मुमुक्षुवैराग्यप्रकरणम् - सर्ग बाविसावा
‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.
श्रीराम उवाच ॥
अपर्याप्तं हि बालत्वं बलात्पिबति यौवनम् । यौवनं च जरा पश्चात्पश्य कर्कशतां मिथः ॥१॥
हिमाशनिरिवाम्भोजो वात्येव शरदम्बुकम् । देहं जरा नाशयति नदी तीरतरुं यथा ॥२॥
जर्जरीकृतसर्वाङ्गी जराजरठरूपिणी । विरूपतां नयत्याशु देहं विपलवो यथा ॥३॥
शिथिला दीर्घसर्वाङ्गं जराजीर्णकलेवरम् । समं पश्यन्ति कामिन्यः पुरुषं करभं यथा ॥४॥
अनायासकदर्थिन्या गृहीत जरसा जने । पलाय्य गच्छति प्रज्ञा सपत्न्येवाहताङ्गना ॥५॥
दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा । हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् ॥६॥
दुष्प्रेक्ष्यं जरठं दीनं हीनं गुणपराक्रमैः । गृध्रो वृक्षमिवादीर्घं गर्धो ह्यभ्येति वृद्धकम् ॥७॥
दिअन्यदोषमयी दीर्घा हृदि दाहप्रदायिनी । सर्वापदामेकसखी वार्धके वर्धते स्पृहा ॥८॥
कर्तव्यं किं मया कष्टं परत्रेत्यतिदारुणम् । अप्रतीकारयोग्यं हि वर्धते वार्धके भयम् ॥९॥
कोहं वराकः किमिव करोमि कथमेव च । तिष्ठामि मौनमेवेति दीनतोदेति वार्धके ॥१०॥
कथं कदा मे किमिव स्वादु स्याद्भोजनं जनात् । इत्यजस्रं जरा चैषा चेतो दहति वार्धके ॥११॥
गर्धोभ्युदेति सोल्लासमुपभोक्तुं न शक्यते । हृदयं दह्यते नूनं शक्तिदौस्थ्येन वार्धके ॥१२॥
जराजीर्णबकी यावत्कायक्लेशापकारिणी । रौति रोगरगाकीर्णा कायद्रुमशिरःस्थिता ॥१३॥
तावदागत एवाशु कुतोपि परिदृश्यते । घनन्ध्यतिमिराकाङ्क्षी मुने मरणकौशिकः ॥१४॥
सायं सन्ध्या प्रजातां वै तमः समनुधावति । जरां वपुषि दृष्ट्वैव मृतिः समनुधावति ॥१५॥
जराकुसुमितं देहद्रुमं दृष्ट्वैव दूरतः । अध्यापतति वेगेन मुने मरणमर्कटः ॥१६॥
नगरमाभाति भाति च्छिन्नलतो द्रुमः । भात्यनावृष्टिमान्देशो न जराजर्जरं वपुः ॥१७॥
क्षणान्निगरणायैव कासक्कणितकारिणी । गृध्रीवामिषमादत्ते तरसैव नरं जरा ॥१८॥
दृष्ट्वैव सोत्सुकेवाशु प्रगृह्य शिरसि क्षणम् । प्रलुनाति जरा देहं कुमारी कैरवं यथा ॥१९॥
सीत्कारकारिणी पांसुपरुषा परिजर्जरम् । शरीरं शातयत्येषा वा येव तरुपल्लवम् ॥२०॥
जरसोपहतो देहो धत्ते जर्जरतां गतः । तुषारनिकराकीर्णपरिम्लानाम्बुजश्रियम् ॥२१॥
जराज्योत्स्नोदितैवेयं शिरःशिखरिपृष्ठतः । विकासयति संरब्धं वातकासकुमुद्वती ॥२२॥
परिपक्कं समालोक्य जराक्षारविधूसरम् । शिरः कूष्माण्डकं भुङ्क्ते पुंसां कालः किलेश्वरः ॥२३॥
जराजह्नुसुतोद्युक्ता मूलान्यस्यनिकृन्तति । शरीरतीरवृक्षस्य चलत्यायुषि सत्वरम् ॥२४॥
जरामार्जारिका भुङ्क्ते यौवनाखुं तथोद्धता । परमुल्लासमायाति शरीरामिषगर्धिनी ॥२५॥
काचिदस्ति जगत्यस्मिन्नामङ्गलकरी तथा । यथा जराक्रीशकरी देहजङ्गलजम्बुकी ॥२६॥
कासश्वासससीत्कारा दुःखधूमतमोमयी । जराज्वाला ज्वलत्येषा यस्यासौ दग्ध एव हि ॥२७॥
जरसा वक्रतामेति शुक्लावयवपल्लवा । तात तन्वी तनुर्नॄणां लता पुष्पानता यथा ॥२८॥
जराकर्पूरधवलं देहकर्पूरपादपम् । मुने मरणमातङ्गो नूनमुद्धरति क्षणात् ॥२९॥
मरणस्य मुने राज्ञो जरा धवलचामरा । आगच्छतोग्रे निर्याति स्वाधिव्याधिपताकिनी ॥३०॥
न जिताः शत्रुभिः सङ्ख्ये प्रविष्टा येद्रिकोटरे । ते जराजीर्णराक्षस्या पश्याशु विजिता मुने ॥३१॥
जरातुषारवलिते शरीरसदनान्तरे । शक्रुवन्त्यक्षशिशवः स्पन्दितुं न मनागपि ॥३२॥
दण्डतृतीयपादेन प्रस्खलन्ती मुहुर्मुहुः । कामाधोवायुमुरजा जरायोषित्प्रनृत्यति ॥३३॥
संसारसंसृतेरस्या गन्धकुट्यां शिरोगता । देहयष्ट्यां जरानाम्नी चामरश्रीर्विराजिते ॥३४॥
जराचन्द्रोदयसिते शरीरनगरे स्थिते । क्षणाद्विकासमायाति मुने मरणकैरवम् ॥३५॥
जरासुधालेपसिते शरीरान्तःपुरान्तरे । अशक्तिरार्तिरापच्च तिष्ठन्ति सुखमङ्गनाः ॥३६॥
अभावोग्रेसरी यत्र जरा जयति जन्तुषु । कस्तत्रेह समाश्वासो मम मन्दमतेर्मुने ॥३७॥
किं तेन दुर्जीवितदुर्ग्रहेण जरागतेनापि हि जीव्यते यत् । जराजगत्यामजिता जनानां सर्वैषणास्तात तिरस्करोति ॥३८॥
[ ८०२ ] इत्यार्षे०जराजुगुप्सानाम द्वाविंशतितमः सर्गः ॥२२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP