द्वितीयोध्यायः - सूत्र ४
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
सूचकश्च हि श्रुतेराचक्षते च तद्विद: ॥४॥
सूचकश्च हि श्रुतेराचक्षते च तद्विद: । मायामात्रत्वात्तार्हि न कश्चित्स्वप्ने परमार्थगन्ध इति ।
नेत्युच्यते ।
सूचकस्य हि स्वप्नो भवति भविष्यतो: साध्वसाधूनो: ।
तथा हि श्रूयते यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
समृहिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शन इति ।
तथा पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्तीत्यवेमादिभि: स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति ।
आचक्षते च स्वप्नाध्यायविद: ।
कुञ्जरारोहणादि स्वप्ने धन्यानि खरयानादीन्यधन्यानीति ।
मन्त्रदेवताद्रव्यविशेषनिमित्ताश्चकेचित्स्वप्ना: सत्यार्थगन्धिनो भवन्तीति मन्यन्ते ।
तत्रापि भवतु नाम सूच्यमानस्य वस्तुन: सत्वत्वं सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यं बाध्यमानत्वादित्यभिप्राय: ।
तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ।
यदुक्तमाह हीति तदेवं सति भाक्तं व्याख्यातव्यम् ।
यथा लाङ्गलं गवादीनुद्वहतीति निमित्तमात्रत्वादेवमुच्यते न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति ।
एवं निमित्तमात्रत्वात्सुप्तो रथादीन्सृजते स हि कर्तेति चोच्यते ।
न तु प्रत्यक्षमेव सुप्तो रथादीन्सृजति ।
निमित्तत्वं त्वस्य रथादिप्रति भाननिमित्तमोदत्रासाइर्दशनात्तन्निंइत्तभूतयो: सुकृतदुष्कृतयो: कर्तृत्वेनेति वक्तव्यम् ।
अपि च जागरिते विषयेन्द्रियसंयोगादादित्यादित्यादिज्योतिर्व्यतिकराच्चात्मन: स्वयंज्योतिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्त: ।
तत्र यदि रथादिसृष्टवचनं श्रुत्या नीयेत तत: स्वयंज्योतिष्ट्वं न निर्णीतं स्यात् ।
तस्माद्रथाद्यभाववचनं श्रुत्या रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम् ।
एतेन निर्माणश्रवणं व्याख्यातम् ।
यदप्युक्तं प्राज्ञमेनं निर्मातारमामनन्तीति ।
तदप्यसत् ।
शृत्यन्तरे स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपितीति जीवव्यापारश्रवणात् ।
इहाप्यष सुप्तेषु जागर्तीति प्रसिद्धानुवादाज्जीव एवायं कामानां निर्माता संकीर्त्यते ।
तस्य तु वाक्यशेषेण तदेव शुक्रं तदब्रम्होति जीवभावं व्यावर्त्य ब्रम्हाभाव उपदिश्यते तत्त्वमसीत्यादिवदिति न ब्रम्हाप्रकरणत्वं विरुध्यते ।
न चास्माभि: स्वप्नेऽपि प्राज्ञव्यवहार: प्रतिषिध्यते तस्य सर्वेश्वरत्वात्सर्वस्ववस्थास्वधिष्ठातृत्वोपपत्ते: ।
पारमार्थिकस्तु नायं सन्ध्याश्रय: सर्गो वियदादिसर्गवदित्येतावत्प्रतिपाद्यते ।
न च वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति ।
प्रतिपादितं ही तदनन्यत्वमारम्भणशब्दादिभ्य इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् ।
प्राक्तु ब्रम्हात्मदर्शनाद्वियदादिप्रपञ्चो व्यवस्थितरूपो भवति ।
सन्ध्याश्रयस्तु प्रपञ्च: प्रतिदिनं बाध्यत इति ।
अतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुदितम् ॥४॥
N/A
References : N/A
Last Updated : December 19, 2014
TOP