श्रीरमणगीता - अथ एकादशोऽध्यायः ।
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
(ज्ञानसिद्धिसामरस्यकथनम्) षोडशे दिवसे रात्रौ विविक्ते मुनिसत्तमम् । गुरुं ब्रह्मविदां श्रेष्ठं नित्यमात्मनि संस्थितम् ॥१॥
उपगम्य महाभागं सोऽहं कैवतमानवम् । रमणं स्तुतवानस्मि दुर्लभज्ञानलब्धये ॥२॥
त्वय्येव परमा निष्ठा त्वय्येव विशदा मतिः । अम्भसामिव वाराशिर्विज्ञानानां त्वमास्पदम् ॥३॥
त्वं तु सप्तदशे वर्षे बाल्य एव महायशः । लब्धवानसि विज्ञानं योगिनामपि दुर्लभम् ॥४॥
सर्वे दृश्या इमे भावा यस्य छायामयास्तव । तस्य ते भगवन्निष्ठां को नु वर्णयितुं क्षमः ॥५॥
मज्जतां घोरसंसारे व्यपृतानामितस्ततः । दुःखं महत्तितीषूर्णां त्वमेका परमा गतिः ॥६॥
पश्यामि देवदत्तेन ज्ञानेन त्वां मुहुर्मुहुः । ब्रह्मण्यानां वरं ब्रह्मन्त्सुब्रह्मण्यं नराकृतिम् ॥७॥
न त्वं स्वामिगिरौ नाथ न त्वं क्षणिकपर्वते । न त्वं वेङ्कटशैलाग्रे शोणाद्रावसि वस्तुतः ॥८॥
भूमविद्यां पुरा नाथ नारदाय महर्शये । भवान् शुश्रूषमाणाय रहस्यामुपदिष्टवान् ॥९॥
सनत्कुमारं ब्रह्मर्षि त्वामाहुर्वेदवेदिनः । आगमानां तु वेत्तारस्सुब्रह्मण्यं सुरर्षभम् ॥१०॥
केवलं नाम भेदोऽयं व्यक्तिभेदो न विद्यते । सनत्कुमारस्स्कन्दश्च पर्यायौ तव तत्त्वतः ॥११॥
पुरा कुमारिलो नाम भूत्वा ब्राह्मणसत्तमः । धर्मं वेदोदितं नाथ त्वं संस्थापितवानसि ॥१२॥
जैनैर्व्याकुलिते धर्मे भगवन्द्रविडेषु च । भूत्वा त्वं ज्ञानसम्बन्धो भक्तिं स्थापितवानसि ॥१३॥
अधुना त्वं महाभाग ब्रह्मज्ञानस्य गुप्तये । शास्त्रज्ञानेन सन्तॄप्तैर्निरुद्धस्यागतो धराम् ॥१४॥
सन्देहा बहवो नाथ शिष्याणां वारितास्त्वया । इमं च मम सन्देहं निवारयितुमर्हसि ॥१५॥
ज्ञानस्य चापि सिद्धीनां विरोधः किं परस्परम् । उताहो कोऽपि सम्बन्धो वर्तते मुनिकुञ्जर ॥१६॥
मयैवं भगवान्पृष्टो रमणो नुतिपूर्वकम् । गभिरया दृशा वीक्ष्य मामिदं वाक्यमब्रवित् ॥१७॥
सहजां स्थितिमारुढः स्वभावेन दिने दिने । तपश्चरतिदुर्धर्षं नालस्यं सहजस्थितौ ॥१८॥
तपस्तदेव दुर्धर्षं य निष्ठ सहजात्मनि । तेन नित्येन तपसा भवेत्पाकः क्षणे क्षणे ॥१९॥
परिपाकेन काले स्युः सिद्धयस्तात पश्यतः । प्रारब्धं यदि ताभिः स्याद्विहारो ज्ञानिनोऽपि च ॥२०॥
यथा प्रपञ्चग्रहणे स्वरुपान्नेतरन्मुनेः । सिद्धयः क्रियमाणाश्च स्वरुपान्नेतरत्तथा ॥२१॥
भवेन्न यस्य प्रारब्धं शक्तिपूर्णोऽप्ययं मुनिः । अतरङ्ग इवाम्भोधिर्न किञ्चित्दपि चेष्टते ॥२२॥
नान्यं मृगयते मार्गं निसर्गादात्मनि स्थितः ॥ सर्वासामपि शक्तीनां समष्टिः स्वात्मनि स्थितिः ॥२३॥
अप्रयत्नेन तु तपः सहजा स्थितिरुच्यते । सहजायां स्थितौ पाकाच्छक्त्तिनामुद्भवो मतः ॥२४॥
परीवृतोऽपि बहुभिर्नित्यमात्मनि संस्थितः । घोरं तपश्चरत्येव न तस्यैकान्तकामिता ॥२५॥
ज्ञानं शक्तेरपेतं यो मन्यते नैव वेद सः । सर्वशक्तेऽभितः पूर्णे स्वस्वरूपे हि बोधवान् ॥२६॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानसिद्धिसामरस्यकथनं नाम एकादशोऽध्यायः ॥११
N/A
References : N/A
Last Updated : November 11, 2016
TOP