द्वितीयोध्यायः - सूत्र ७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥७॥

तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ स्वप्नावस्था परिक्षिता सुषुप्तावस्थेदानीं परीक्ष्यते ।
तत्रैता: सुषुप्तविषया: श्रुतयो भवन्ति ।
क्व चिच्छ्रूयते तद्यत्रैतत्सुप्त: समस्त: संप्रसन्न: स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवतीति ।
अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते ताभि: प्रत्ववसृप्य पुरीतति शेत इति ।
तथान्यत्र नाडीरेवानुक्रम्य तासु तदा भवति यदा सुप्त: स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवतीति तथान्यत्र य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेत इति ।
तथान्यत्र सता सोम्य तदा संपन्नो भवति स्वमपीतो भवतीति ।
प्राज्ञेनात्मना संपरिष्वक्तो न बाहयं किंचन वेद नान्तरमिति च ।
तत्र संशय: ।
किमेतानि नाडयादीनि परस्परनिरपेक्षाणि भिन्नानि सुषुप्तस्थानान्याहोस्वित्परस्परापेक्षयैकं सुषुप्तस्थानमिति \
किं तावत्प्राप्तं भिन्नानीति ।
कुत:। एकार्थत्वात् ।
न हयेकार्थानां क्वचित्परस्परापेक्षत्वं दृश्यते व्रीहियवादीनाम् ।
नाडयादीनां त्वेकार्थता सुषुप्तौ दृश्यते नाडीषु सृप्तो भवति पुरीतति शेत इति च तत्र तत्र सप्तमीनिर्देशस्य तुल्यत्वात् ।
ननु नैवं सति सप्तमीनिर्देशो निर्देशो दृश्यते सता सोम्य तदा संपन्नो भवतीति ।
नैषे दोष: ।
तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् ।
वाक्यशेषो हि तत्रायतनैषी जीव: सदुपसर्पतीत्याह ।
अन्यत्रायतनमलब्ध्वा पाणमेवोपश्रयत इति प्राणसब्देन तत्र प्रकृतस्य सत उपादानात् ।
आयतनं च सप्तम्यर्थ: ।
सप्तमीनिर्देशोऽपि तत्र आक्यशेषे दृश्यते सति संपद्य न विदु: सति संपद्यामह इति ।
सर्वत्र च विशेषविज्ञानोपरमलक्षणं सुषुप्तं न विशिष्यते ।
तस्मादेकार्थत्वानाडयादीनां विकल्पेन कादाचित्किंचित्स्थानं स्वापायोपसर्पतीत्येवं प्राप्ते प्रतिपाद्यते तदभावो नाडीष्वात्मनि चेति ।
तदभाव इति तस्य प्रकृतस्य स्वप्नदर्शनस्याभाव: सुषुप्तमित्यर्थ: ।
नादीष्वात्मनि चेति समुच्चयेनैतानि नाडयादीनि स्वापायोपैति न विकल्पेनेत्यर्थ: ।
कुत: । तच्छ्रुते: ।
तथा हि सर्वेषामेव नाडयादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते तञ्च समुच्चये संगृहीतं भवलि ।
विकल्पे हयेषां पक्षे बाध: स्यात् ।
नन्वेकार्थत्वाद्विकल्पो नाडयादीनां व्रीहियवादिवदिस्त्युक्तम् ।
नेत्युच्यते ।
न हयेकविभक्तिनिर्देशमात्रेणैकार्थत्वं विकल्पश्चापपति ।
नानार्थत्वसमुच्चययोरप्यकविभक्तिनिर्देशदर्शानात्प्रासादे शेते पर्यङ्के शेत इत्येवमादिषु ।
तथेहापि नाडीषु पुरीतति ब्रम्हाणि च स्वपितीत्येतदुपपद्यते समुच्चय: ।
तथा च श्रुति: - तासु तदा भवति यदा सुप्त: स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवतीति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयत्येकवाक्योपादानात् ।
प्राणस्य च ब्रम्हात्वं समधिगतं प्राणस्तथानुगमादित्यत्र ।
यत्रापि निरपेक्षा इव नाडी: सुप्तिस्थानत्वेन श्रावयत्यासु तदा नाडीषु सृप्तो भवतीति ।
तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्रम्हाणोऽप्रतिषेधान्नाडीद्वारेणैव ब्रम्हाण्येवावतिष्ठत इति प्रतीयते ।
न चैवमपि नाडीषु सप्तमी विरुध्यते  नाडीद्वारापि ब्रहयोपसर्पन्सृप्त एव नाडीषु भवति ।
यो हि गङ्गया सागरं गच्छति गत एव स गङायां भवति ।
अपि चात्र रश्मिनाडीद्वारात्मकस्य ब्रम्हालोकमार्गस्य विवक्षितत्वान्नाडीस्तुत्यर्थं सृप्तिसङ्कीर्तनम् ।
नाडीषु सृप्तो भवतीत्युक्त्वा तं न कश्चन पाप्मा स्मृशतीति ब्रुवन्नाडी: प्रशंसति ।
ब्रवीति च पाप्मस्पर्शाभाबेहेतुं तेजसा हि तदा संपन्नो भवतीति ।
तेजसा नाडीगतेन पित्ताख्येनाभिव्याप्तकरणो न बाहयान्विषयानीक्षत इत्यर्थ: ।
अथवा तेजस इति ब्रम्हाण एवायं निर्देश: श्रुत्यन्तरे ब्रम्हौव तेज एवेति तेज:शब्दस्य ब्रम्हाणि प्रयुक्तत्वात् ।
ब्रम्हाणा हि तदा संपन्नो भवति नाडीद्वारेणातस्तं न कश्चन पाप्मा स्पृशतीत्यर्थ: ।
ब्रम्हासंपत्तिश्च पाप्मस्पर्शाभावे हेतु: समधिगत: सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा हयेष ब्रम्हालोक इत्यादिश्रुतिभ्य: ।
एवं च सति प्रदेशान्तरप्रसिद्धेन ब्रम्हाणा सुषुप्तिस्थानेनानुगतो नाडीनां समुच्चय: समुच्चय: समधिगतो भवति ।
तथा पुरीततोऽपि ब्रम्हाप्रक्रियायां संकीर्तनात्तदनुगुणमेव सुप्तिस्थानत्वं विज्ञायते य एषोऽन्तर्ह्रदय आकाशस्तस्मिञ्शेत इति ह्रदयाकाशे सुप्तिस्थाने प्रकृत इदमुच्यते पुरीतति शेत इति ।
पुरीतदिति हृदयपरिवेष्टनमुच्यते ।
तदन्तर्वर्तिन्यपि ह्रदयाकाशे शयन: शक्यते पुरीतति शेत इति वक्तुम् ।
प्राकारक्षिप्तेऽपि पुरे वर्तमान: प्राकारे वर्तत इत्युच्यते ।
ह्रदयाकाशास्य ब्रम्हात्बं समधिगतं दहर उत्तरेभ्य इत्यत्र ।
तथा नाडीपुरीतत्समुच्चयोऽपि ताभि: प्रत्यवसृप्य पुरीतति शेत इत्येकवाक्योपादानादवगम्यते ।
सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रम्हात्वम् ।
एवमेतासु श्रुतिषु त्रीण्येवं सुषुप्तिस्थानानि संकीर्तितानि नाडय: पुरीतदब्रम्हा चेति ।
तत्रापि द्वारमात्रं नाडया: पुरीतच्च ब्रम्हौव त्वेकं सुषुप्तिस्थानम् ।
अपि च नाडय: पुरीतद्वाजीवस्योपाध्याधार एव भवति तत्रास्य कारणानि वर्तन्त इति ।
न हयुपाधिसंबन्धमन्तरेण स्वत एव जीवस्याधार: कश्चित्संभवति ब्रम्हाव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात् ।
ब्रम्हाधारत्वमप्यस्य सुषुप्ते नैवाधाराधेयभेदाभिप्रायेणोच्यते कथं तर्हि तादात्म्याभिप्रायेण ।
यत आह - सता सोम्य तदा संपन्नो भवति स्वमपीतो भवतीति ।
स्वशब्देनात्माभिलप्यते स्वरूपमापन्न: सुषुप्तो भवतीत्यर्थ: ।
अपि च न कदाचिज्जीवस्य ब्रम्हाणा संपत्तिर्नास्ति स्वरूपस्यानपायित्वात् ।
स्वप्नजा गरितयोस्तुपाधिसंपर्कवशात्पररूपापत्तिमिवापेक्ष्य तदुपशमात्सुषुप्ते: स्वरूपापत्तिर्विवक्ष्यते ।
अतश्च सुप्तावस्थायां कदाचित्सता संपद्यते कदाचिन्न संपद्यत इत्ययुक्तम् ।
अपि च स्थानविकल्पाभ्युपगमेऽपि विशेषविज्ञानोपशमलक्षणं तावत्सुषुप्तं न क्वचिद्विशिष्यते ।
तत्र सति संपन्नस्तावदेकत्वान्न विजानातीति युक्तं तत्केन कं विजानीयादिति श्रुते: ।
नाडीषु पुरीतति च शयानस्य न किंचिदविज्ञाने कारणं शक्यं विज्ञातुं भेदविषयत्वाद्यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदिति श्रुते: ।
ननु भेदविषयस्याप्यतिदूरादिकारणमविज्ञाने स्यात् ।
बाढम् ।
एवं स्याद्यदि जीव: स्वत: परिच्छिन्नोऽभ्युपगम्येत यथा विष्णुमित्र: प्रवासी स्वगृहं न पश्यतीति ।
न तु जीवस्योपाधिव्यतिरेकेण परिच्छेदो विद्यते ।
उपाधिगतमेवातिदूरादिकारणमविज्ञान इति यद्युच्येत तथाप्युपाधरुपशान्तत्वात्सत्येव संपन्नो न विजानात्टी ति युक्तम् ।
न च वयमिह तुल्यवन्नाडयादिसमुच्चयं प्रतिपादयाम: ।
न हि नाडाय: सुप्तिस्थानं पुरीतद्वत्यनन विज्ञानेन किंचित्प्रयोजनमस्ति ।
न हयेतद्विज्ञानप्रतिबद्धं किंचित्फलं श्रूयते ।
नाप्येतद्विज्ञानं फलवत: कस्यचिदङ्गमुपदिश्यते ।
ब्रम्हा त्वनपायि सुप्ति स्थानमित्येतत्प्रतिपादयाम: ।
तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रम्हात्मत्वावधारणं स्वप्नजागरितव्यहारविमुक्तत्वावधारणं च ।
तस्मादात्मैव सुप्तिस्थानम् ॥७॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP