श्रीरमणगीता - अथ द्वितीयोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(मार्गत्रयकथनम्) ईशपुत्रशके बाणभूमिनन्दधरामिते । चातुर्मास्ये जगौ सारं सङ्गृह्य भगवानृषि ॥१॥
हृदयकुहरमध्ये केवलं ब्रह्ममात्रं ह्यहमहमिति साक्षादात्मरूपेण भाति । हृदि विश मनसा स्वं चिन्व्ता मज्जता वा पवनचलनरोधादात्मनिष्ठो भव त्वम् ॥२॥
श्लोकं भगवतो वक्त्रान्महर्षेरिममुद्गतम् । श्रुत्यन्तसारं यो वेद संशयो नास्य जातुचित् ॥३॥
अत्र श्लोके भगवता पूर्वार्धे स्थानमीरितम् । शारीरकस्य दृश्येऽस्मिञ्छरीरे पाञ्चभौतिके ॥४॥
तत्रैव लक्षणं चोक्तं द्वैतमीशा च वारितम् । उक्तं चाप्यपरोक्षत्वं नानालिङ्गनिबर्हणम् ॥५॥
उपदेशो द्वितीयार्धे शिष्याभ्यासकृते कृतः । त्रेधा भिन्नेन मार्गेण तत्त्वादैक्यं समीयुषा ॥६॥
उपायो मार्गणाभिख्यः प्रथमः सम्प्रकीर्तितः । द्वितीयो मज्ज्नाभिख्यः प्राणरोधस्तृतीयकः ॥७॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मार्गत्रयकथनं नाम द्वितीयोऽध्यायः ॥२

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP