संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|द्वितीयः पाद:| सूत्र २२ द्वितीयः पाद: सूत्र १-२ सूत्र ३ सूत्र ४ सूत्र ५-६ सूत्र ७ सूत्र ८-९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १६-१७ सूत्र १८-२० सूत्र २१ सूत्र २२ सूत्र २३-२५ सूत्र २६-३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३४ सूत्र ३५-३७ सूत्र ३८ सूत्र ३९-४१ द्वितीयोध्यायः - सूत्र २२ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २२ Translation - भाषांतर प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय: ॥२२॥प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय: ॥ द्वे वाव ब्रम्हाणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चेत्युपक्रम्य पञ्च महाभूतानि द्वैराश्येन प्रविभज्यामूर्तरसस्य च पुरुषशब्दोदितस्य माहारजनादीनि रुपाणि दर्शयित्वा पुन: पठयतेऽथात आदेशो नेति नेति न हयेतस्मादिति नेत्यन्यत्परमस्तीति ।तत्र कोऽस्य प्रतिषेधस्य विषय इत जिज्ञासामहे ।न हयत्रेदं तदिति विशेषितं किंचित्प्रतिषेध्यमुपलभ्यते ।इतिशन्देन त्वत्र प्रतिषेध्यं किमपि समर्प्यते नेति नेतीतिपरत्वान्नञ्प्रयोगस्य ।इतिशब्दश्चायं संनिहितालम्बन एवंशब्दसमानवृत्ति : प्रयुज्यमानो दृश्यत इति ह स्मोपाध्याय: कथयतीत्येवमदिषु ।संनिहितं चात्र प्रकरणसामर्थ्याद्रॄपद्वयं सप्रपञ्चं ब्रम्हाणस्तच्च ब्रम्हा यस्यैते द्वे रूपे ।तत्र न: संशय उपजायते किमयं प्रतिषेधो रूपे रूपवच्चोभयमपि प्रतिषेधत्याहोस्विदेकतरम् ।यदाप्येकतरं तदापि किं ब्रम्हा प्रतिषेधति रूपे परिशिनष्टयाहोस्विद्रूपे प्रतिषेधति ब्रम्हा परिसिनष्टीति ।तत्र प्रकृतत्वाविशेषादुभयमपि प्रतिषेधतीत्याशङ्कामहे ।द्वौ चैतौ प्रतिषेधौ द्विर्नेतिशब्दप्रयोगात् ।तयोरेकेन सप्रपञ्चं ब्रम्हाणो रूपं प्रतिषिध्यतेऽपरेण रूपवदब्रम्होति भवति मति: ।अथवा ब्रम्हौव रूपवत्प्रतिपिध्यते तद्धि वाङमनसातीतत्वादसंभाव्यमानसद्भावं प्रतिषेधार्हम् ।न तु रूपप्रपञ्च: प्रत्यक्षादिगोचरत्वात्प्रतिषेधार्ह: ।अभ्यासस्त्वादरार्थ इति ।एवं प्राप्ते ब्रूम: ।न तावदुभयरतिषेध उपपद्यते शून्यवादप्रसङ्गात् ।किंचिद्धि परमार्थमालम्ब्यापरमार्थ: प्रतिषिध्यते यथा रज्ज्वादिषु सर्पादय: ।तच्च परिशिष्यमाणे कस्मिंश्चिद्भावेऽवकल्पते ।उभयप्रतिषेधे तु हि कोऽन्यो भाव: परिशिष्येत । अपरिशिष्यमाणे चान्यस्मिन्य इतर; प्रतिषेध्हुमारभ्यते प्रतिषध्हुमशक्यत्वात्तस्यैव परमार्थत्वापत्ते: प्रतिषेधानुपपत्ति: ।नापि ब्रम्हाप्रतिषेध उपपद्यते ब्रम्हा ते ब्रवाणीत्याद्युपक्रमविरोधात् ।असन्नेव स भवति ।असब्दब्र्म्होति वेद चेदियादिनिन्दाविरोधात् ।अस्तीत्येवोपलब्धव्य इत्यवधारणविरोधात् ।सर्वबेदान्तव्याकोपप्रसङ्गाच्च ।वाङमनसातीतत्वमपि ब्रम्हाणो नाभावाभिप्रायेनाभिधीयते ।न हि महता परिकरबन्धेन ब्रम्हाविदाप्नोति परं सत्यं ज्ञानमनन्त ब्रम्होत्येवमादिना वेदान्तेषु ब्रम्हा प्रतिपाद्य तस्यैव पुनरभावोऽभिलप्येत ।प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमिति हि न्या: ।प्रतिपादनप्रक्रिया त्वेषा यतो वाचो निवर्तन्ते ।अप्राप्य मनसा सहेति ।एतदुक्तं भवति वाङमनसातीतमविषयान्त: पातिप्रत्यगात्मभूतं नित्यशुद्धबुद्धौक्तस्वभावं ब्रम्होति ।तस्मादब्रम्हाणो रूपप्रपञ्चं प्रतिषेधति परिशिनष्टि ब्रम्होत्यवगन्तव्यम् ।तदेतदुच्यते प्रकृतैतावत्त्वं हि प्रतिषेधतीति ।प्रकृतं यदेतावदियत्तापरिच्छिन्न मूर्तामूर्तलक्षण ब्रम्हाणो रूपं तदेष शब्द: प्रतिषेधति ।तद्धि प्रकृतं प्रपञ्चितं च पूर्वत्मिन्ग्रन्थेऽधिदैवतमध्यात्मं च ।तज्जनितमेव च वासनालक्शणमपरं रूपममूर्तरसभूतं पुरुषसब्दोदितं लिङगात्मव्यपाश्रयं माहारजनाद्युपमाभिर्दर्शितम् ।अमूर्तरसस्य पुरुषस्य चक्षुर्ग्राहयरूपयोगित्वानुपपत्ते: ।तदेतत्सप्रपञ्चं ब्रम्हाणो रूपं संनिहितालम्बनेनेतिकरणेन प्रतिषेधकं नयं प्रत्युपनीयत इति गम्यते ।ब्रम्हा तु रूपविशेषणत्वेन षष्ठया निर्दिष्टं पूर्वस्मिन्ग्रन्थे न स्वप्रधानस्वेन ।प्रपञ्चिते च तदीये रूपद्वये रूपवत: स्वरूपजिज्ञासायामिदमुपक्रमन्तमथात आदेशो नेति नेतीति ।तत्र कल्पितरूपप्रत्याखानेन ब्रम्हाण: स्वरूपावेदनमिदमिति निर्णीयते ।तदास्पदं हीदं समस्तं कार्यं नेति नेतीति प्रतिषिद्धम् ।युक्तं च कार्यस्य वाचरम्भणशब्दादिभ्योऽसत्त्वमिति नेति नेतीति प्रतिषेधनम् ।न तु ब्रम्हाण: ।सर्वकल्पनामूलत्वात् ।न चात्रेयमाशङ्का कर्तव्या । कथंहि शास्त्रं स्वयमव ब्रम्हाणो रूपद्वयं दर्शयित्वा स्वयमेव पुन: प्रतिशेधति प्रक्षालनाद्धि पङकस्य दूरादस्पर्शनं वरीमति ।यतो नेदं शास्त्रं प्रतिपाद्यत्वेन ब्रम्हाणो रूपद्वयं निर्दिशति लोकप्रसिद्धं त्विदं रूपद्वयं ब्रम्हाणि कल्पितं परामृशति प्रतिषेध्यत्वाय शुद्धब्रम्हास्वरूपप्रतिपादनाय चेति निरवद्यम् ।द्वौ चैतौ प्रतिषेधौ यथासङ्ख्यन्यायेन द्वे अपि मूर्तामूर्ते प्रतिषेधत: ।यद्वा पूर्व: प्रतिषेधो भूतराशिं प्रतिषेधत्युत्तरो वासनाराशिम् ।अथवा नेति नेतीति वीप्सेयमितीति यावत्किंचिदुत्प्रेक्ष्यते तत्सर्वं न भवतीत्यर्थ: ।परिगणितप्रतिषेधेहि क्रियमाणे यदि नैतदब्रम्हा किमन्यदब्रम्हा भवेदिति जिज्ञासा स्यात् ।वीप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधादविषय: प्रत्यगात्मा ब्रम्होति जिज्ञासा निवर्तते ।तस्मात्प्रपञ्चमेव ब्रम्हाणि कल्पितं प्रतिषेधाद्भूयो ब्रवीत्यन्यत्परमस्तीति ।अभावावसाने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्रूयात् ।तत्रैषाऽक्षरयोजना नेति नेतीति ब्रम्हादिश्य तमेवादेसं पुनर्विवक्ति ।नेतिनेतीत्यस्य कोऽर्थ: ।न हयेतस्मादब्रम्हाणो व्यतिरिक्तमस्तीत्यतो नेति नेतीत्युच्यते न पुन: स्वयमेव नास्तीत्यर्थ: ।तच्च दर्शयत्यन्यत्परमप्रतिषिद्धं ब्रम्हास्तीति ।यदा पुनरेवमक्षराणि योज्यन्ते न हयेतस्मादिति नेति नेति ।नहि प्रपञ्चप्रतिषेधरुपादादेशानादन्यत्परमादेश नं ब्रम्हाणोऽस्तीति ।तदा ततो ब्रवीति च भूय इत्येतन्नामधेयविषयं योजयितव्यम् ।अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यमिति हि ब्रवीतीति ।तच्च ब्रम्हावसाने प्रतिषेधे समञ्जसं भवति ।अभावावसाने तु प्रतिषेधे किं सत्यस्य सत्यमित्युच्येत ।तस्मादब्रम्हावसानोऽयं प्रतिषेधो नाभावावसान इत्यध्यवस्याम: ॥२२॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP