श्रीरमणगीता - अथ सप्तमोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(आत्मविचाराधिकारितदङ्गनिरूपणम्) भारद्वाजस्य वै कार्ष्णेराचार्यरमणस्य च । अध्याये कथ्यते श्रेष्ठः संवाद इह सप्तमे ॥१॥
कार्ष्णिरुवाच रूपमात्मविचारस्य किं नु किं वा प्रयोजनम् । लभ्यादात्मविचारेण फलं भूयोऽन्यतोऽस्ति वा ॥२॥
भगवानुवाच सर्वासामपि वृत्तीनां समष्टिर्या समीरिता । अहंवृत्तेरमुष्यास्तु जन्मस्थानं विमृश्यताम् ॥३॥
एष आत्मविचारः स्यन्न शास्त्रपरिशीलनम् । अहङ्कारो विलीनः स्यान्मूलस्थानगवेषणे ॥४॥
आत्माभासस्त्वहङ्कारः स यदा सम्प्रलियते । आत्मा सत्योऽभितः पूर्णः केवलः परिशिष्यते ॥५॥
सर्वक्लेशनिवृत्तिः स्यात्फलमात्मविचारतः । फलानामवधिः सोऽयमस्ति नेतोऽधिकं फलम् ॥६॥
अद्भुताः सिद्धयः साध्या उपायान्तरतश्च याः । ताः प्राप्तोऽपि भवत्यन्ते विचारेणैव निवृतः ॥७॥
कार्ष्णिरुवाच एतस्यात्मविचारस्य प्राहुः कमधिकारिणम् । अधिकारस्य सम्पत्तिः किं ज्ञातुं शक्यते स्वयम् ॥८॥
भगवानुवाच उपासनादिभिः शुद्धं प्राग्जमसुकृतेन वा । दृष्टदोषं मनो यस्य शरीरे विषयेषु च ॥९॥
मनसा चरतो यस्य विष्येष्वरुचिर्भृशम् । देहे चानित्यता बुद्धिस्तं प्रहुरधिकारिणम् ॥१०॥
देहे नश्वरताबुद्धेर्वैराग्याद्विषयेषु च । एताभ्यामेव लिङ्गाभ्यां ज्ञेया स्वस्याधिकारिता ॥११॥
कार्ष्णिरुवाच स्नानं सन्ध्यां जपो होमः स्वाध्यायो देवपूजनम् । सङ्कीर्तनं तिर्थयात्रा यज्ञो दानं व्रतानि च ॥१२॥
विचारे साधिकारस्य वैराग्याच्च विवेकतः । किं वा प्रयोजनाय स्युरुत कालविधूतये ॥१३॥
भगवानुवाच
आरम्भिणां क्षीयमाणरागाणामधिकारिणाम् । कर्माण्येतानि सर्वाणि भूयस्यै चितशिद्धये ॥१४॥
यत्कर्म सुकृतं प्रोक्तं मनोवाक्कायसम्भवम् । तत्तु कर्मान्तरं हन्ति मनोवाक्कायसम्भवम् ॥१५॥
अत्यन्तशुद्धमनसां पक्वानामधिकारिणाम् । इदं लोकोपकाराय कर्मजालं भविष्यति ॥१६॥
परेषामुपदेशाय् क्षेमाय च मनीषिणः । पक्वाश्च कर्म कुर्वन्ति भयान्नादेशशास्त्रतः ॥१७॥
विचारप्रतिकूलानि न पुण्यानि नरर्षभ । क्रियमाणान्यसङ्गेन भेदबुद्ध्युपमर्दिना ॥१८॥
न चाकृतानि पापाय पक्वनामधिकारिणाम् । स्वविमर्शो महत्पुण्यं पावनानां हि पावनम् ॥१९॥
दृश्यते द्विविधा निष्ठा पक्वानामधिकारिणाम् । त्याग एकान्तयोगाय परार्थं च क्रियादरः ॥२०॥
कार्ष्णिरुवाच निर्वाणायास्ति चेदन्यो मार्ग आत्मविचारतः । एको वा विविधस्तं मे भगवान्वक्तुमर्हति ॥२१॥
भगवानुवाच एकः प्राप्तुं प्रयतते परः प्राप्तारमृच्छति । चिराय प्रथमो गच्छन् प्राप्तोत्यात्मान्मन्ततः ॥२२॥
एकस्य ध्यानतश्चित्तमेकाकृतिर्भविष्यति । एकाकृतित्वं चित्तस्य स्वरुपे स्थितये भवेत् ॥२३॥
अनिच्छयाप्यतो ध्यायन् विन्दत्यात्मनि संस्थितिम् । विचारकस्तु विज्ञाय भवेदात्मनि संस्थितः ॥२४॥
ध्यायो देवतां मन्त्रमन्यद्वा लक्ष्यमुत्तमम् । ध्येयमात्मात्ममहाज्योतिष्यन्ततो लीनतां व्रजेत् ॥२५॥
गतिरेवं द्वयोरेका ध्यातुश्चात्मविमर्शिनः । ध्यायन्नेकः प्रशान्तः स्यादन्यो विज्ञाय शाम्यति ॥२६॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे आत्मविचाराधिकारितदङ्गनिरूपणं नाम सप्तमोऽध्यायः ॥७

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP