द्वितीयोध्यायः - सूत्र ३२
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
सामान्यात्तु ॥३२॥
एवमेतेभ्य: सेत्वादिव्यपदेशेभ्यो ब्रम्हाण: परमस्तीत्येवं प्राप्ते प्रतिपाद्यते ॥ सामान्यात्तु ॥
तशुब्देन प्रदर्शितां प्राप्तिं निरुणद्धि ।
न ब्रम्हाणोऽन्यत्किंचिद्भवितुमर्हति प्रमाणाभावात् ।
न हयन्यस्यास्तित्वे किञ्चित्प्रमाणमुपलभामहे ।
सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रम्हाणो भवतीति निर्धारितम् ।
अनन्यत्वं च कारणात्कार्यस्य ।
न च ब्रम्हाव्यतिरिक्तं किंचिदजं संभवति सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमित्यवधारणात् ।
एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञनान्न ब्रम्हाव्यतिरिक्तवस्त्वस्तित्वमवकल्पते ।
ननु सेत्वादिव्यपदेशा ब्रम्हाव्यतिरिक्तं तत्त्वं सूचयन्तीत्युक्तम् ।
नेत्युच्यते ।
सेतुव्यपदेशस्तावन्न ब्रम्हाणो बाहयस्य सद्भावं प्रतिपादयितुं क्षमते ।
सेतुरात्मेति हयाह न तत: परमस्तीति ।
तत्र परस्मिन्नसति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत ।
न चैतन्याय्यं हठो हयप्रसिद्धकल्पना ।
अपि च सेतुव्यपदेशाब्दात्मनो लौकिकसेतुनिदर्शनेन सेतुबाहयवस्तुतां प्रसञ्जयता मृद्धारुमयतापि प्रासङ्क्षयेत ।
न चैतन्न्याय्यम् ।
अजत्वादिश्रुतिविरोधात् ।
सेतुसामान्यात्तु सेतुशब्द आत्मनि प्रयुक्त इति श्लिष्यते ।
जगतस्तन्मर्यादानां च विधारकत्वं सेतुसामान्यमात्मन: ।
अत: सेतुरिव सेतुरिति प्रकृत आत्मा स्तूयते ।
सेतुं तीर्त्वेत्यपि तरतेरतिक्रमासंभवात्प्राप्नोत्यर्थ एव वर्तते ।
यथा व्याकरणं तीर्ण इति प्राप्त इत्युच्यते नातिक्रान्तस्तद्वत् ॥३२॥
N/A
References : N/A
Last Updated : December 20, 2014
TOP