संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|द्वितीयः पाद:| सूत्र ३३-३४ द्वितीयः पाद: सूत्र १-२ सूत्र ३ सूत्र ४ सूत्र ५-६ सूत्र ७ सूत्र ८-९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १६-१७ सूत्र १८-२० सूत्र २१ सूत्र २२ सूत्र २३-२५ सूत्र २६-३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३४ सूत्र ३५-३७ सूत्र ३८ सूत्र ३९-४१ द्वितीयोध्यायः - सूत्र ३३-३४ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ३३-३४ Translation - भाषांतर बुद्धयर्थ: पादवत् ॥३३॥बुद्धयर्थ: पादवत् ॥ यदप्युक्तमुन्मानव्यपदेशादस्ति परमिति तत्राभिधीयते ।उन्मानव्यपदेशोऽपि न ब्रम्हाव्यतिरिक्तवस्त्वस्तित्वप्रतिपत्त्यर्थ: किमर्थस्तर्हि बुद्धयर्थ उपासनार्थ इति यावत् ।चतुष्पादष्टाशफं षोडशकलमित्येवंरूपा बुद्धि: ।कथं नु नाम ब्रम्हाणि स्थिरा स्यादिति विकारद्वारेण ब्रम्हाण उन्मानकल्पनैव क्रियते ।न हयविकारेऽनन्ते ब्रम्हाणि सर्वैं: पुंभि: शक्या बुद्धि: स्थापयितुं मन्दमध्योत्तमबुद्धिस्वात्पूंसामिति । पादवत् ।यथा मनआकाशयोरध्यात्ममधिदैवतं च ब्रम्हाप्रतीकयोरानातयोश्चत्वारो वागादयो मन: संबन्धिन: पादा: कल्प्यन्ते ।चत्वारश्चाग्न्यादय आकाशसंबन्धिन आध्यानाय तद्वत् ।अथ वा पादवदिति यथा कार्षापणे पादविभागो व्यवहारप्राचुर्या कल्प्यते । न हि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते क्रयविक्रये परिमाणानियमात्तद्वदित्यर्थ: ॥३३॥स्थानविशेषात्प्रकाशादिवत् ॥३४॥स्थानविशेषात्प्रकाशादिवत् ॥ इह सूत्रे द्वयोरपि संबन्धभेदव्यपदेशयो: परिहारो विधीयते ।यदप्युक्तम संबन्धव्यपदेशाद्भेदव्यपदेशाच्च परमत: स्यादिति तदप्यसत् ।यत एकस्याऽपि स्थानविशेषापेक्षयैतौ व्यपदेशावुपपद्येते ।संबन्धव्यपदेशे तावदयमर्थ: ।बुद्धयाद्युपाधिस्थानविशेषयोगादुद्भतस्य विशेषविज्ञानस्योपाध्युपशमे य उपशम: स परमात्मना संबन्ध इत्युपाध्यपेक्षयोपचर्यते न परिमितत्वापेक्षया ।तथा भेदव्यपदेशोऽपि ब्रम्हाण उपाधिभेदापेक्षयोपचर्यते न स्वरूपभेदापेक्षया ।प्रकाशादिवदित्युपमोपादानम् ।यथैकस्य प्रकाशस्य सौर्यस्य चान्द्रमसय वोपाधियोगादुपजातविशेषस्योपाध्युपशमात्संबन्धव्यपदेशो भवत्युपाधिभेदाच भेदव्यपदेश: ।यथा वा सुचीपाशाकाशादिषूपाध्येपक्षयैवैतौ संबन्धभेदव्यपदेशौ भवतस्तद्वत् ॥३४॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP