श्रीरमणगीता - अथ अष्टादशोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(सिद्धमहिमानुकीर्तनम्) वरपराशरगोत्रसमुद्भवं वसुमतीसुरसङ्घयशस्करम् । विमलसुन्दरपण्डितनन्दनं कमलपत्रविशालविलोचनम् ॥१॥
अरुणशैलगताश्रमवासिनं परमहंसमनञ्जनमच्युतम् । करुणया दधतं व्यवहारितां सततमात्मनि संस्थितमक्षरे ॥२॥
अखिलसंशयवारणभाषणं भ्रममदद्विरदाङ्कुशवीक्षणम् । अविरतं परसौख्यधृतोद्यमं निजतनूविषयेष्वलसालसम् ॥३॥
परिणताम्रफलप्रभविग्रहं चलतरेन्द्रियनिग्रहसग्रहम् । अमृतचिद्धनवल्लिपरिग्रहं मितवचोरचितागमसङ्ग्रहम् ॥४॥
अमलदिप्ततरात्ममरीचिभिर्निजकरैरिव पङ्कजबान्धवम् । पदजुषां जडभावमनेहसा परिहरन्तमनन्तगुणाकरम् ॥५॥
मृदुतमं वचने दृशि शीतलं विकसितं वदने सरसीरुहे । मनसि शून्यमहश्शशिसन्निभे हृदि लसन्तमनन्त इवारुणम् ॥६॥
अदयमात्मतनौ कठिनं व्रते प्रुषचित्तमलं विषयव्रजे । ऋषिमरोषमपेतमनोरथं धृतमदं घनचिल्लहरीवशात् ॥७॥
विगतमोहमलोभमभवनं शमितमत्सरमुत्सविनं सदा । भवमहोदधितारणकर्मणि प्रतिफलेन विनैव सदोद्यतम् ॥८॥
माताममेति नगराजसुतोरुपीठं नागानने भजति याहि पिता ममेति । अङ्कं हरस्य समवाप्य शिरस्यनेन सञ्चुम्बितस्य गिरिन्ध्रकृतो विभूतिम् ॥९॥
वेदादिपाकदमनोत्तरकच्छपेशै- र्युक्तैर्धराधरसुषुप्त्यमरेश्वरैश्च । सूक्ष्मामृतायुगमृतेन सह प्रणत्या सम्पन्नशब्दपटलस्य रहस्यमर्थम् ॥१०॥
दण्डं विनैव यतिनं बत दण्डपाणिं दुःखाब्धितारकमरिं बत तारकस्य । त्यक्त्वा भवं भवमहो सततं भजन्तं हंसं तथापि गतमानससङ्गरागम् ॥११॥
धीरत्वसम्पदि सुवर्णगिरेरनूनं वारन्निरोधेधिकमेव गभिरतायाम् । क्षान्तौ जयन्तमचलामखिलस्य धात्रीं दान्तौ निर्दशनमशन्तिकथादविष्ठम् ॥१२॥
नीलारविन्दसुहृदा सदृशं प्रसादे तुल्यं तथा महसि तोयजबान्धवेन । ब्राह्म्यां स्थितौ तु पितरं वटमूलवासं संस्मारयन्तमचलन्तमनूदितं मे ॥१३॥
यस्याधुनापि रमणी रमणीयभावा गिर्वाणलोकपृतना शुभवृत्तिरूपा । संशोभते शिरसि नापि मनोजगन्ध- स्तत्तादृशं गृहिणमप्यधिपं यतीनाम् ॥१४॥
वन्दारुलोकवरदं नरदन्तिनोऽपि मन्त्रेश्वरस्य महतो गुरुतां वहन्तम् । मन्दारवृक्षमिव सर्वजनस्य पाद- च्छायां श्रितस्य परितापमपाहरन्तम् ॥१५॥
यस्तन्त्रवार्तिकमनेकविचित्रयुक्ति- संशोभितं निगमजीवनमाततान । भुस्य तस्य बुधसंहतिसंस्तुतस्य वेषान्तरं तु निगमानतवचो विचारि ॥१६॥
वेदशीर्षचयसारसङ्ग्रहं पञ्चरत्नमरुणाचलस्य यः । गुप्तमल्पमपि सर्वतोमुखं सूत्रभूतमतनोदिमं गुरुम् ॥१७॥
देववाचि सुतरामशिक्षितं काव्यगन्धरहितं च यद्यपि । ग्रन्थक्रमणि तथाऽपि सस्फुरद्भाषितानुचरभावसञ्चयम् ॥१८॥
लोकमातृकुचदुग्धपायिनश्शङ्करस्तवकृतो महाकवेः । द्राविडद्विजशिशोर्नटद्गिरो भूमिकान्तरमपारमेधसम् ॥१९॥
भूतले त्विह तृतियमुद्भवं क्रौञ्चभूमिधररन्ध्रकारिणः । ब्रह्मनिष्ठितदशाप्रदर्शनाद्युक्तिवादतिमिरस्य शान्तये ॥२०॥
कुम्भयोनिमुखमौनिपूजिते द्राविडे वचसि विश्रुतं कविम् । दृष्टवन्तमजरं परं महः केवलं धिषणया गुरुं विना ॥२१॥
बालकेऽपि जडगोपकेऽपि व वानरेऽपि शुनि वा खलेऽपि वा । पण्डितेऽपि पदसंश्रितेऽपि वा पक्षपातरहितं समेक्षणम् ॥२२॥
शक्तिमन्तमपि शान्तिसंयुतं भक्तिमन्तमपि भेदवर्जितम् । वीतरागमपि लोकवत्सलं देवतांशमपि नम्रचेष्टितम् ॥२३॥
एष यामि पितुरन्तिकं ममान्वेषणं तु न विधीयतामिति । संविलिख्य गृहतो विनिर्गतं शोणशैलचरणं समागतम् ॥२४॥
ईदृशं गुणगणैरभिरामं प्रश्रयेण रमणं भगवन्तम् । सिद्धलोकमहिमानमपारं पृष्टवानमृतनाथयतीन्द्रः ॥२५॥
आह तं स भगवानगवासी सिद्धलोकमहिमा तु दुरूहः । ते शिवेन सदृशाः शिवरूपाः शक्रुवन्ति च वराण्यपि दातुम् ॥२६॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे सिद्धमहिमानुकीर्तनं नाम अष्टादशोऽध्यायः ॥१८

॥इति श्रीरमणगीता समाप्ता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP