द्वितीयोध्यायः - सूत्र ८-९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अत: प्रबोधोऽस्मात् ॥८॥

अत: प्रबोधोऽस्मात् ॥ यस्माच्चात्मैव सुप्तिस्थानमत एव च कारणान्नित्यवदेवास्मादात्मन: प्रबोध: स्वापाधिकारे शिष्यते कुत एतदागादित्यस्य प्रश्नस्य प्रतिवचनावसरे यथाग्ने: क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवैतस्मादात्प्रन: सर्वे प्राणा इत्यादिना ।
सत आगम्य न विदु: सत आगच्छामह इति च ।
विकल्प्यमानेषु तु सुषुप्तस्थानेषु कदाचिन्नाडिभ्य: प्रतिबुध्यते कदाचित्पुरीतत: कदाचिदात्मन इत्यशासिष्यत् ।
तस्मादप्यात्मैव तु सुप्तिस्थानमिति ॥८॥

स एव तु कर्मानुस्मृतिशब्दविधिभ्य: ॥९॥

स एव तु कर्मानुस्मृतिशब्दविधिभ्य: । तस्या: पुन: सत्संपत्ते: प्रतिबुध्यमान: किं य एव सत्संपन्न: स एव प्रतिबुध्यत उत स वान्यो वेति चिन्त्यते ।
तत्र प्राप्तं तावदनियम इति ।
कुत: ।
यदा हि जलराशौक कश्चिज्जलबिन्दु: प्रक्षिप्यते जलराशिरेव स तदा भवति पुनरुद्धरणे च स एव जलबिनुर्भवतीति दु:संपादम् ।
तद्वत्सुप्न: परेनैकत्वमापन्न: संप्रसीदतीति न स ए पुनरुत्थातुमर्हति ।
तस्मात्स एवेश्वरो वाऽन्यो वा जीव: प्रतिबुध्यत इत्येवं प्राप्त इएदमाह स एव तु जीव: सुप्त: स्वास्थ्यं गत: पुनरुत्तिष्ठति नान्य: ।
कस्मात् ।
कर्मानुस्मृतिशब्दविधिभ्य: ।
विभज्य हेतुं दर्शयिष्यामि ।
कर्मशेषानुष्ठानदर्शनात्तावत्स एवोत्थातुमर्हति नान्य: ।
तथा हि पूर्वेद्युरनुष्ठितस्य कर्मणोऽपरेद्यु: शेषमनुतिष्ठन्द्दश्यते ।
न चान्येन सामिकृतस्य कर्मणोऽन्य: शेषक्रियायां प्रवर्तितुमर्हति ।
अतिप्रसङगात् ।
तस्मादेक एव पूर्वेद्युरपरेद्युश्चैकस्य कर्मण: कर्तेति गम्यते ।
इतश्च स एवोत्तिष्ठति यत्कारणमतीतेऽहन्यहमदोऽहन्यहमदोऽद्राक्षमिति पूर्वानुभूतस्य पश्चात्स्मरणमन्यस्योत्थाने नोपपद्यते ।
न हयनदृष्टमन्योऽनुस्मर्तुमर्हति ।
सोऽहमस्मीति चात्मानुस्मरणमात्मान्तरोत्थाने नावकल्पते ।
शब्देभ्यश्च तस्यैवोत्थानमवगम्यते ।
तथाहि पुन: प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्ताअयैव सर्व: प्रजा अहरहर्गच्छन्त्य एतं ब्रम्हालोकं न विन्दन्ति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंसो वा मशको वा यद्यद्बवन्ति तदाभवन्तीत्येवमादय: शब्दा: स्वापप्रबोधाधिकारे पठिता नात्मान्तरोत्थाने सामञ्चस्यमीयु: ।
कर्मविद्याविधिभ्यश्वैवमेवावगम्यते ।
अन्यथा हि कर्मविद्याविधयोऽनर्थका: स्यु: ।
अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत ।
एवं चेत्स्याद्वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात् ।
अपि चान्योत्थानपक्षे यदि तावच्छरीरान्तरे व्यवहरमाणो जीव उत्तिष्ठेत्तत्रत्यव्यवहारलोपप्रसङ्ग: स्यात् ।
अथ तत्र सुप्त उत्तिष्ठेत्कल्पनानर्थक्यं स्यात् ।
यो हि यस्मिञ्शरीरे सुप्त: स तस्मिन्नोत्तिष्ठत्यन्यस्मिञ्शरीरे सुप्तोऽन्यस्मिन्नुत्तिष्ठतीति कोऽस्यां कल्पनायां लाभ: स्यात् ।
अथ मुक्त उत्तिष्ठेदन्तवान्मोक्ष आपद्येत ।
निवृत्ताविद्यस्य च पुनरुत्थानमनुपपन्नम् ।
ऐतेनेश्वरस्योत्थानं प्रत्युक्तम् ।
नित्यनिवृत्ताविद्यत्वात् ।
अकृताभ्यागमकृतविप्रणाशौ च दुर्निवारावन्योत्थानपक्षे स्याताम् ।
तस्मात्स एवोत्तिष्ठति नान्य इति ।
यत्पुनरुक्तं यथा जलराशौ प्रक्षिप्तो जलबिन्दुर्नोद्धर्तुं शक्यत एवं सति संपन्नो जीवो नोत्पतितुमर्हतीति ।
तत्परिहिरयते ।
युक्तं तत्र विवेककारणाभावाज्जलबिन्दोरनुद्धरणम् ।
इह तु विद्यते विवेककारणं कर्म चाविद्या चेति वैषंम्यम् ।
दुश्यते च दुर्विवेचयोरप्यस्मज्जातीयै: क्षीरोदकयो: संसृष्टयोर्हंसेन विवेचनम् ।
अपि च न जीवो नाम कश्चित्परस्मादन्यो विद्यते यो जलबिन्दुरिव जलराशे: सतो विविच्येत ।
सदेव तूपाधिसंपर्काज्जीव इत्युपचर्यत इत्यसकृत्प्रपञ्चितम् ।
एवं सति याव्देकोपाधिगता बन्धातुवृत्तिस्तावदेकजीवव्यवहार: ।
उपाध्यन्तरगतयां तु बन्धानुवृत्तौ जीवान्तरव्यवहार: ।
स एवायमुपाधि: स्वापप्रबाधयोर्बीजाङकुरन्यायेनेत्यत: स एव जीव: प्रतिबुध्यत इति युक्तम् ॥९॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP