संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुवैराग्यप्रकरणम् ।| सर्ग अठरावा मुमुक्षुवैराग्यप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्व सातवा सर्ग आठवा सर्ग नववा सर्ग दहावा सर्ग अकरावा सर्ग बारावा सर्ग तेरावा सर्ग चौदावा सर्ग पंधरावा सर्ग सोळावा सर्ग सतरावा सर्ग अठरावा सर्ग एकोनिसावा सर्ग विसावा सर्ग एकविसावा सर्ग बाविसावा सर्ग तेविसावा सर्ग चोविसावा सर्ग पंचविसावा सर्ग सव्विसावा सर्ग सत्ताविसावा सर्ग अठ्ठाविसावा सर्ग एकोणतिसावा सर्ग तिसावा सर्ग एकतिसावा सर्ग बत्तीसावा सर्ग तेहतिसावा मुमुक्षुवैराग्यप्रकरणम् - सर्ग अठरावा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग अठरावा Translation - भाषांतर श्रीराम उवाच ॥आर्द्रान्त्रतन्त्रीगहनो विकारी परिपातवान् । देहः स्फुरति संसारे सोपि दुःखाय केवलम् ॥१॥अज्ञोपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः । युक्त्या भव्योप्यभव्योपि न जडो नापि चेतनः ॥२॥जडाजडदृशोर्मध्ये दोलायितदुराशयः । अविवेकी विमूढात्मा मोहमेव प्रपश्यति ॥३॥ स्तोकेनानन्दमायाति स्तोकेनायाति खेदिताम् । नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः ॥४॥आगमापायिना नित्यं दन्तकेसरशालिना । विकासस्मितपुष्पेण प्रतिक्षणमलंकृतः ॥५॥भुजशाखो घनस्कन्धो द्विजस्तम्भशुभस्थितिः । लोचनालिबिलाक्रान्तः शिरःपीठबृहत्फलः ॥६॥अवदन्तरसग्रस्तो हस्तपादसुपल्लवः । गुल्मवान्कार्यसंघातो विहंगमततास्पदः ॥७॥सच्छायो देहवृक्षोयं जीवपान्थगणास्पदः । कस्यात्मीयः कस्य पर आस्थानास्था किलात्र के ॥८॥तात संतरणार्थेन गृहीतायां पुनः पुनः । नावि देहलतायां च कस्य स्यादात्मभावना ॥९॥ देहनाम्नि वने शून्ये बहुगर्तसमाकुले । तनूरुहासंख्यतरौ विश्वासं कोधिगच्छति ॥१०॥मांसस्नाय्वस्थिवलिते शरीरपटहे दृढे । मार्जारवदहं तात तिष्ठाम्यत्र गतध्वनौ ॥११॥संसारारण्यसंरूढो विलसच्चित्तमर्कटः । चिन्तामञ्जरिताकारो दीर्घदुःखघुणक्षतः ॥१२॥तृष्णाभुजङ्गमीगेहं कोपकाककृतालयः । स्मितपुण्योद्गमः श्रीमाञ्च्छुद्गभाशुभमहाफलः ॥१३॥सुस्कन्धौघलताजालो हस्तस्तबकसुन्दरः । पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ॥१४॥सर्वेन्द्रियखगाधारः सुजानुस्तम्भ उन्नतः । सरसच्छायया युक्तः कामपान्थनिषेवितः ॥१५॥मूर्धसंजनितादीर्घशिरोरुहतृणावलिः । अहंकारगृध्रकृतकुलायः सुषिरोदरः ॥१६॥विच्छिन्नवासनाजालमूलत्वाद्दुलवाकृतिः । व्यायामविरसः कायप्लक्षोयं न सुखाय मे ॥१७॥कलेवरमहंकारगृहस्थस्य महागृहम् । लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने मम ॥१८॥पङ्क्तिबद्धेन्द्रियपशुं वलत्तृष्णागृहाङ्गनम् । रागरञ्जितसर्वाङ्गं नेष्टं देहगृहं मम ॥१९॥पृष्ठाम्थिकाष्ठसंघट्टपरिसंकटकोटरम् । आन्त्ररज्जुमिराबद्धं नेष्ठं देहगृहं मम ॥२०॥प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् । जरामङ्कोलधवलं नेष्टं देहगृहं मम ॥२१॥ चित्तभृत्यकृतानन्तचेष्टावष्टब्धसंस्थिति । मिथ्यामोहमहास्थूणं नेष्टं देहगृहं मम ॥२२॥दुःखार्भककृताक्रन्दं सुखशय्यामनोरमम् । दुरीहादग्धदासीकं नेष्टं देहगृहं मम ॥२३॥मलाढ्यविषयव्यूहभाण्डोपस्करसंकटम् । अज्ञानक्षारवलितं नेष्टं देहगृहं मम ॥२४॥गुल्फगुग्गुलुविश्रान्तजानूर्ध्वस्तम्भमस्तकम् । दीर्घदोर्दारुसुदृढं नेष्टं देहगृहं मम ॥२५॥ प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गन्नम् । चिन्तादुहितृकं ब्रह्मन्नेष्टं देहगृहं मम ॥२६॥मूर्धजाच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् । आदीर्घाङ्गुलिनिर्व्यूहं नेष्टं देहगृहं मम ॥२७॥ सर्वाङ्गकुड्यसंघातघनरोमयवाङ्कुरम् । संशून्यपेटविवरं नेष्टं देहगृहं मम ॥२८॥नखोर्णनाभिनिलयं मरमारणितान्तरम् । भाङ्कारकारिपवनं नेष्टं देहगृहं मम ॥२९॥प्रवेशनिर्गमव्यग्रवातवेगमनारतम् । वितताक्षगवाक्षं तन्नेष्टं देहगृहं मम ॥३०॥ जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् । दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम ॥३१॥त्वक्सुधालेपमसृणं यन्त्रसंचारचञ्चलम् । मनःसदाखुनोत्खातं नेष्टं देहगृहं मम ॥३२॥स्मितदोषप्रभोद्भासि क्षणमानन्दसुंदरम् । क्षणं व्याप्तं तमःपूरैर्नेष्टं देहगृहं मम ॥३३॥ समस्तरोगायतनं वलीपलितपत्तनम् । सर्वाधिसारगहनं नेष्टं देहगृहं मम ॥३४॥अक्षर्क्षक्षोभविषमा शून्या निःसारकोटरा । तमोगहनदिक्कुञ्जा नेष्टा देहाटवी मम ॥३५॥देहालयं धारयितुं न शक्नोमि मुनीश्वर । पङ्कमग्नं समुद्धर्तुं गजमल्पबलो यथा ॥३६॥किं श्रिया किं च राज्येन किं कायेन किमीहितैः । दिनैः कतिपयैरेव कालः सर्वं निकृन्तति ॥३७॥रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने । नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥३८॥ मरणावसरे काया जीवं नानुसरन्ति ये । तेषु तात कृतघ्नेषु कैवास्था वद धीमताम् ॥३९॥मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः । न संत्यजति मां यावत्तावदेनं त्यजाम्यहम् ॥४०॥पवनस्पन्दतरलः पेलवः कायपल्लवः । जर्जरस्तनुवृत्तश्च नेष्टो मे कटुनीरसः ॥४१॥भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवाम् । तनुतामेत्ययत्नेन विनाशमनुधावति ॥४२॥तान्येव सुखदुःखानि भावाभावमयान्यसौ । भूयोप्यनुभवन्कायः प्राकृतो हि न लज्जते ॥४३॥सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् । नोच्छ्रायमेति न स्थैर्यं कायः किमिति पाल्यते ॥४४॥जराकाले जरामेति मृत्युकाले तथा मृतिम् । सम एवाविशेषज्ञः कायो भोगिदरिद्रयाः ॥४५॥संसाराम्भोधिजठरे तृष्णाकुहरकान्तरे । सुप्तास्तिष्ठति मुक्तेहो मूकोयं कायकच्छपः ॥४६॥दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः । संसाराब्धाविहोह्यन्ते कंचित्तेषु नरं विदुः ॥४७॥दीर्घदौरात्म्यवलया निपातफलपातया । न देहलतया कार्यं किंचिदस्ति विवेकिनः ॥४८॥मज्जन्कर्दमकोशेषु झटित्येव जरां गतः । न ज्ञायते यात्यचिरात्कःकथं देहदर्दुरः ॥४९॥निःसारसकलारम्भाः कायाश्चपलवायवः । रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ॥५०॥वायोर्दीपस्य मनसो गच्छतो ज्ञायते गतिः । आगच्छतश्च भगवञ्च्छरीरस्य कदाचन ॥५१॥बद्धास्था ये शरीरेषु बद्धास्था ये जगत्स्थितौ । तान्माहमदिरोन्मत्तान्धिग्धिगस्तु पुनः पुनः ॥५२॥नाहं देहस्य नो देहो मम नायमहं तथा । इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥५३॥मानावमानबहुला बहुलाभमनोरमाः । शरीरमात्रबद्धस्थं घ्नन्ति दोषदृशो नरम् ॥५४॥ शरीरश्वभ्रशायिन्या पिशाच्या पशलाङ्ग्या । अहंकारचमत्कृत्या छलेन च्छलिता वयम् ॥५५॥प्रज्ञा वराकी सर्वैव कायबद्धस्थयानया । मिथ्याज्ञानकुराक्षस्या छलिता कष्टमेकिका ॥५६॥न किंचिदपि दृश्येस्मिन्सत्यं तेन हतात्मना । चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥५७॥दिनैः कतिपयैरेव निर्झराम्बुकणो यथा । पतत्ययमयत्नेन जरठः कायपल्लवः ॥५८॥कायोयमचिरापायो बुद्बुदोम्बुनिधाविव । व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ॥५९॥मिथ्याज्ञानविकारेस्मिन्स्वप्नसंभ्रमपत्तने । काये स्फुटतरापाये क्षणमास्था न मे द्विज ॥६०॥तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च । स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥६१॥सततभङ्गुरकार्यपरंपरा विजयिजातजयं हठवृत्तिषु । प्रबलदोषमिदं तु कलेवरं तृणमिवाहमपोह्य सुखं स्थितः ॥६२॥[ ६५४ ] इत्यार्षे वासि०कायजुगुप्सानामाष्टादशः सर्गः ॥१८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP