संस्कृत सूची|संस्कृत साहित्य|गीता|श्रीरमणगीता| अथ चतुर्दशोऽध्यायः । श्रीरमणगीता अध्याय नाम अथ प्रथमोऽध्यायः । अथ द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । श्रीरमणगीता -अथ पञ्चमोऽध्यायः । अथ षष्टोऽध्यायः । अथ सप्तमोऽध्यायः । अथ अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः । अथ अष्टादशोऽध्यायः । ग्रन्थप्रशंसा श्रीरमणगीता - अथ चतुर्दशोऽध्यायः । गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : gitaगीतासंस्कृत अथ चतुर्दशोऽध्यायः । Translation - भाषांतर (जीवन्मुक्तिविचारः) निशायामेकविंशेऽह्नि भारद्वाजि विदां वरः । प्राज्ञश्शिवकुलोपाधिर्वैदर्भो वदतां वरः ॥१॥ जीवनमुक्तिं समुद्दिश्य महर्षि परिपृष्टवान् । अथ सर्वेषु शृण्वत्सु महर्षिर्वाक्यमब्रवित् ॥२॥ शास्त्रीयैर्लोकिकैश्चापि प्रत्ययैरविचालिता । स्वरूपे सुदृढा निष्ठा जीवन्मुक्तिरुदाहृता ॥३॥ मुक्तिरेकविधैव स्यात्प्रज्ञानस्याविशेषतः । शरीरस्थं मुक्तबन्धं जीवन्मुक्तं प्रचक्षते ॥४॥ ब्रह्मलोकगतो मुक्तश्श्रूयते निगमेषु यः । अनुभूतौ न भेदोऽस्ति जीवन्मुक्तस्य तस्य च ॥५॥ प्राणाः समवलीयन्ते यस्यात्रैव महात्मनः । तस्याप्यनुभवो विद्वन्नेतयोरुभयोरिव ॥६॥ साम्यात्स्वरूपनिष्ठाया बन्धहानेश्च साम्यतः । मुक्तिरेकविधैव स्याद्भेदस्तु परबुद्धिगः ॥७॥ मुक्तो भवति जीवन्यो माहात्मात्मनि संस्थितः । प्राणाः समवलीयन्ते तस्यैवात्र नरर्षभ ॥८॥ जीवन्मुक्तस्य कालेन तपसः परिपाकतः । स्पर्शाभावोऽपि सिद्धः स्याद्रूपे सत्यपि कुत्रचित् ॥९॥ भूयश्च परिपाकेन रूपाभावोऽपि सिद्ध्यति । केवलं चिन्मयो भूत्वा स सिद्धो विहरिष्यति ॥१०॥ शरीरसंश्रयं सिद्ध्योर्द्वयमेतन्नरोत्तम । अल्पेनापि च कालेन देवतानुग्रहाद्भवेत् ॥११॥ भेदमेतं पुरस्कृत्य तारतम्यं न सम्पदि । देहवानशरीरो वा मुक्त आत्मनि संस्थितः ॥१२॥ नाडीद्वारार्चिरोद्येन मार्गेणोर्ध्वगतिर्नरः । तत्रोत्पन्नेन बोधेन सद्यो मुक्तो भविष्यति ॥१३॥ उपासकस्य सुतरां पक्वचित्तस्य योगिनः । ईश्वरानुग्रहात्प्रोक्ता नाडीद्वारोत्तमा गतिः ॥१४॥ सर्वेषु कामचारोऽस्य लोकेषु परिकीर्तितः । इच्छयाऽनेकदेहानां ग्रहणं चाप्यनुग्रहः ॥१५॥ कैलाशं केऽपि मुक्तानां लोकमाहुर्मनीषिणः । एके वदन्ति वैकुण्ठं परे त्वादित्यमण्डलम् ॥१६॥ मुक्तलोकाश्च ते सर्वे विद्वन्भूम्यादिलोकवत् । चित्रवैभवया शक्त्या स्वरुपे परिकल्पिताः ॥१७॥ ॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे जीवन्मुक्तिविचारो नाम चतुर्दशोऽध्यायः ॥१४ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP