श्रीरमणगीता - अथ दशमोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(सङ्घविद्या) यतिनो योगनाथस्य महर्षिरमणस्य च । दशमेऽत्र नीबघ्निमस्संवादं सङ्घहर्षदम् ॥१॥
योगनाथ उवाच साङ्घिकस्य च सङ्घस्य कस्सम्बन्धो महामुने । सङ्घस्य श्रेयसे नाथ तमेतं वक्तुमर्हसि ॥२॥
भगवानुवाच
ज्ञेयश्शरीरवत्सङ्घस्तत्तदाचारशालिनम् । अङ्गानीवात्र विज्ञेयास्साङ्घिकास्सधुसत्तम ॥३॥
अङ्गं यथा शरीरस्य करोत्युपकृतिं यते । तथोपकारं सङ्घस्य कुर्वन् जयति साङ्घिकः ॥
सङ्घस्य वाङ्मनःकायैरुपकारो यथा भवेत् । स्वयं तथाऽऽचरन्नित्यं स्वकीयानपि बोघयेत् ॥५॥
आनुकूल्येन सङ्घस्य स्थापयित्वा निजं कुलम् । सङ्घस्यैव ततो भूत्यै कुर्याद्भुतियुतं कुलम् ॥६॥
योगनाथ उवाच शान्तिं केचित्प्रशंसन्ति शक्तिं केचिन्मनीषिणः । अनयोः को गुणो ज्यायान्त्सङ्घक्षेमकृते विभो ॥७॥
भगवानुवाच स्वमनश्शुद्धये शान्तिश्शक्तिस्सङ्घस्य वृद्धये । शक्त्या सङ्घं विधायोच्चैश्शान्तिं संस्थापयेत्ततः ॥८॥
योगनाथ उवाच सर्वस्यापि च सङ्घस्य नराणाणामृषिकुञ्जर । गन्तव्यं समुदायेन किं परं धरणीतले ॥९॥
भगवानुवाच
समुदायेन सर्वस्य सङ्घस्य तनुधारिणाम् । सौभ्रात्रं समभावेन गन्तव्यं परमुच्यते ॥१०॥
सौभ्रात्रेण परा शान्तिरन्योन्यं देहधारिणाम् । तदेत्यं शोभते सर्वा भूमिरेकं गृहं यथा ॥११॥
अभूत्पञ्चदशे घस्त्रे संवादस्सोऽयमष्टमे । योगनाथस्य यतिनो महर्षेश्च दयावतः ॥१२॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे सङ्घविद्या नाम दशमोऽध्यायः ॥१०

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP