मुमुक्षुवैराग्यप्रकरणम् - सर्ग अठ्ठाविसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
यच्चेदं दृश्यते किंचिज्जगत्स्थावरजङ्गमम् । तत्सर्वमस्थिरं ब्रह्मन्स्वप्रसंगमसंनिभम् ॥१॥
शुष्कसागरसंकाशो निखातो योद्यं दृश्यते । स प्रातरभंसंवीतो नगः संपद्यते मुने ॥२॥
यो वनव्यूहविस्तीर्णो विलीढगगनो महान् । दिनैरेव स यातुर्वीसमतां कूपतां च वा ॥३॥
यदङ्गमद्य संवीतं कौशेयस्रग्विलेपनैः । दिगम्बरं तदेव श्वो दूरे विशरिता वटे ॥४॥
यत्राद्य नगरं दृष्टं विचित्राचारचञ्चलम् । तत्रैवोदेति दिवसैः संशून्यारण्यधर्मता ॥५॥
यः पुमानद्य तेजस्वी मण्डलान्यधितिष्ठति । स भस्मकूटतां राजन्दिवसैरधिगच्छति ॥६॥
अरण्यानी महाभीमा या नभोमण्डलोपमा । पताकाच्छादिताकाशा सैव संपद्यते पुरी ॥७॥
या लतावलिता भीमा भात्यद्य विपिनावली । दिवसैरेव सा याति पुनर्मरुमहीपदम् ॥८॥
सलिलं स्थलतां याति स्थलीभवति वारिभूः । विपर्यस्यति सर्वं हि सकाष्ठाम्बुतृणं जगत् ॥९॥
अनित्यं यौवनं बाल्यं शरीरं द्रव्यसंचराः । भावाद्वावान्तरं यान्ति तरङ्गवदनारतम् ॥१०॥
वातान्तर्दीपकशिखालोलं जगति जीवितम् । तडित्स्फुरणसंकाशा पादार्थश्रीर्जगत्रये ॥११॥
विपर्यासमियं याति भूरिभूतपरंपरा । बीजराशिरिवाजस्रं पूर्यमाणः पुनः पुनः ॥१२॥
मनः पवनपर्यस्तभूरिभूतरजःपटा । पातोत्पातपरावर्तपराभिनय भूषिता ॥१३॥
आलक्ष्यते स्थितिरियं जागती जनितभ्रमा । नृत्तावेशविवृत्तेव संसारारभटी नटी ॥१४॥
गन्धर्वनगराकारविपर्यासविधायिनी । अपाङ्गभङ्गुरोदारव्यवहारमनोरमा ॥१५॥
तडित्तरलमालीकमातन्वाना पुनः पुनः । संसाररचना राजन्नृत्तसक्तेव राजते ॥१६॥
दिवसास्ते महान्तस्ते संपदस्ताः क्रियाश्च ताः । सर्वं स्मृतिपथं यातं यामो वयमपि क्षणात् ॥१७॥
प्रत्यहं क्षयमायाति प्रत्यहं जायते पुनः । अद्यापि हतरूपाया नान्तोस्या दग्शसंसृतेः ॥१८॥
तिर्यक्त्वं पुरुषा यान्ति तिर्यञ्चो नरतामपि । देवाश्चादेवतां यान्ति किमिवेह विभो स्थिरम् ॥१९॥
रचयत्रश्मिजालेन रात्र्यहानि पुनःपुनः । अतिवाह्य रविः कालो विनाशावधिमीक्षते ॥२०॥
ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः । नाशमेवानुधावन्ति सलिलानिव वाडवम् ॥२१॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः । विनाशवाडवस्यैतत्सर्वं संशुष्कमिन्धनम् ॥२२॥
धनानि बान्धवा भूत्या मित्राणि विभवाश्च ये । विनाशभयभीतस्य सर्वं नीरसतां गतम् ॥२३॥
स्वदन्ते तावदेवैते भावा जगति धीमते । यावत्स्मृतिपथं याति न विनाशकुराक्षसः ॥२४॥
क्षणमैश्वर्यमायाति क्षणमेति दरिद्रताम् । क्षणं विगतरोगत्वं क्षणमागतरोगताम् ॥२५॥
प्रतिक्षणविपर्यासदायिना निहतात्मना । जगद्भ्रमेण के नाम धीमन्तो हि न मोहिताः ॥२६॥
तमःपङ्कसमालब्धं क्षणमाकाशमण्डलम् । क्षणं कनकनिष्यन्दकोमलालोकसुन्दरम् ॥२७॥
क्षणं जलदनीलाब्जमालावलितकोटरम् । क्षणमुड्डामररवं क्षणं मूकमिव स्थितम् ॥२८॥
क्षणं ताराविरचितं क्षणमर्केण भूषितम् । क्षणमिन्दुकृताह्लादं क्षणं सर्वबहिष्कृतम् ॥२९॥
आगमापायपरया क्षणसंस्थिनिनाशया । न बिभेति हि संसारे धीरोपि क इवानया ॥३०॥
आपदः क्षणमायान्ति क्षणमायान्ति संपदः । क्षणं जन्म क्षणं मृत्युर्मुने किमिव न क्षणम् ॥३१॥
प्रागासीदन्य एवेह जातस्त्वन्यो नरो दिनैः । सदैकरूपं भगवन्किंचिदस्ति न सुस्थिरम् ॥३२॥
घटस्य पटता दृष्टा पटस्यापि घटस्थितिः । न तदस्ति न यदृष्टं विपर्यस्यति संसृतौ ॥३३॥
तनोत्युत्पादयत्यत्ति निहत्यासृजति क्रमात् । सततं रात्र्यहानीव निवर्तन्ते नरं प्रति ॥३४॥
अशूरेण हतः शूर एकेनापि हतं शतम् । प्राकृतां याताः सर्वमावर्त्यते जगत् ॥३५॥
जनतेयं विपर्यासमजस्त्रमनुगच्छति । जडस्पन्दपरामर्शात्तरङ्गाणामिवावली ॥३६॥
बाल्यमल्पदिनैरेव यौवनश्रीस्ततो जरा । देहेपि नैकरूपत्वं कास्था बाह्येषु वस्तुषु ॥३७॥
क्षणमानन्दितामेति क्षणमेति विषादिताम् । क्षणं सौम्यत्वमायाति सर्वस्मिन्नटवन्मनः ॥३८॥
इतश्चान्यदितश्चान्यदितश्चान्यदयं विधिः । रचयन्वस्तु नायाति खेदं लीलास्विवार्भकः ॥३९॥
चिनोत्युत्पादयत्यत्ति निहत्यासृजति क्रमात् । सततं रात्र्यहानीन निवर्तन्ते नरं प्रति ॥४०॥
आविर्भावतिरोभावभागिनो भवभागिनः । जनस्य स्थिरतां यान्ति नापदो न च संपदः ॥४१॥
कालः क्रीडत्ययं प्रायः सर्वमापदि पातयन् । हेलाविचलिताशेषचतुराचारचञ्चुरः ॥४२॥
समविषमविपाकतो विभिन्नस्त्रिभुवन मूतपरंपराफलौघाः । समयपवनपाविताः पतन्ति प्रतिदिनमाततसंसृतिद्रुमेभ्यः ॥४३॥
[ १०१६ ] इत्यार्षे० सर्वभावाविरतविपर्यासप्रतिपादनं नामाष्टाविंशः सर्गः ॥२८॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP