श्रीरमणगीता - अथ पञ्चदशोऽध्यायः ।
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
(श्रवणमनननिदिध्यासननिरूपणम्) श्रवणं नाम किं नाथ मननं नाम किं मतम् । किं वा मुनिकुलश्रेष्ठ निदिध्यासनमुच्यते ॥१॥
इत्येवं भगवान्पृष्टो मया ब्रह्मविदां वरः । द्वाविंशे दिवसे प्रातरब्रवीच्छिष्यसंसदि ॥२॥
वेदशीर्षस्थवाक्यानामर्थव्याख्यानपूर्वकम् । आचार्याच्छृवणं केचिच्छृवणं परिचक्षते ॥३॥
अपरे श्रवणं प्राहुराचार्याद्विदितात्मनः । गिरां भाषामयीनां च स्वरूपं बोधयन्ति याः ॥४॥
श्रुत्वा वेदान्तवाक्यानि निजवाक्यानि वा गुरोः । जन्मान्तरीयपुण्येन ज्ञात्वा वोभयमन्तरा ॥५॥
अहम्प्रत्ययमूलं त्वं शरीरादेर्विलक्षणः । इतीदं श्रवणं चित्ताच्छृवणं वस्तुतो भवेत् ॥६॥
वदन्ति मननं केचिच्छास्त्रात्रर्थस्य विचारणम् । वस्तुतो मननं तात स्वरुपस्य विचारणम् ॥७॥
विपर्यासेन रहितं संशयेन च मानद । कैश्चिद्ब्रह्मात्मविज्ञानं निदिध्यासनमुच्यते ॥८॥
विपर्यासेन रहितं संशयेन च यद्यपि । शास्त्रीयमैक्यविज्ञानं केवलं नानुभूतये ॥९॥
संशयश्च विपर्यासो निवार्येते उभावपि । अनुभूत्यैव वासिष्ठ न शास्त्रशतकैरपि ॥१०॥
शास्त्रं श्रद्धावतो हन्यात् संशयं च विपर्ययम् । श्रद्धायाः किञ्चिदूनत्वे पुनरभ्युदयस्तयोः ॥११॥
मूलच्छेदस्तु वासिष्ठ स्वरुपानुभवे तयोः । स्वरुपे संस्थितिस्तस्मान्निदिध्यासनमुच्यते ॥१२॥
बहिस्सञ्चरतस्तात स्वरुपे संस्थितिं विना । अपरोक्षो भवेद्बोधो न शास्त्रशतचर्चया ॥१३॥
स्वरुपसंस्थितिः स्याच्चेत् सहजा कुण्डिनर्षभ । सा मुक्तिः सा परा निष्ठा स साक्षात्कार ईरितः ॥१४॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे श्रवणमनननिदिध्यासन निरूपणं नाम पञ्चदशोऽध्यायः ॥१५
N/A
References : N/A
Last Updated : November 11, 2016
TOP