संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुवैराग्यप्रकरणम् ।| सर्ग दुसरा मुमुक्षुवैराग्यप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्व सातवा सर्ग आठवा सर्ग नववा सर्ग दहावा सर्ग अकरावा सर्ग बारावा सर्ग तेरावा सर्ग चौदावा सर्ग पंधरावा सर्ग सोळावा सर्ग सतरावा सर्ग अठरावा सर्ग एकोनिसावा सर्ग विसावा सर्ग एकविसावा सर्ग बाविसावा सर्ग तेविसावा सर्ग चोविसावा सर्ग पंचविसावा सर्ग सव्विसावा सर्ग सत्ताविसावा सर्ग अठ्ठाविसावा सर्ग एकोणतिसावा सर्ग तिसावा सर्ग एकतिसावा सर्ग बत्तीसावा सर्ग तेहतिसावा मुमुक्षुवैराग्यप्रकरणम् - सर्ग दुसरा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग दुसरा Translation - भाषांतर दिवि भूमौ तथाकाशे बहिरन्तश्च मे विभुः । यो विभात्यवभासात्मा तस्मै सर्वात्मने नमः ॥१॥ वाल्मीकिरुवाच ॥अहं बद्धो विमुक्तः स्यामिति यस्यास्ति निश्चयः । नात्यन्तमज्ञो नोत ज्ञः सोस्मिञ्शास्त्रेधिकारवान् ॥२॥कथोपायान्विचार्यादौ मोक्षोपायानिमानथ । यो विचारयति प्राज्ञो न स भूयोभिजायते ॥३॥अस्मिन्नामायणे रामकथोपायान्महाबलान् । एतांस्तु प्रथमं कृत्वा पुराहमरिमर्दन ॥४॥शिष्यायास्मि विनीताय भरद्वाजाय धीमते । एकाग्रे दत्तवांस्तस्मै मणिमब्धिरिवार्थिने ॥५॥तत एते कथोपाया भरद्वाजेन धीमता । कस्मिंश्चिन्मेरुगहने ब्रह्मणोग्र उदाहृताः ॥६॥अथास्य तुष्टो भगवान्ब्रह्मा लोकपितामहः । वरं पुत्र गृहाणेति तमुवाच महाशयः ॥७॥ भरद्वाज उवाच ॥भगवन्भूतभव्येश वरोयं मेद्य रोचते । येनेयं जनता दुःखान्मुच्यते तदुदाहर ॥८॥श्रीब्रह्मोवाच ॥गुरुं वाल्मीकिमत्राशु प्रार्थयस्व प्रयत्नतः । तेनेदं यत्समारब्धं रामायणमनिन्द्रितम् ॥९॥तस्मिञ्छ्रुते नरो मोहात्समग्रात्संतरिष्यति । सेतुनेवाम्बुधेः पारमपारगुणशालिना ॥१०॥श्रीवाल्मीकिरुवाच ॥इत्युक्त्वा स भरद्वाजं परमेष्ठी मदाश्रमम् । अभ्यागच्छत्समं तेन भरद्वाजेन भूतकृत् ॥११॥तूर्णं संपूजितो देवः सोर्घ्यपाद्यादिना मया । अवोचन्मां महासत्त्वः सर्वभूतहिते रतः ॥१२॥ रामस्वभावकथनादस्माद्वर मुने त्वया । नोद्वेगात्स परित्याज्य आसमाप्तेरनिन्दितात् ॥१३॥ग्रन्थेनानेन लोकोमयस्मात्संसारसंकटात् । समुत्तरिष्यति क्षिप्रं पोतेनेवाशु सागरात् ॥१४॥वक्तुं तदेवमेवार्थमहमागतवानयम् । कुरु लोकहितार्थं त्वं शास्त्रमित्युक्तवानजः ॥१५॥मम पुण्याश्रमात्तस्मात्क्षणादन्तर्धिमागतः । मुहूर्ताभ्युत्थितः प्रोच्चैस्तरङ्ग इव वारिणः ॥१६॥तस्मिन्प्रयाते भगवत्यहं विस्मयमागतः । पुनस्तत्र भरद्वाजमपृच्छं स्वस्थया धिया ॥१७॥किमेतद्ब्रह्मणा प्रोक्तं भरद्वाज वदाशु मे । इत्युक्तेन पुनः प्रोक्तं भरद्वाजेन तेन मे ॥१८॥भरद्वाज उवाच ॥एतदुक्तं भगवता यथा रामायणं कुरु । सर्वलोकहितार्थय संसारार्णवतारकम् ॥१९॥मह्यं च भगवन्ब्रूहि कथं संसारसंकटे । रामो व्यवहृतो ह्यस्मिन्भरतश्च महामनाः ॥२०॥शत्रुघ्नो लक्ष्मणश्चापि सीता चापि यशस्विनी । रामानुयायिनस्ते वा मज्त्रिपुत्रा महाधियः ॥२१॥निर्दुःखितां यथैते नु प्राप्तास्तद्ब्रूहि मे स्फूटम् । तथैवाहं भविष्यामि ततो जनतया सह ॥२२॥भरद्वाजेन राजेन्द्र वदेत्युक्तोस्मि सादरम् । तदा कर्तुं विभोराज्ञामः वक्तुं प्रवृत्तवान् ॥२३॥ शृणु वत्स भरद्वाज यथापृष्टं वदामि ते । श्रुतेन येन संमोहमलं दूरे करिष्यसि ॥२४॥तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी । सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥२५॥लक्ष्मणो भरतश्चैव शत्रुघ्नश्च महामनाः । कौसल्या च सुमित्रा च सीता दशरथस्तथा ॥२६॥कृतास्त्रश्चाविरोधश्च बोधपारमुपागताः । वसिष्ठो वामदेवश्च मन्त्रिणोष्टौ तथेतरे ॥२७॥ धृष्टिर्जयन्तो भासश्च सत्यो विजय एव च । बिभीषणः सुषेणश्च हनुमानिन्द्रजित्तथा ॥२८॥ एतेष्टौ मन्त्रिणः प्रोक्ताः समनीरागचेतसः । जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः ॥२९॥ एतैर्यथा हुतं दत्तं गृहीतमुषितं स्मृतम् । तथा चेद्वर्तसे पुत्र मुक्त एवासि संकटात् ॥३०॥ अपारसंसारसमुद्रपाती लब्ध्वा परां युक्तिमुदारसत्त्वः । न शोकमायाति न दैन्यमेति गतज्वरस्तिष्ठति नित्यतृप्तः ॥३१॥[ ९७ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहसयां संहितायां वैराग्यप्रकरणे सूत्रपातनिका नाम द्वितीयः सर्गः ॥२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP