशीर्णताम् । त्यजत्याकुलया वृत्त्या चञ्चलत्वमिवार्णवः ॥९॥
चेतश्चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् । धृतिं बन्धाति नैकत्र पञ्जरे केसरी यथा ॥१०॥
मनो मोहरथारूढं शरीरात्समतासुखम् । हरत्यपहतोद्वेगं हंसः क्षीरमिवाम्भसः ॥११॥
अनल्पकल्पनातल्पे विलीनाश्चित्तवृत्तयः । मुनीन्द्र न प्रबुध्यन्ते तेन तप्येहमाकुलः ॥१२॥
क्रोडीकृतदृढग्रन्थितृष्णासूत्रे स्थितात्मना । विहगो जालकेनेव ब्रह्मन्बद्धोस्मि चेतसा ॥१३॥
संतातामर्षधूमेन चिन्ताज्वालाकुलेन च । वह्निनेव तृणं शुष्कं मुने दग्धोस्मि चेतसा ॥१४॥
क्रूरेण जडतां यातस्तृष्णाभार्यानुगामिना । शवं कौलेयकेनेन ब्रह्मन्भुक्तोस्मि चेतसा ॥१५॥
तरङ्गतरलास्फालवृत्तिना जडरूपिणा । तटवृक्ष इवौघेन ब्रह्मन्नीतोस्मि चेतसा ॥१६॥
अवान्तरनिपाताय शून्ये वा भ्रमणाय च । त्रृणं चण्डानिलेनेव दूरे नीतोस्मि चेतसा ॥१७॥
संसारजलधेरस्मान्नित्यमुत्तरणोन्मुखः । सेतुनेव पयःपूरो रोधितोस्मि कुचेतसा ॥१८॥
पातालाद्गच्छता पृथ्वीं पृथ्व्याः पातालगामिना । कूपकाष्ठं कुदाम्नेव वेष्टितोस्मि कुचेतसा ॥१९॥
मिथ्यैव स्फाररूपेण विचाराद्विशरारुणा । बालो वेतालकेनेव गृहीतोस्मि कुचेतसा ॥२०॥
वह्नेरुष्णतरः शैलादपि कष्टतरक्रमः । वज्रादपि दृढा ब्रह्मन्दुर्निग्रहमनोग्रहः ॥२१॥
चेतः पतति कार्येषु विहगः स्वामिषेष्विव । क्षणेव विरतिं याति बालः क्रीडनकादिव ॥२२॥
जडप्रकृतिरालोलो विततावर्तवृत्तिमान् । मनोब्धिरहितव्यालो दूरं नयति तात माम् ॥२३॥
अप्यब्धिपानान्महतः सुमेरून्मूलनादपि । अपिवह्न्यशनात्साधो विषयश्चित्तनिग्रहः ॥२४॥
चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् । तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥२५॥
चित्तादिमानि सुखदुःखशतानि नूनमभ्यागतान्यगवरादिव काननानि । तस्मिन्विवेकवशतस्तनुतां प्रयाते मन्ये मुने निपुणमेव गलन्ति ॥२६॥
सकलगुणजयाशा यत्र बद्धा महद्भिस्तमरिमिह विजेतुं चित्तमभ्युत्थितोहम् । विगतरतितयान्तर्नाभिनन्दामि लक्ष्मीं जडमलिनविलासां मेघलेखामिवेन्दुः ॥२७॥
[ ५४० ] इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूयोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे चित्तदौरात्म्यं नाम षोडशः सर्गः ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP