श्रीरमणगीता - अथ चतुर्थोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(ज्ञानस्वरूपकथनम्) प्रथमः प्रश्नः अहं ब्रह्मास्मीति वृत्तिः किं ज्ञानं मुनिकुन्जर । उत ब्रह्माहमिति धीर्धीरहं सर्वमित्युत ॥१॥
अथवा सकलं चैतद्ब्रह्मेति ज्ञानमुच्यते । अस्माद्वृत्तिचतुष्काद्वा किं नु ज्ञानं विलक्षणम् ॥२॥
अस्योत्तरम् इमं मम गुरुः प्रश्नमन्तेवासिन आदरात् । आकर्ण्य रमणो वाक्यमुवाच भगवान्मुनि ॥३॥
वृत्तयो भावना एव सर्वा एता न संशयः । स्वरूपावस्थितिं शुद्धां ज्ञानमाहुर्मनीषिणः ॥४॥
गुरोर्वचस्तदाकर्ण्य संशयच्छेदकारकम् । अपृच्छं पुनरेवाहमन्यं संशयमुद्गतम् ॥५॥
द्वितीय प्रश्नः वृत्तिव्याप्यं भवेद्ब्रह्म न वा नाथ तपस्विनाम् । इमं मे हृदि सञ्जातं संशयं छेत्तुमर्हसि ॥६॥
तमिमं प्रश्नमाकर्ण्य मित्रमङ्ध्रिजुषामृषिः । अभिषिच्य कटाक्षेण मामिदं वाक्यमब्रवीत् ॥७॥
अस्योत्तरम् स्वात्मभूतं यदि ब्रह्म ज्ञातुं वृत्तिः प्रवर्तते । स्वात्माकारा तदा भूत्वा न पृथक् प्रतितिष्ठति ॥८॥
अयं प्रागुक्त एवाब्दे सप्तमे त्वेकविंशके । अभवन्नो मितग्रन्थः संवादो रोमहर्षणः ॥९॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानस्वरुपकथनं नाम चतुर्थोऽध्यायः ॥४

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP