श्रीरमणगीता - अथ षोडशोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(भक्तिविचारः) अथ भक्तिं समुद्दिश्य पृष्टः पुरुषसत्तमः । अभाषत महाभागो भगवान् रमणो मुनिः ॥१॥
आत्मा प्रियः समस्तस्य प्रियं नेतरदात्मनः । अच्छिन्ना तैलधारावत् प्रीतिर्भक्तिरुदाहृता ॥२॥
अभिन्नं स्वात्मनः प्रीत्या विजानातीश्वरं कविः । जानन्नप्यपरो भिन्नं लीन आत्मनि तिष्ठति ॥३॥
वहन्ती तैलधारावद्या प्रीतिः परमेश्वरे । अनिच्छतोऽपि सा बुद्धिं स्वरुपं नयति ध्रुवम् ॥४॥
परिच्छिन्नं यदात्मानं स्वल्पज्ञं चापि मन्यते । भक्तो विषयिरूपेण तदा क्लेशनिवृत्तये ॥५॥
व्यापकं परमं वस्तु भजते देवताधिया । भजंश्च देवताबुद्ध्या तदेवान्ते समश्नुते ॥६॥
देवताया नरश्रेष्ठ नामरूपप्रकल्पनात् । ताभ्यां तु नामरूपाभ्यां नामरुपे विजेष्यते ॥७॥
भक्तौ तु परिपूर्णायमलं श्रवणमेकदा । ज्ञानाय परिपूर्णाय तदा भक्तिः प्रकल्पते ॥८॥
धाराव्यपेता या भक्तिः सा विच्छिन्नेति कीर्त्यते । भक्तेः परस्य सा हेतुर्भवतीति विनिर्णयः ॥९॥
कामाय भक्तिं कुर्वाणः कामं प्राप्याप्यनिवृतः । शाश्वताय सुखस्यान्ते भजते पुनरीश्वरम् ॥१०॥
भक्तिः कामसमेताऽपि कामाप्तौ न निवर्तते । श्रद्धा वृद्धा परे पुंसि भूय एवाभिर्वर्धते ॥११॥
वर्धमाना च सा भक्तिः काले पूर्णा भविष्यति । पूर्णया परया भक्त्या ज्ञानेनेव भवं तरेत् ॥१२॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे भक्तिविचारः नाम षोडशोऽध्यायः ॥१६

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP