नैषधीयचरितम् - द्वाविंशतिः सर्गः
महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.
उपास्य सांध्यं विधिमन्तिमाशारागेण कान्ताधरचुम्बिचेताः ।
अवाप्तवान्सप्तमभूमिभागे भैमीधरं सौधमसौ धरेन्द्रः ॥१॥
प्रत्युद्व्रजन्त्या प्रियया विमुक्तं पर्यङ्कमङ्कस्थितसज्जशय्यम् ।
अध्यास्य तामप्यधिवास्य सोऽयं संध्यामुपश्लोकयति स्म सायम् ॥२॥
विलोकनेनानुगृहाण तावद्दिशं जलानामधिपस्य दारान् ।
अक्षालि लाक्षापयसेव येयमपूरि पङ्कैरिव कुङ्कुमस्य ॥३॥
उच्चैस्तरादम्बरशैलमौलेश्च्युतो रविर्गैरिकगण्डशैलः ।
तस्यैव पातेन विचूर्णितस्य संध्यारजोराजिरिहोज्जिहीते ॥४॥
अस्ताद्रिचूडालयपक्कणालिच्छेकस्य किं कुक्कुटपेटकस्य ।
यामान्तकूजोल्लसितैः शिखौघैर्दिग्वारुणी द्रागरुणीकृतेयम् ॥५॥
पश्य द्रुतास्तंगतसूर्यनिर्यत्करावलीहैङ्गुलवेत्रयात्र ।
निषिध्यमानाहनि संध्ययापि रात्रिप्रतीहारपदेऽधिकारम् ॥६॥
महानटः किं नु सभानुरागे संध्याय संध्यां कुनटीमपीशाम् ।
तनोति तन्वावियतापि तारश्रेणिस्रजा सांप्रतमङ्ग हारम् ॥७॥
भूषास्थिदाम्नस्त्रुटितस्य नाट्यात्पश्योडुकोटीकपटं वहद्भिः ।
दिग्मण्डलं मण्डयतीह खण्डैः सायंनटस्तारकराट्किरीटः ॥८॥
कालः किरातः स्फुटपद्मकस्य वधं व्यधाद्यस्य दिनद्विपस्य ।
तस्येव संध्या रुचिरास्रधारा ताराश्च कुम्भस्थलमौक्तिकानि ॥९॥
संध्यासरागः ककुभो विभागः शिवाविवाहे विभुनायमेव ।
दिग्वाससा पूर्वमवैमि पुष्पसिन्दूरिकापर्वणि पर्यधायि ॥१०॥
सतीमुमामुद्वहता च पुष्पसिन्दूरिकाऋथं वसने सुनेत्रे ।
दिशौ द्विसंधीमभि रागशोभे दिग्वाससोभे किमलम्भिषाताम् ॥११॥
आदाय दण्डं सकलासु दिक्षु योऽयं परिभ्राम्यति भानुभिक्षुः ।
अब्धौ निमज्जन्निव तापसोऽयं संध्याभ्रकाषायमधत्त सायम् ॥१२॥
अस्ताचलेऽस्मिन्निकषोपलाभे संध्याकषोल्लेखपरीक्षितो यः ।
विक्रीय तं हेलिहिरण्यपिण्डं तारावराटानियमादित द्यौः ॥१३॥
पचेलिमं दाडिममर्कबिम्बमुत्तार्य संध्या त्वगिवोज्झितास्य ।
तारामयं बीजभुजादसीयं कालेन निष्ठ्यूतमिवास्थियूथम् ॥१४॥
(ताराततिर्बीजमिवादमादमियं निरष्ठेवि यदस्थियूथम् ।
तन्निष्कुलाकृत्य रविं त्वगेषा संध्योज्झिता पाकिमदाडिमं वा ॥१५॥)
संध्यावशेषे धृतताण्डवस्य चण्डीपतेः पत्पतनाभिघातात् ।
कैलासशैलस्फटिकाश्मखण्डैरमण्डि पश्योत्पतयालुभिर्द्यौः ॥१६॥
इत्थं ह्रिया वर्णनजन्मनेव संध्यामपक्रान्तवतीं प्रतीत्य ।
तारातमोदन्तुरमन्तरिक्षं निरीक्षमाणः स पुनर्बभाषे ॥१७॥
रामेषुमर्मव्रणनार्तिवेगाद्रत्नाकरः प्रागयमुत्पपात ।
ग्राहौघकिर्मीरितमीनकम्बु नभो न भोः कामशरासनभ्रु ॥१८॥
मोहाय देवाप्सरसां विमुक्तास्ताराः शराः पुष्पशरेण शङ्के ।
पञ्चास्यवत्पञ्चशरस्य नाम्नि प्रपञ्चवाची खलु पञ्चशब्दः ॥१९॥
नभोनदीकूलकुलायचक्रीकुलस्य नक्तं विरहाकुलस्य ।
दृशोरपां सन्ति पृषन्ति ताराः पतन्ति तत्संक्रमणानि धाराः ॥२०॥
अमूनि मन्येऽमरनिर्झरिण्या यादांसि गोधा मकरः कुलीरः ।
तत्पूरखेलत्सुरभीतिदूरो मग्नान्यधः स्पष्टमितः प्रतीमः ॥२१॥
स्मरस्य कम्बुः किमयं चकास्ति दिवि त्रिलोकीजयवादनीयः ।
कस्यापरस्योडुमयैः प्रसूनैर्वादित्रशक्तिर्घटते भटस्य ॥२२॥
किं योगिनीयं रजनी रतीशं याजीजिवत्पद्मममूमुहच्च ।
योगर्द्धिमस्या महतीमलग्नमिदं वदत्यम्बरचुम्बि कम्बु ॥२३॥
प्रबोधकालेऽहनि बाधितानि ताराः खपुष्पाणि निदर्शयन्ती ।
निशा ह शून्याध्वनि योगिनीयं मृषा जगद्दृष्टमपि स्फुटाभम् ॥२४॥
एणः स्मरेणाङ्कमयः सपत्राकृतो भवद्भ्रूयुगधन्वना यः ।
मुखे तवेन्दौ लसता स तारा पुष्पालिबाणानुगतो गतोऽयम् ॥२५॥
लोकाश्रयो मण्डपमादिसृष्टिब्रह्माण्डमाभात्यनुकाष्ठमस्य ।
स्वकान्तिरेणूत्करवान्तिमन्ति घुणव्रणद्वारनिभानि भानि ॥२६॥
शचीसपत्न्यां दिशि पश्य भैमी शक्रेभदानद्रवनिर्झरस्य ।
पोप्लूयते वासरसेतुनाशादुच्छृङ्खलः पूर इवान्धकारः ॥२७॥
रामालिरोमावलिदिग्विगाहि ध्वान्तायते वाहनमन्तकस्य ।
यद्वीक्ष्य दूरादिव बिभ्यतः स्वानश्वान्गृहीत्वापसृतो विवस्वान् ॥२८॥
पक्वं महाकालफलं किलासीत्प्रत्यग्गिरेः सानुनि भानुबिम्बम् ।
भिन्नस्य तस्यैव दृषन्निपाताद्बीजानि जानामितमां तमांसि ॥२९॥
पत्युर्गिरीणामयशः सुमेरुप्रदक्षिणाद्भास्वदनादृतस्य ।
दिशस्तमश्चैत्ररथान्यनामपत्रच्छटाया मृगनाभिशेभि ॥३०॥
ऊर्ध्वं धृतं व्योम सहस्ररश्मेर्दिवा सहस्रेण करैरिवासीत् ।
पतत्तदेवांशुमता विनेदं नेदिष्ठतामेति कुतस्तमिस्रम् ॥३१॥
ऊर्ध्वार्पितन्युब्जकटाहकल्पे यद्व्योम्नि दीपेन दिनाधिपेन ।
न्यधायि तद्भूममिलद्गुरुत्वं भूमौ तमः कज्जलमस्खलत्किम् ॥३२॥
ध्वान्तैणनाभ्या शितिनाम्बरेण दिशः शरैः सूनशरस्य तारैः ।
मन्दाक्षलक्ष्या निशि मामनिन्दौ सेर्ष्या भवायान्त्यभिसारिकाभाः ॥३३॥
भास्वन्मयीं मीलयतो दृशं द्राङ्मिथोमिलद्व्यञ्चलमादिपुंसः ।
आचक्ष्महे तन्वि तमांसि पक्ष्म श्यामत्वलक्ष्मीविजितेन्दुलक्ष्म ॥३४॥
विवस्वतानायिषतेव मिश्राः स्वगोसहस्रेण समं जनानाम् ।
गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥३५॥
ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारु मतं मतं मे ।
औलूकमाहुः खलु दर्शनं तत्क्षमं तमस्तत्त्वनिरूपणाय ॥३६॥
म्लानिस्पृशः स्पर्शनिषेधभूमेः सेयं त्रिशङ्कोरिव संपदस्य ।
न किंचिदन्यत्प्रति कौशिकीये दृशौ विहाय प्रियमातनोति ॥३७॥
मूर्धाभिषिक्तः खलु यो ग्रहाणां तद्भासमास्कन्दत ऋक्षशोभम् ।
दिवान्धकारं स्फुटलब्धरूपमालोकतालोकमुलूकलोकः ॥३८॥
दिने मम द्वेषिणि कीदृगेषां प्रचार इत्याकलनाय चारीः ।
छाया विधाय प्रतिवस्तुलग्नाः प्रावेशयत्प्रष्टुमिवान्धकारः ॥३९॥
ध्वान्तस्य तेन क्रियमाणयेत्थं द्विषाः शशी वर्णनयाऽथ रुष्टः ।
उद्यन्नुपाश्लोकि जपारुणश्रीर्नराधिपेनानुनयेच्छयेव ॥४०॥
पश्यन्वृतोऽप्येष निमेषमद्रेरधित्यकाभूमितिरस्करिण्या ।
प्रवर्षति प्रेयसि चन्द्रिकामिश्चकोरचञ्चूचुलुकप्रमिन्दुः ॥४१॥
ध्वान्ते द्रुमान्तानभिसारिकास्त्वं शङ्कस्व सङ्केतनिकेतमाप्ताः ।
छायाच्छलादुज्झितनीलचेला ज्योत्स्नानुकूलैश्चरिता दुकूलैः ॥४२॥
त्वदास्यलक्ष्मीमुकुरं चकोरैः स्वकौमुदीमादयमानमिन्दुम् ।
दृशा निशेन्दीवरचारुभासा पिबोरु रम्भातरुपीवरोरु ॥४३॥
असंशयं सागरभागुदस्थात्पृथ्वीधरादेव मथः पुरायम् ।
अमुष्य यस्मादधुनापि सिन्धौ स्थितस्य शैलादुदयं प्रतीमः ॥४४॥
निजानुजेनातिथितामुपेतः प्राचीपतेर्वाहनवारणेन ।
सिन्दूरसान्द्रे किमकारि मूर्ध्नि तेनारुणश्रीरयमुज्जिहीते ॥४५॥
यत्प्रीतिमद्भिर्वदनैः स्वसाम्यादचुम्बि नाकाधिपनायिकानाम् ।
ततस्तदीयाधरयावयोगादुदेति बिम्बारुणबिम्ब एषः ॥४६॥
विलोमिताङ्कोत्किरणाद्दुरूहदृगादिना दृश्यविलोचनादि ।
विधिर्विधत्ते विधुना वधूनां किमाननं काञ्चनसञ्चकेन ॥४७॥
( अनेन वेधा विपरीतरूपविनिर्मिताङ्कोत्किरणाङ्गकेन ।
त्वदाननं दृश्यदृगाद्यलक्ष्यदृगादिनैवाकृत सञ्चकेन ॥४८॥ )
अस्याः सुराधीशदिशः पुरासीद्यदम्बरं पीतमिदं रजन्या ।
चन्द्रांशुचूर्णव्यतिचुम्बितेन तेनाधुना नूनमलोहितायि ॥४९॥
तानीव गत्वा पितृलोकमेनमरञ्जयन्यानि स जामदग्न्यः ।
छित्त्वा शिरोस्त्राणि सहस्रबाहोर्विस्राणि विश्राणितवान्पितृभ्यः ॥५०॥
अकर्णनासस्त्रपते मुखं ते पश्यन्न सीतास्यमिवाभिरामम् ।
रक्तोस्रवर्षी बत लक्ष्मणाभिभूतः शशी शूर्पणखामुखाभः ॥५१॥
आदत्त दीप्रं मणिमम्बरस्य दत्त्वा यदस्मै खलु सायधूर्तः ।
रज्यत्तुषारद्युतिकूटहेम तत्पाण्डु जातं रजतं क्षणेन ॥५२॥
बालेन नक्तंसमयेन मुक्तं रौप्यं लसद्बिम्बमिवेन्दुबिम्बम् ।
भ्रमिक्रमादुज्झितपट्टसूत्रनेत्रावृतिं मुञ्चति शोणिमानम् ॥५३॥
ताराक्षरैर्यामसिते कठिन्या निशालिखद्व्योम्नि तमःप्रशस्तिम् ।
विलुप्य तामल्पयतोऽरुणेऽपि जातः करे पाण्डुरिमा हिमांशोः ॥५४॥
सितो यदात्रैष तदान्यदेशे चकास्ति रज्यच्छविरुज्जिहानः ।
तदित्थमेतस्य निधेः कलानां को वेद वा रागविरागतत्त्वम् ॥५५॥
कश्मीरजै रश्मिभिरौपसंध्यैर्मृष्टं धृतध्वान्तकुरङ्गनाभि ।
चन्द्रांशुना चन्दनचारुणाङ्गं क्रमात्समालम्भि दिगङ्गनाभिः ॥५६॥
विधिस्तुषारर्तुदिनानि कर्तंकर्तं विनिर्माति तदन्तभित्तैः ।
ज्योत्स्नीर्नचेत्तत्प्रतिमा इमा वा कथं कथं तानि च वामनानि ॥५७॥
इत्युक्तिशेषे स वधूं बभाषे सूक्तिश्रुतासक्तिनिबद्धमौनाम् ।
मुखाभ्यसूयानुशयादिवेन्दौ केयं तव प्रेयसि मूकमुद्रा ॥५८॥
शृङ्गारभृङ्गारसुधाकरेण वर्णस्रजानूपय कर्णकूपौ ।
त्वच्चारुवाणीरसवेणितीरं तृणानुकारः खलु कोषकारः ॥५९॥
अत्रैव वाणीमधुना तवापि श्रोतुं समीहे मधुनः सनाभिम् ।
इति प्रियप्रेरितया तयाथ प्रस्तोतुमारम्भि शशिप्रशस्तिः ॥६०॥
पूरं विधुर्वर्धयितुं पयोधेः शङ्केऽयमेणाङ्कमणिं कियन्ति ।
पयांसि दोग्धि प्रियविप्रयोगसशोककोकीनयने कियन्ति ॥६१॥
ज्योत्स्नामयं रात्रिकलिन्दकन्यापूरानुकारेऽपसृतेऽन्धकारे ।
परिस्फुरन्निर्मलदीप्तिदीपं व्यक्तायते सैकतमन्तरीपम् ॥६२॥
हासत्विषैवाखिलकैरवाणां विश्वं विशङ्केऽजनि दुघ्दमुग्धम् ।
यतो दिवा बद्धमुखेषु तेषु स्थितेऽपि चन्द्रे न तथा चकास्ति ॥६३॥
मृत्युंजयस्यैष वसञ्जटायां न क्षीयते तद्भयदूरमृत्युः ।
न वर्धते च स्वसुधाप्तजीवस्रग्मुण्डराहूद्भवभीरतीव ॥६४॥
त्विषं चकोराय सुधां सुराय कलामपि स्वावयवं हराय ।
ददज्जयत्येष समस्तमस्य कल्पद्रुमभ्रातुरथाल्पमेतत् ॥६५॥
अङ्केणनाभेर्विषकृष्णकण्ठः सुधाप्तशुद्धः कटभस्मपाण्डुः ।
अर्हन्नपीन्दोर्निजमौलिधानान्मृडः कलामर्हति षोडशीं न ॥६६॥
पुष्पायुधस्यास्थिभिरर्धदग्धैः सितासितश्रीरघटि द्विजेन्द्रः ।
स्मरारिणा मूर्धनि यद्धृतोऽपि तनोति तत्तौष्टिकपौष्टिकानि ॥६७॥
मृगस्य लोभात्खलु सिंहिकायाः सूनुर्मृगाङ्कं कवलीकरोति ।
स्वस्यापि दानादमुमङ्कसुप्तं नोज्झन्मुदा तेन च मुच्यतेऽयम् ॥६८॥
सुधाभुजो यत्परिपीय तुच्छमेतं वितन्वन्ति तदर्हमेव ।
पुरा निपीयास्य पितापि सिन्धुरकारि तुच्छः कलशोद्भवेन ॥६९॥
चतुर्दिगन्तीं परिपूरयन्ती ज्योत्स्नैव कृत्स्ना सुरसिन्धुबन्धुः ।
क्षीरोदपूरोदरवासहार्दवैरस्यमेतस्य निरस्यतीयम् ॥७०॥
पुत्री विधोस्ताण्डविकास्तु सिन्धोरश्या चकोरस्य दृशोर्वयस्या ।
तथापि सेयं कुमुदस्य कापि ब्रवीति नामैव हि कौमुदीति ॥७१॥
ज्योत्स्नापयःक्ष्मातटवास्तुवस्तुच्छायाछलच्छिद्रधरा धरायाम् ।
शुभ्रांशुशुभ्रांशकराः कलङ्कनीलप्रभामिश्रविभा विभान्ति ॥७२॥
कियान्यथानेन वियद्विभागस्तमोनिरासाद्विशदीकृतोयम् ।
अद्भिस्तथा लावणसैन्धवीभिरुल्लासिताभिः शितिरप्यकारि ॥७३॥
गुणौ पयोधेर्निजकारणस्य न हानिवृद्धी कथमेतु चन्द्रः ।
चिरेण सोऽयं भजते तु यत्ते न नित्यमम्भोधिरिवात्र चित्रम् ॥७४॥
आदर्शदृश्यत्वमपि श्रितोऽयमादर्शदृश्यां न बिभर्ति मूर्तिम् ।
त्रिनेत्रभूरप्ययमत्रिनेत्रादुत्पादमासादयति स्म चित्रम् ॥७५॥
इज्येव देवव्रजभोज्यऋद्धिः शुद्धा सुधादीधितिमण्डलीयम् ।
हिंसां यथा सैव तथाङ्गमेषा कलङ्कमेकं मलिनं बिभर्ति ॥७६॥
एकः पिपासुः प्रवहानिलस्य च्युतो रथाद्वाहनरङ्कुरेषः ।
अस्त्यम्बरेऽनम्बुनि लेलिहास्यः पिबन्नमुष्यामृतबिन्दुवृन्दम् ॥७७॥
अस्मिञ्शिशौ न स्थित एव रङ्कुर्यूनि प्रियाभिर्विहितोपदायम् ।
आरण्यसंदेश इवौषधीभिरङ्के स शङ्के विधुना न्यधायि ॥७८॥
अस्यैव सेवार्थमुपागतानामास्वादयन्पल्लवमोषधीनाम् ।
धयन्नमुष्यैव सुधाजलानि सुखं वसत्येष कलङ्करङ्कुः ॥७९॥
रुद्रेषुविद्रावितमार्तमारात्तारामृगं व्योमनि वीक्ष्य बिभ्यत् ।
मन्येऽयमन्यः शरणं विवेश मत्वेशचूडामणिमिन्दुमेणः ॥८०॥
पृष्ठेऽपि किं तिष्ठति नाथ रङ्कुर्विधोरङ्क इवेति शङ्का ।
तत्त्वाय तिष्ठस्व मुखे स्व एवं यद्द्वैरथे पृष्ठमपश्यदस्य ॥८०॥
उत्तानमेवास्य वलक्षकुक्षिं देवस्य युक्तिः शशमङ्कमाह ।
तेनाधिकं देवगवेष्वपि स्यां श्रद्धालुरुत्तानगतौ शृउतायाम् ॥८२॥
दूरस्थितैर्वस्तुनि रक्तनीले विलोक्यते केवलनीलिमा यत् ।
शशस्य तिष्ठन्नपि पृष्ठलोम्नां तन्नः परोक्षः खलु रागभागः ॥८३॥
भङ्क्तुं प्रभुर्व्याकरणस्य दर्पं पदप्रयोगाध्वनि लोक एषः ।
शशो यदस्यास्ति शशी ततोऽयमेवं मृगोऽस्यास्ति मृगीति नोक्तः ॥८४॥
यावन्तमिन्दुं प्रतिपत्प्रसूते प्रासावि तावानयमब्धिनापि ।
तत्कालमीशेन धृतस्य मूर्ध्नि विधोरणीयस्त्वमिहास्ति लिङ्गम् ॥८५॥
आरोप्यते चेदिह केतकत्वमिन्दौ दलाकारकलाकलापे ।
तत्संवदत्यङ्कमृगस्य नाभिकस्तूरिक्रा सौरभवासनाभिः ॥८६॥
आसीद्यथाज्यौतिषमेष गोलः शशी समक्षं चिपिटस्तथोऽभूत् ।
स्वर्भानुदंष्ट्रायुगयन्त्रकृष्टपीयूषपिण्याकदशावशेषः ॥८७॥
असावसाम्याद्वितनोः सखा नो कर्पूरमिन्दुः खलु तस्य मित्रम् ।
दग्धौ हि तौ द्वावपि पूर्वरूपाद्यद्वीर्यवत्तामधिकां दधाते ॥८८॥
स्थाने विधोर्वा मदनस्य सख्यं स शंभुनेत्रे ज्वलति प्रलीनः ।
अयं लयं गच्छति दर्शभाजि भास्वन्मये चक्षुषि चादिपुंसः ॥८९॥
नेत्रारविन्दत्वमगान्मृगाङ्कः पुरा पुराणस्य यदेष पुंसः ।
अस्याङ्क एवायमगात्तदानीं कनीनिकेन्दिन्दिरसुन्दरत्वम् ॥९०॥
देवेन तेनैष च काश्यपिश्च साम्यं समीक्ष्योभयपक्षभाजौ ।
द्विजाधिराजौ हरिणाश्रितौ च युक्तं नियुक्तौ नयनक्रियायाम् ॥९१॥
यैरन्वमायि ज्वलनस्तुषारे सरोजिनीदाहविकारहेतोः ।
तदीयधूमौघतया हिमांशौ शङ्के कलङ्कोऽपि समर्थितस्तैः ॥९२॥
स्वेदस्य धाराभिरिवापगाभिर्व्याप्ता जगद्भारपरिश्रमार्ता ।
छायापदेशाद्वसुधा निमज्ज्य सुधाम्बुधावुज्झति खेदमत्र ॥९३॥
ममानुमैवं बहुकालनीलीनिपातनीलः खलु हेमशैलः ।
इन्दोर्जगच्छायमये प्रतीके पीतोऽपि भागः प्रतिबिम्बितः स्यात् ॥९४॥
मावापदुन्निद्रसरोजपूजा श्रियं शशी पद्मनिमीलितेजाः ।
अक्षिद्वयेनैव निजाङ्करङ्कोरलंकृतस्तामयमेति मन्ये ॥९५॥
य एष जागर्ति शशः शशाङ्के बुधो विधत्ते क इवात्र चित्रम् ।
अन्तः किलैतत्पितुरम्बुराशेरासीत्तुरङ्गोऽपि मतङ्गजोऽपि ॥९६॥
गौरे प्रिये भातितमां तमिस्रा ज्यौत्स्नी च नीले दयिता यदस्मिन् ।
शोभाप्तिलोभादुभयोस्तयोर्वा सितासितां मूर्तिमयं बिभर्ति ॥९७॥
वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुत्थितेषु ।
बालेषु ताराकवकेष्विहैकं विकस्वरीभूतमवैमि चन्द्रम् ॥९८॥
दिनावसाने तरणेरकस्मान्निमज्जनाद्विश्वविलोचनानि ।
अस्य प्रसादादुडुपस्य नक्तं तमोविपद्द्वीपवतीं तरन्ति ॥९९॥
किं नाक्ष्णि नोऽपि क्षणिकोऽणुकोऽयं भानस्ति तेजोमयबिन्दुरिन्दुः ।
अत्रेस्तु नेत्रे घटते यदासीन्मासेन नाशी महतो महीयान् ॥१००॥
त्रातुं पतिं नौषधयः स्वशक्त्या मन्त्रेण विप्राः क्षयिणं न शेकुः ।
एनं पयोधिर्मणिभिर्न पुत्रं सुधा प्रभावैर्न निजाश्रयं वा ॥१०१॥
मृषा निशानाथमहः सुधा वा हरेदसौ वा न जराविनाशौ ।
पीत्वा कथं नापरथा चकोरा विधोर्मरीचीनजरामराः स्युः ॥१०२॥
वाणीभिराभिः परिपत्त्रिमाभिर्नरेन्द्रमानन्दजडं चकार ।
मुहूर्तमाश्चर्यरसेन भैमी हैमीव वृष्टिः स्तिमितं च तं सा ॥१०३॥
इतो मुखाद्वागियमाविरासीत्पीयूषधारामधुरेति जल्पन् ।
अचुम्बदस्याः स मुखेन्दुबिम्बं संवावदूकश्रियमम्बुजानाम् ॥१०४॥
प्रियेण साथ प्रियमेवमुक्ता विदर्भभूमीपतिवंशमुक्ता ।
स्मितांशुजालं विततार तारा दिवः स्फुरन्तीव कृतावतारा ॥१०५॥
स्ववर्णना न स्वयमर्हतीति नियुज्य मां त्वन्मुखमिन्दुरूपम् ।
स्थानेऽत्युदास्ते शशिनः प्रशस्तौ धरातुरासाहमिति स्म साह ॥१०६॥
तयेरितः प्राणसमः सुमुख्या गिरं परीहासरसोत्किरां सः ।
भूलोकसारः स्मितवाक् तुषारभानुं भणिष्यन्सुभगां बभाण ॥१०७॥
तवानने जातचरीं निपीय गीतिं तदाकर्णनलोलुपोऽयम् ।
हातुं नु जातु स्पृहयत्यवैमि विधुं मृगस्त्वद्वदनभ्रमेण ॥१०८॥
इन्दोर्भ्रमेणोपगमाय योग्ये जिह्वा तवास्ये विधुवास्तुमन्तम् ।
गीत्या मृगं कर्षतु भन्त्स्यता किं पाशीबभूवे श्रवणद्वयेन ॥१०९॥
आप्यायनाद्वा रुचिभिः सुधांशोः शैत्यात्तमःकाननजन्मनो वा ।
यावन्निशायामथ घर्मदुःस्थस्तावद्व्रजत्यह्नि न शब्दपान्थः ॥११०॥
दूरेऽपि तत्तावकगानपानाल्लब्धावधिः स्वादुरसोपभोगे ।
अवज्ञयैव क्षिपति क्षपायाः पतिः खलु स्वान्यमृतानि भासः ॥१११॥
अस्मिन्न विस्मापयतेऽयमस्मांश्चक्षुर्बभूवैष यदादिपुंसः ।
तदत्रिनेत्रादुदितस्य तन्वि कुलानुरूपं किल रूपमस्य ॥११२॥
आभिर्मृगेन्द्रोदरि कौमुदीभिः क्षीरस्य धाराभिरिव क्षाणेन ।
अक्षालि नीली रुचिरम्बरस्था तमोमयीयं रजनीरजक्या ॥११३॥
पयोमुचां मेचकिमानमुच्चैरुच्चाटयामास ऋतुः शरद्या ।
अपारि वामोरु तयापि किंचिन्न प्रोञ्छितुं लाञ्छनकालिमाष्य ॥११४॥
एकादशैकादशरुद्रमौलीनस्तं यतो यान्ति कलाः किमस्य ।
प्रविश्य शेषास्तु भवन्ति पञ्चपञ्चेषुतूणीमिषवोऽर्धचन्द्राः ॥११५॥
निरन्तरत्वेन निधाय तन्वि तारासहस्राणि यदि क्रियेत ।
सुधांशुरन्यः स कलङ्कमुक्तस्तदा त्वदास्यश्रियमाश्रयेत ॥११६॥
यत्पद्ममादित्सु तवाननीयां कुरङ्गलक्ष्मा च मृगाक्षि लक्ष्मीम् ।
एकार्थलिप्साकृत एष शङ्के शशाङ्कपङ्केरुहयोर्विरोधः ॥११७॥
लब्धं न लेखप्रभुणापि पातुं पीत्वा मुखेन्दोरधरामृतं ते ।
निपीय देवैर्विघसीकृतायां घृणां विधोरस्य दधे सुधायाम् ॥११८॥
एनं स बिभ्रद्विधुमुत्तमाङ्गे गिरीन्द्रपुत्रीपतिरोषधीशम् ।
अश्नाति घोरं विषमब्धिजन्म धत्ते भुञङ्गं च विमुक्तशङ्कः ॥११९॥
नास्य द्विजेन्द्रस्य बभूव पश्य दारान्गुरोर्यातवतोऽपि पातः ।
प्रवृत्तयोऽप्यात्ममयप्रकाशान्नहन्ति न ह्यन्तिमदेहमाप्तान् ॥१२०॥
स्वधाकृतं यत्तनयैः पितृभ्यः श्रद्धापवित्रं तिलचित्रमम्भः ।
चन्द्रं पितृस्थानतयोपतस्थे तदङ्करोचिःखचिता सुधैव ॥१२१॥
पश्योच्चसौधस्थितिसौख्यलक्ष्ये त्वत्केलिकुल्याम्बुनि बिम्बमिन्दोः ।
चिरं निमज्ज्येह सतः प्रियस्य भ्रमेण यच्चुम्बति राजहंसी ॥१२२॥
सौवर्गवर्गैरमृतं निपीय कृतोऽह्नि तुच्छः शशलाञ्छनोऽयम् ।
पूर्णोऽमृतानां निशि तेऽत्र नद्यां मग्नः पुनः स्यात्प्रतिमाच्छलेन ॥१२३॥
समं समेते शशिनः करेण प्रसूनपाणाविह कैरविण्याः ।
विवाहलीलामनयोरिवाह मधुच्छलत्यागजलाभिषेकः ॥१२४॥
विकासिनीलायतपुष्पनेत्रा मृगीयमिन्दीवरिणी वनस्था ।
विलोकते कान्तमिहोपरिष्टान्मृगं तवैषाननचन्द्रभाजम् ॥१२५॥
तपस्यतामम्बुनि कैरवाणां समाधिभङ्गे विबुधाङ्गनायाः ।
अवैमि रात्रेरमताधरोष्ठं मुखं मयूखस्मितचारुचन्द्रम् ॥१२६॥
अल्पाङ्कपङ्का विधुमण्डलीयं पीयूषानीरा सरसी स्मरस्य ।
पानात्सुधानामजलेऽप्यमृत्युं चिह्नं बिभर्त्यत्रभवं स मीनम् ॥१२७॥
तारास्थिभूषा शशिजह्नुजाभृच्चन्द्रांशुपांशुच्छुरितद्युतिर्द्यौः ।
छायापथच्छद्मफणीन्द्रहारा स्वं मूर्तिमाह स्फुटमष्टमूर्तेः ॥१२८॥
एकैव तारा मुनिलोचनस्य जाता किलैतज्जनकस्य तस्य ।
ताताधिका संपदभूदियं तु सप्तान्विता विंशतिरस्य यत्ताः ॥१२९॥
मृगाक्षि यन्मण्डलमेतदिन्दोः स्मरस्य तत्पाण्डुरमातपत्रम् ।
यः पूर्णिमानन्तरमस्य भङ्गः स च्छत्त्रभङ्गः खलु मन्मथस्य ॥१३०॥
दशाननेनापि जगन्ति जित्वा योऽयं पुरापारि न जातु जेतुम् ।
म्लानिर्विधोर्मानिनि संगतेयं तस्य त्वदेकानननिर्जितस्य ॥१३१॥
दृष्टो निजां तावदियन्त्यहानि जयन्नयं पूर्वदशां शशाङ्कः ।
पूर्णस्त्वदास्येन तुलां गतश्चेदनन्तरं द्रक्ष्यसि भङ्गमस्य ॥१३२॥
क्षत्त्राणि रामः परिभूय रामात्क्षत्त्राद्यथाभज्यत स द्विजेन्द्रः ।
तथैव पद्मानभिभूय सर्वांस्त्वद्वक्त्रपद्मात्परिभूतिमेति ॥१३३॥
अन्तः सलक्ष्मीक्रियते सुधांशो रूपेण पश्ये हरिणेन पश्य ।
इत्येष भैमीमददर्शदस्य कदाचिदन्तं स कदाचिदन्तः ॥१३४॥
सागरान्मुनिविलोचनोदराद्यद्द्वयादजनि तेन किं द्विजः ।
एवमेव च भवन्नयं द्विजः पर्यवस्यति विधुः किमत्रिजः ॥१३५॥
ताराविहारभुवि चन्द्रमयीं चकार
यन्मण्डलीं हिमभुवं मृगनाभिवासम् ।
तेनैव तन्वि सुकृतेन मते जिनस्य
स्वर्लोकलोकतिलकत्वमवाप धाता ॥१३६॥
इन्दुं मुखाद्बहुतृणं तव यद्गृणन्ति
नैनं मृगस्त्यजति तन्मृगतृष्णयेव ।
अत्येति मोहमहिमा न हिमांशुबिम्ब-
लक्ष्मीविडम्बिमुखि वित्तिषु पाशवीषु ॥१३७॥
स्वर्भानुना प्रसभपानविभीषिकाभि-
र्दुःखाकृतैनमवधूय सुधासुधांशुम् ।
स्वं निह्नुते शितिमचिह्नममुष्य रागै-
स्ताम्बूलताम्रमवलम्ब्य तवाधरोष्ठम् ॥१३८॥
हर्यक्षीभवतः कुरङ्गमुदरे प्रक्षिप्य यद्वा शशं
जातस्फीततनोरमुष्य हरिता सूतस्य पत्न्या हरेः ।
भङ्गस्त्वद्वदनाम्बुजादजनि यत्पद्मात्तदेकाकिनः
स्यादेकः पुनरस्य स प्रतिभटो यः सिंहिकायाः सुतः ॥१३९॥
यत्पूजां नयनद्वयोत्पलमयीं वेधा व्यधात्पद्मभू-
र्वाक्पारीणरुचिः स चेन्मुखमयं पद्मः प्रिये तावकम् ।
कः शीतांशुरसौ तदा मखमृगव्याधोत्तमाङ्गस्थल-
स्थास्नुस्वस्तटिनीतटावनिवनीवानीरवासी बकः ॥१४०॥
जातं शातक्रतव्यां हरिति विहरतः काकतालीयमस्या-
मश्यामत्वैकमत्यस्थितसकलकलानिर्मितेर्निर्मलस्य ।
इन्दोरिन्दीवराभं बलविजयिगजग्रामणीगण्डपिण्ड-
द्वन्द्वापादानदानद्रवलवलगनादङ्कमङ्के विशङ्के ॥१४१॥
अंशं षोडक्षमामनन्ति रजनीभर्तुः कलां वृत्तय-
त्न्येनं पञ्चदशैव ताः प्रतिपदाद्याराकवर्धिष्णवः ।
या शेषा पुनरुद्धृता तिथिमृते सा किं हरालंकृति-
स्तस्याः स्थानबिलं कलङ्कमिह किं पश्यामि सश्यामिकम् ॥१४२॥
ज्योत्स्नामादयते चकोरशिशुना द्राघीयसी लोचने
लिप्सुर्मूलमिवोपजीवितुमितः संतपर्णात्मीकृतात् ।
अङ्के रङ्कुमयं करोति च परिस्प्रष्टुं तदेवादृत-
स्त्वद्वत्त्रं नयनश्रियाप्यनधिकं मुग्धे विधित्सुर्विधुः ॥१४३॥
लावण्येन तवास्यमेव बहुना तत्पात्रमात्रस्पृशा
चन्द्रः प्रोञ्छनलब्धतार्धमलिनेनारम्भि शेषेण तु ।
निर्माय द्वयमेतदप्सु विधिना पाणी खलु क्षालितौ
तल्लेशैरधुनापि नीरनिलयैरम्भोजमारभ्यते ॥१४४॥
लावण्येन तवाखिलेन वदनं तत्पात्रमात्रस्पृशा
चन्द्रः प्रोञ्छनलब्धतार्धमलिनेनारम्भि शेषेण यः ।
तल्लेखापि शिखामणिः सुषमयाहंकृत्य शभोरभू-
दब्जं तस्य पदं यदस्पृशदतः पद्मं च सन्न श्रियाः ॥१४५॥
सपीतेः संप्रीतेरजनि रजनीशः परिषदा
परीतस्ताराणां दिनमणिमणिग्रावमणिकः ।
प्रिये पश्योत्प्रेक्षाकविभिरभिधानाय सुशकः
सुधामभ्युद्धर्तुं धृतशशकनीलाश्मचषकः ॥१४६॥
आस्यं शीतमयूखमण्डलगुणानाकृष्य ते निर्मितं
शङ्के सुन्दरि शर्वरीपरिवृढस्तेनैष दोषाकरः ।
आदायेन्दुमृगादपीह निहिते पश्यामि सारं दृशौ
त्वद्वक्त्रे सति वा विधौ धृतिमयं दध्यादनन्धः कुतः ॥१४७॥
शुचिरुचिमुडुगणमगणनममुमति-
कलयसि कृशतनु न गगनतटमनु ।
प्रतिनिशशशितलविगलदमृतभृत-
रविरथहयचयखुरबिलकुलमिव ॥१४८॥
उपनतमुडुपुष्पजातमास्ते
भवतु जनः परिचारकस्तवायम् ।
तिलतिलकितपर्पटाभमिन्दुं
वितर निवेद्यमुपास्स्व पञ्चबाणम् ॥१४९॥
स्वर्भानुप्रतिवारपारणमिलद्दन्तौघयन्त्रोद्भव-
श्वभ्रालीपतयालुदीधितिसुधासारस्तुषारद्युतिः ।
पुष्पेष्वासनतत्प्रियापरिणयानन्दाभिषेकोत्सवे
देवः प्राप्तसहस्रधारकलशश्रीरस्तु नस्तुष्टये ॥१५०॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
द्वाविंशो नवसाहसाङ्कचरिते चम्पूकृतोऽयं महा-
काव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्ज्वलः ॥१५१॥
यथा यूनस्तद्वत्परमरमणीयापि रमणी
कुमाराणामन्तःकरणहरणं नैव कुरुते ।
मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः
किमस्या नाम स्यादरसपुरुषानादरभरैः ॥१५२॥
दिशि दिशि गिरिग्रावाणः स्वां वमन्तु सरस्वतीं
तुलयतु मिथस्तामापातस्फुरद्ध्वनिडम्बराम् ।
स परमपरः क्षीरोदन्वान्यदीयमुदीयते
मथितुरमृतं खेदच्छेदि प्रमोदनमोदनम् ॥१५३॥
ग्रन्थग्रन्थिरिह क्वचित्क्वचिदपि न्यासि प्रयत्नान्मया
प्राज्ञंमन्यमना हठेन पठिती मास्मिन्खलः खेलतु ।
श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः समासादय-
त्वेतत्काव्यरसोर्मिमज्जनसुखव्यासज्जनं सज्जनः ॥१५४॥
ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरा-
द्यः साक्षात्कुरुते समाधिषु परं ब्रह्म प्रमोदार्णवम् ।
यत्काव्यं मधुवर्षि धर्षितपरास्तर्केषु यस्योक्तयः
श्रीश्रीहर्षकवेः कृतिः कृतिमुदे तस्याभ्युदीयादियम् ॥१५५॥
N/A
References : N/A
Last Updated : January 19, 2013
TOP