द्वितीयोध्यायः - सूत्र १०
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
मुग्धेऽर्धसंपत्ति: परिशेषात् ॥१०॥
मुग्धेऽर्धसंपत्ति: परिशेषात् ॥
अस्ति मुग्धो नाम यं मूर्च्छित इति लौकिका कथयन्ति ।
स तु किमवस्थ इति परीक्षायामुच्यते ।
तिस्रस्तावदवस्था: शरीरस्थस्य जीवस्य प्रसिद्धा जगरितं स्वप्न: सुपुप्तमिति ।
चतुर्थी शरीरादपसुप्ति: ।
न तु पञ्चमी कोचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धास्ति ।
तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्छेत्येवं प्राप्ते ब्रूम: ।
न तावन्मुग्धो जागरितवस्थो भवितुकर्हति न हयमिन्द्रियैर्विषयानीक्षते । स्यादेतत् ।
इपुकारन्यायेन मुग्धो भविष्यति । यथेपुकारी जाग्रदपीष्वासक्तमनस्तया नान्यान्विपयानीक्षत एवं मुग्धो मुरालसंपातादिजनितदु:खानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विपयानीक्षत एवं मुग्धो मुसलसंपातादिजनितदु:खानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विषयाक्षित इति । न ।
अचेतयमानत्वात् ।
इषुकारो हि व्यापृतमना व्रवितीषुमेवाहमेतावन्तं कालमुपलभमानोऽभूवमिति ।
मुग्धस्तु लब्धसंज्ञो व्रतीत्यन्धे तमस्यहमेतावन्तं कालं प्रक्षिप्तोऽभूवं न किंचिन्मया चेतितमिति ।
जाग्रतश्रैकविषयविपक्तचेतसोऽपि देहो विध्रियते ।
मुग्धस्य तु देहो धरण्यां पतति ।
तस्मान्न जागर्ति नापि स्वप्नान्पश्यति नि:संज्ञकत्वात् ।
नापि मृत: प्राणोष्मणोर्भावात् ।
मुग्धे हि जन्तौ मृतोऽयं स्यान्न वा मृत इति संशयाना उष्मास्ति नास्तीति ह्रदयदेशमालभन्ते निश्चयार्थं प्राणोऽस्ति नास्तीति च नासिकादेशम् ।
यदि प्राणोष्मणोरस्तित्वं नावगच्छन्ति ततो मृतोऽयमित्यध्यवसाय दहनायारण्यं नयन्ति ।
अथ तु प्राणमूष्माणं वा प्रतिपद्यन्ते ततो नायं मृत इत्यध्यवसाय संज्ञालाभाय भिषज्यन्गि ।
पुनरुत्थानाच्च न दिष्टं गत: ।
न हि यमराष्ट्रात्प्रत्यागच्छति ।
अस्तु तर्हि सुषुप्तो नि:संज्ञत्वादमृतत्वाच्च ।
न । वैलक्षण्यात् ।
मुग्ध: कदाचिच्चिरमपि नोच्छृसिति सवेपथुरस्य देहो भवति भयानकं च वदनं विस्फारिते नेत्रे ।
सुपुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुन: पुनरुच्छवसिति निमीलिते अस्य नेत्रे भवत: ।
नचास्य देहो वेपते ।
पाणिपेषमात्रेण च स्पुप्तमुत्थापयन्ति न तु मुग्धं मुद्नरधातेनापि ।
निमित्तभेदश्च भवति मोहस्वापयो: ।
मुसलसंपातादिनिमित्तत्वान्मोहस्य श्रमादिनिमित्तत्वाच्च स्वापस्य ।
न च लोकेऽस्ति प्रसिद्धिर्मुग्ध: सुप्त इति ।
परिशेषादर्धसंपत्तिर्मुग्धतेत्यवगच्छाम: ।
नि: संज्ञत्वात्संपन्न इतरस्माद्वैलक्षण्याद्संपन्न इति ।
कथं पुनरधसंपत्तिर्मुग्धतेति शक्यते वक्तुम् ।
यावता सुप्तं प्रति तावदुक्तं श्रुत्या सता सोम्य तदा संपन्नो भवतीत्यत्र स्तेनोऽस्तेनो भवति नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकतं न दुष्कृतमित्यादि ।
जीवे हि सुकृतदुष्कृतयो: प्राप्ति: सुकित्वदु:खित्वप्रत्ययोत्पादनेन भवति ।
न च सुखित्वप्रत्ययो दु:खित्वप्रत्ययो वा सुषुप्ते विद्यते मुग्धेऽपि तौ प्रत्ययौ नैव विद्येते ।
तस्मादुपाध्युपशमात्सुषुप्तवन्मुघ्देऽपि कृत्स्नसंपत्तिरेव भवितुमर्हति नार्धसंपत्तिरिति ।
अत्रोच्यते - न ब्रूमो मुग्धेऽर्धसंपत्तिर्जीवस्य ब्रम्हाणा भवतीति ।
किं तर्ह्यर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वमर्धेनावस्थान्तरपक्षस्येति ब्रूम: ।
दर्शिते च मोहस्य वापेन साम्यवैषम्ये ।
द्वारं चैतन्मरणस्य ।
यदास्य सावशेषं कर्म भवति तदा वाङ्मगनसे प्रत्यागच्चत: ।
यदा नु निरवशेषं कर्म भवति तदा प्राणोष्माणावपगच्छत: ।
तस्मादर्धसंपत्तिं ब्रम्हाविद इच्छन्ति ।
यत्तुक्तं न पञ्चमी काचिदवस्था प्रसिद्धास्तीति ।
नैष दोष: ।
कादाचित्कीयमवस्थेति न प्रसिद्धा स्यात् ।
प्रसिद्धा चैषा लोकायुर्वेदयो: ।
अधसंपत्त्यभ्युपगमाच्च न पञ्चगी गण्यत इत्यनवद्यम् ॥१०॥
N/A
References : N/A
Last Updated : December 19, 2014
TOP