द्वितीयोध्यायः - सूत्र ३१
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
परमत: सेतून्मानसबन्धभेदव्यदेशेभ्य: ॥३१॥
परमत: सेतून्मानसंबन्धभेदव्यपदेशेभ्य: ॥ यदेतन्निरस्तप्रपञ्चं ब्रम्हा निर्धारितमस्मात्परमन्यत्तत्त्वमस्ति नास्तीति श्रुतिविप्रतिपत्ते: संशय: ।
कानिचिद्धि वाक्यान्यापातेनैव प्रतिभासमानानि ब्रम्हाणोऽपि परमन्यत्तत्त्वं प्रतिपादयन्तीव ।
तेषां हि परिहारमभिधातुमयमुपक्रम: क्रियते ।
परमतो ब्रम्हाणोऽन्यत्तत्त्वं भवितुमहति । कुत: ।
सेतुव्यपदेशादुन्मानव्यपदेशात्संबन्धव्यपदेशाद्भेदव्यप पदेशाच्चेति ।
सेतुव्यपदेशस्तावदथ य आत्मा स सेतुर्विधृतिरित्यात्मशब्दाभिहितस्य ब्रम्हाण: सेतुत्वं संकीर्तयति ।
सेतुसब्दश्च हि लोके जलसंतानविच्छेदकरे मृद्दार्वादिप्रचये प्रसिद्ध: ।
इह च सेतुशब्द आत्मनि प्रत्युक्त इति लौकिकसेतोरिवात्मसेतोरन्यस्य वस्तुनोऽस्तित्वं गमयति ।
सेतुं तीर्त्वेति च तरतिशब्दप्रयोगात् ।
यथा लोंकिकं सेतुं तीर्त्वा जाङ्गलमसेतुं प्राप्नोत्येवमात्मानं सेतुं तीर्त्वाऽनात्मानमसेतुं प्राप्नोतीति गम्यते ।
उन्मानव्यपदेशश्च भवति तदेतदब्रम्हा चतुष्पादष्टाशफं षोडशकलमिति ।
यच्च लोक उन्मितमेतावदिदमिति परिच्छिन्नं कार्षापणादि ततोऽन्यद्वस्त्वस्तीति प्रसिद्धम् ।
तथा ब्रम्हाणोऽप्युन्मानात्ततोऽन्येन वस्तुना भवितव्यमिति गम्यते ।
तथा संबन्धव्यपदेशो भवति सता सोम्य तदा संपन्नो भवतीति ।
शारीर आत्मा प्राज्ञेनात्मना संपरिष्वक्त इति च ।
मितानां च मितेन संबन्धो द्दष्टो यथा नराणां नगरेण ।
जीवानां च ब्रम्हाणा संबन्ध व्यपदिशति सुषुप्तौ ।
अतस्तत: परमन्यदमितमस्तीति गम्यते ।
भेदव्यपदेशश्चैनमर्थं गमयति ।
तथा हि - अथ य एषोऽन्तरादित्ये हिरण्मय: पुरुषो द्दश्यत इत्यादित्याधारमीश्वरं व्यपदिश्य ततो भेदेनाक्ष्याधारमीश्वरं व्यपदिशति - अथ य एषोऽन्तरक्षिणि पुरुषो द्दश्यत इति ।
अतिदेशं चास्यामुना रूपादिषु करोति तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नामेति ।
सावधिकं चेश्वरत्वमुभयोर्वपदिशति ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामनां चेत्येकस्य ।
ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेत्येकस्य ।
यथेदं मागधस्य राज्यमिदं वैदेहस्येति ॥३१॥
N/A
References : N/A
Last Updated : December 20, 2014
TOP