संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुवैराग्यप्रकरणम् ।| सर्ग चौदावा मुमुक्षुवैराग्यप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्व सातवा सर्ग आठवा सर्ग नववा सर्ग दहावा सर्ग अकरावा सर्ग बारावा सर्ग तेरावा सर्ग चौदावा सर्ग पंधरावा सर्ग सोळावा सर्ग सतरावा सर्ग अठरावा सर्ग एकोनिसावा सर्ग विसावा सर्ग एकविसावा सर्ग बाविसावा सर्ग तेविसावा सर्ग चोविसावा सर्ग पंचविसावा सर्ग सव्विसावा सर्ग सत्ताविसावा सर्ग अठ्ठाविसावा सर्ग एकोणतिसावा सर्ग तिसावा सर्ग एकतिसावा सर्ग बत्तीसावा सर्ग तेहतिसावा मुमुक्षुवैराग्यप्रकरणम् - सर्ग चौदावा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग चौदावा Translation - भाषांतर श्रीराम उवाच ॥आयुः पल्लवकोणाग्रलम्बाम्बुकरणभङ्गुरम् । उन्मत्तमिव संत्यज्य यात्यकाण्डे शरीरकम् ॥१॥ विषयाशीविषासङ्ग्परिजर्जरचे तसाम् । अप्रौढात्मविवेकानामायुरायासकारणम् ॥२॥ ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे । भावाभावसमाश्वासमायुस्तेषां सुखाथते ॥३॥ वयंपरिमिताकारपरिनिष्ठितनिश्चयाः । संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः ॥४॥युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् । ग्रथनं च तरङ्गाणामास्था नायुषि युज्यते ॥५॥ पेलवं शरदीवाभ्रमस्नेह इव दीपकः । तरङ्गक इवालोलं गतमेवोपलक्ष्यते ॥६॥ तरङ्गं प्रतिबिम्बेन्दुं तडित्पुञ्जं नभोम्बुजम् । ग्रहीतुमास्थां बध्नामि न त्वायुषि हतस्थितौ ॥७॥ अविश्रान्तमनाः शून्यमायुराततमीहते । दुःखायैव विमूढोन्तर्गर्भमश्वतरी यथा ॥८॥संसारसंसृतावस्यां फेनोस्मिन्सर्गसागरे । कायवल्ल्याम्भसो ब्रह्मञ्जीवितं मे न रोचते ॥९॥ प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते । पराया निवृतेः स्थानं यत्तज्जीवितमुच्यते ॥१०॥ तरवोपि हि जीवन्ति जीवन्ति मृगपक्षिणः । स जीवति मनो यस्य मननेन न जीवति ॥११॥जातास्त एव जगति जन्तव्ह साधुजीविताः । ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः ॥१२॥ भारांविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः । अशान्तस्य मनो भारो भारोनात्मविदो वपुः ॥१३॥रूपमायुर्मनोबुद्धिरहंकरस्तथेहितम् । भारो भारधरस्येव सर्वं दुःखाय दुर्धियः ॥१४॥ अविश्रान्तमनापूर्णमापदां परमास्पदम् । नीडं रोगविहङ्गानामायुरायासनं दृढम् ॥१५॥प्रत्यहं खेदमुत्सृज्य शनैरलमनारतम् । आखुनेव जरच्छ्वभ्रं कालेन विनिहन्यते ॥१६॥शरीरबिलविश्रान्तेर्विषदाहप्रदायिभिः । रोगैरापीयते रौद्रैर्व्यालैरिव वनानिलः ॥१७॥प्रस्नुवानैरविच्छेदं तुच्छैरन्तरवासिभिः । दुःखैरावृश्चते क्रूरैर्घुणैरिव जरद्द्रुमः ॥१८॥नूनं निगरणायाशु घनगर्धमनारतम् । आखुर्मार्जारकेणेव मरणेनावलोक्यते ॥१९॥ गन्धादिगुणगर्भिण्या शून्यया शक्तिवेश्यया । अन्नं महाशनेनेव जरया परिजीर्यते ॥२०॥ दिनैः कतिपयैरेव परिज्ञाय गतादरम् । दुर्जनः सुजनेनेव यौवनेनावमुच्यते ॥२१॥ विनाशसुहृदा नित्यं जरामरणबन्धुना । रूपं खिङ्गवरेणेव कृतान्तेनाभिलष्यते ॥२२॥ स्थिरतया सुखभासितया तया सततमुज्झितमुत्तमफल्गु च । जगति नास्ति तथा गुणवर्जितं मरणभाजनमायुरिदं यथा ॥२३॥[ ४९२ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे जीवितगर्हा नाम चतुर्दशः सर्गः ॥१४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP