संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुवैराग्यप्रकरणम् ।| सर्ग सहावा मुमुक्षुवैराग्यप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्व सातवा सर्ग आठवा सर्ग नववा सर्ग दहावा सर्ग अकरावा सर्ग बारावा सर्ग तेरावा सर्ग चौदावा सर्ग पंधरावा सर्ग सोळावा सर्ग सतरावा सर्ग अठरावा सर्ग एकोनिसावा सर्ग विसावा सर्ग एकविसावा सर्ग बाविसावा सर्ग तेविसावा सर्ग चोविसावा सर्ग पंचविसावा सर्ग सव्विसावा सर्ग सत्ताविसावा सर्ग अठ्ठाविसावा सर्ग एकोणतिसावा सर्ग तिसावा सर्ग एकतिसावा सर्ग बत्तीसावा सर्ग तेहतिसावा मुमुक्षुवैराग्यप्रकरणम् - सर्ग सहावा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग सहावा Translation - भाषांतर श्रीवाल्मीकिरुवाच ।इत्युक्ते मुनिनाथेन संदेहवति पार्थिवे । खेदवत्यास्थिते मौनं किंचित्कालप्रतीक्षणे ॥१॥ परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु । स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥२॥एतस्मिन्नेव काले तु विश्वामित्र इति श्रुतः । महर्षिरभ्यगाद्द्रष्टुं तमयोध्यानराधिपम् ॥३॥तस्य यज्ञोथ रक्षोभिस्तथा विलुलुपे किल । मायावीर्यबलोन्मत्तैर्धर्मकार्यस्य धीमतः ॥४॥रक्षार्थं तस्य यज्ञस्य द्रष्टुमैच्छत्स पार्थिवम् । न हि शक्रोत्यविघ्नेन समाप्तुं स मुनिः ऋतुम् ॥५॥ततस्तेषां विनाशार्थमुद्यतस्तपसां निधिः । विश्वामित्रो महातेजा अयोध्यामभ्यगात्पुरीम् ॥६॥स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह । शीघ्रमाख्यात माम प्राप्तं कौशिकं गाधिनः सुतम् ॥७॥तस्य तद्वचनं श्रुत्वा द्वाःस्था राजगृहं ययुः । संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥८॥ते गत्वा राजसदनं विश्वामित्रमृषिं ततः । प्राप्तमावेदयामासुः प्रतीहाराःपेतस्तदा ॥९॥अथास्थानगतं भूपं राजमण्डलमालिनम् । समुपेत्य त्वरायुक्तो याष्टीकोसौ व्यजिज्ञपत् ॥१०॥देवद्वारि महातेजा बालभास्करभासुरः । ज्वालारुणजटाजूटः पुमाञ्श्रीमानवस्थितः ॥११॥स भासुरपताकान्तं साश्वेभपुरुषायुधम् । कृतवां स्तं प्रदेशं यस्तेजोभिः कीर्णकाञ्चनम् ॥१२॥वीक्ष्यमाणे तु याष्टीइके निवेदयति राजनि । विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा ॥१३॥इति याष्टीकवचनमाकर्ण्य नृपसत्तमः । स समन्त्री ससामन्तः प्रोत्तस्थौ हेमविष्टगत् ॥१४॥पदातिरेव सहसा राज्ञां वृन्देन मालितः । वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥१५॥जगाम यत्र तत्रासौ विश्वामित्रो महामुनिः । ददर्श मुनिशार्दूलं द्वारभूमाववथितम् ॥१६॥केनापि कारणेनोर्वीतलमर्कमुपागतम् । ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥१७॥जराजरटया नित्यं तपःप्रसररूक्षया । जटावल्यावृतस्कन्धं ससंध्याभ्रमिवाचलम् ॥१८॥उपशान्तं च कान्तं च दीप्तमप्रतिभाति च । निभृतं चोर्जिताकारं दधानं भास्वरं वपुः ॥१९॥ पेशलेनातिभीमेन प्रसन्नेनाकुलेन च । गम्भेरेणातिपूर्णेन तेजसा रञ्जितप्रभम् ॥२०॥अनन्तजीवितदशासखीमेकामनिन्दिताम् । धारयन्तं कर श्लक्ष्णां कृण्डीमम्लानमान सम् ॥२१॥करुणाक्रान्तचेतस्त्वात्प्रसन्नैर्मधुराक्षरैः । वीक्षणैरमृतेनेव संसिञ्चन्तमिमाः प्रजाः ॥२२॥युक्तयज्ञोपवीताङ्गंधवलप्रोन्नत भ्रुवम् । अनन्तं विस्मयं चान्तः प्रयच्छन्तमिवेक्षितुः ॥२३॥मुनिमालोक्य भूपालो दूरादेवानताकृतिः । प्रणनाम गलन्मौलिमणिमालितभूतलम् ॥२४॥मुनिरप्यवनीनाथं भास्वानिव शतक्रतुम् । तत्राभिवादयांचक्रे मधुरोदारया गिरा ॥२५॥ततो वसिष्ठप्रमुखाः सर्व एव द्विजातयः । स्वागतादिक्रमेणैनं पूजयामासुरादृताः ॥२६॥दशरथ उवाच ॥ अशङ्कितोपनीतेन भास्वता दर्शनेन ते । साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥२७॥यदनादि यदक्षुण्णं यदपायविवर्जितम् । तदानन्दसुखं प्राप्तं मया त्वद्दर्शनान्मुने ॥२८॥अद्य वर्तामहे नूनं धन्यानां धुरि घर्मतः । भवदागमनस्येमे यद्वयं लक्ष्यमागताः ॥२९॥ एवं प्रकथयन्तोत्र राजानोथ महर्षयः । आसनेषु समास्थानमासाद्य समुपाविशन् ॥३०॥स दृष्ट्वा मालितं लक्ष्म्या भीतस्तमृषिसत्तमम् । प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत् ॥३१॥सराज्ञः प्रतिराज्ञा पूजितस्तेन प्रहृष्टवदनस्तदा । कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥३३॥वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः । यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः ॥३४॥क्षणं यथार्हमन्योन्यं पूजयित्वा समेत्य च । ते सर्वे हृष्टमनसो महाराजनिवेशने ॥३५॥यथोचितामनगता मिथः संवृद्धतेजसः । परस्परेण पप्रच्छुः सर्वेनामयमादरात् ॥३६॥उपविष्टाय तस्मै स विश्वामित्राय धीमते । पाद्यमर्घ्यं च गां चैव भूयो भूयो न्यवेदयत् ॥३७॥अर्चयित्वा तु विधिवद्विश्वामित्रमभाषत । प्राञ्जलिः प्रयतो वाक्यमिदं प्रीतमना नृपः ॥३८॥यथा मृतस्य संप्राप्तिर्यथावर्षमवर्षके । यथान्य स्येक्षणप्राप्तिर्भवदागमनं तथा ॥३९॥ यथेष्टदारसंपर्कात्पुत्रतन्माप्रजावतः । स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा ॥४०॥यथेप्सितेन संयोग इष्टस्यागमनं यथा । प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥४१॥यथा हर्षो नभोगत्या मृतस्य पुनरागमात् । तथा त्वदागमाद्ब्रह्मन्स्वागतं ते महामुने ॥४२॥ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् । मुने, तवागमःस्तद्वत्सत्यमेव ब्रवीमि ते ॥४३॥कश्चते परमः कामः किंच ते करवाण्यहम् । पात्रभूतोसि मे विप्र प्राप्तः परमधार्मिकः ॥४४॥पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः । ब्रह्मर्षित्वमनुप्राप्तः पूज्योसि भगवन्मया ॥४५॥गङ्गाजलाभिषेकेण यथा प्रीतिर्भवेन्मम । तथा त्वद्दर्शनात्प्रीतिरन्तःशीतयतीव माम् ॥४६॥विगतेच्छामयक्रोधो वीतरागो निरामयः । इदमत्यद्भुतं ब्रह्मन्यद्भवान्मामुपागतः ॥४७॥शुभक्षेत्रगतं चाहमात्मानमपकल्पषम् । चन्द्रबिम्ब इवोन्मग्नं वेद वेद्यविदां वर ॥४८॥साक्षादिव ब्रह्मणो मे तवाभ्यागमनं मतम् । पूतोस्म्यनुगृहीतश्च तवाभ्यागमनान्मुने ॥४९॥ त्वदागमनपुण्येन साधो यदनुरञ्जितम् । अद्य मे सफलं जन्म जीवितं तत्सुजीवितम् ॥५०॥त्वामिहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च । आत्मन्येव न मान्यन्तर्दृष्ट्वेन्दुं जलधिर्यथा ॥५१॥यकार्यं येन वार्थेन प्राप्तोसि मुनिपुङ्गव । कृतमित्येव तद्विद्धि मान्योसीति सदा मम ॥५२॥स्वकार्ये न विमर्शं त्वं कर्तुमर्हसि कौशिक । भगवन्नास्त्यदेयं मे त्वयि यत्प्रतिपद्यते ॥५३॥कार्यस्य न विचारं त्वं कर्तुमर्हसि धर्मतः । कर्ता चाहमशेषं ते दैवतं परमं भवान् ॥५४॥इदमतिमधुरं निशम्य वाक्यं श्रुतिसुखमात्मविदा विनीतमुक्तम् । प्रथितगुणयशा गौणैर्विशिष्टं मुनिवृषभः परमं जगाम हर्षम् ॥५५॥ [ २२१ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे कार्श्यनिवेदनं नाम षष्ठः सर्वः ॥६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP