श्रीरमणगीता - अथ सप्तदशोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(ज्ञानप्राप्तिविचारः) पञ्चविंशे तु दिवसे वैदर्भो विदुषं वरः । प्रश्रयानवतो भूत्वा मुनिं भूयोऽपि पृष्टवान् ॥१॥
वैदर्भ उवाच क्रमेणायाति किं ज्ञानं किञ्चित्किञ्चिद्दिने दिने । एकस्मिन्नेव काले किं पूर्णमाभाति भानुवत् ॥२॥
भगवानुवाच क्रमेणायाति न ज्ञानं किञ्चित्किञ्चिद्दिने दिने । अभ्यासपरिपाकेन भासते पूर्णमेकदा ॥३॥
वैदर्भ उवाच
अभ्यासकाले भगवन् वृत्तिरन्तर्बहिस्तथा । यातायातं प्रकुर्वाणा याते किं ज्ञानमुच्यते ॥४॥
भगवानुवाच
अन्तर्याता मतिर्विद्वन्बहिरायाति चेत्पुनः । अभ्यासमेव तामाहुर्ज्ञानं ह्यनुभवोऽच्युतः ॥५॥
वैदर्भ उवाच
ज्ञानस्य मुनिशार्दूल भूमिकाः काश्चिदीरिताः । शास्त्रेषु विदुषां श्रेष्ठैः कथं तासां समन्वयः ॥६॥
भगवानुवाच
शास्त्रोक्ता भूमिकास्सर्वा भवन्ति परबुद्धिगाः । मुक्तिभेदा इव प्राज्ञ ज्ञानमेकं प्रजानताम् ॥७॥
चर्यां देहेन्द्रियादीनां वीक्ष्याब्धानुसारिणीम् । कल्पयन्ति परे भूमिस्तारतम्यं न वस्तुतः ॥८॥
वैदर्भ उवाच प्रज्ञानमेकदा सिद्धं सर्वाज्ञाननिबर्हणम् । तिरोधते किमज्ञानात्सङ्गादङ्कुरितात्पुनः ॥९॥
भगवानुवाच
अज्ञानस्य प्रतिद्वन्दि न पराभूयते पुनः । प्रज्ञानमेकदा सिद्धं भरद्वाजकुलोद्वह ॥१०॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानप्राप्तिविचारो नाम सप्तदशोऽध्यायः ॥१७

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP