संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| सप्तदश सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - सप्तदश सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत सप्तदश सर्गः Translation - भाषांतर अथारभ्य वृथाप्रायं धरित्रीधावनश्रमम् ।सुराः सरस्वदुल्लोललीला जग्मुर्यथागतम् ॥१॥भैमीं पत्ये भुवस्तस्मै चिरं चित्ते धृतामपि ।विद्यामिव विनीताय न विषेदुः प्रदाय ते ॥२॥कान्तिमन्ति विमानानि भेजिरे भासुराः सुराः ।स्फटिकाद्रेस्तटानीव प्रतिबिम्बा विवस्वतः ॥३॥जवाज्जातेन वातेन बलाकृष्टबलाहकैः ।श्Vअसनात्स्वस्य शीघ्रत्वं रथैरेषामिवाकथि ॥४॥कमाद्दवीयसां तेषां तदानीं समदृश्यत ।स्पष्टमष्टगुणैश्वर्यात्पर्यवस्यन्निवाणिमा ॥५॥ततान विद्युता तेषां रथे पीतपताकताम् ।लब्धकेतुशिखोल्लेखा लेखा जलमुचः क्वचित् ॥६॥पुनःपुनर्मिलन्तीषु पथि पाथोदपङ्क्तिषु ।नाकनाथरथालम्बि बभूवाभरणं धनुः ॥७॥जले जलदजालानां वज्रितज्रानुबिम्बनैः ।जाने तत्कालजैस्तेषां जाताशनिसनाथता ॥८॥स्फुटं सावर्णिवंश्यानां कुलच्छत्रं महीभुजाम् ।चक्रे दण्डभृतश्चुम्बन्दण्डश्चण्डरुचिं क्वचित् ॥९॥नलभीमभुवोः प्रेम्णि विस्मिताया दधौ दिवः ।पाशिपाशः शिरःकम्पस्रस्तभूषश्रवःश्रियम् ॥१०॥पवनस्कन्धमारुह्य नृत्यत्तरकरः शिखी ।अनेन प्रापि भैमीति भ्रमं चक्रे नभःसदाम् ॥११॥तत्कर्णौ भारती दूनौ विरहाद्भीमजागिराम् ।अध्वनि ध्वनिभिर्वैणिरनुकल्पैर्व्यनोदयत् ॥१२॥अथायान्तमवैक्षन्त ते जनौघमसित्विषम् ।तेषां प्रत्युद्गमप्रीत्या मिलद्व्योमेव मूर्तिमत् ॥१३॥अद्राक्षुराजिहानं ते स्मरमग्रेसरं सुराः ।अक्षाविनयशिक्षार्थं कलिनेव पुरस्कृतम् ॥१४॥अगम्यार्थं तृणप्राणाः पृष्ठस्थीकृतभीह्रियः ।शम्भलीभुक्तसर्वस्वा जना यत्पारिपार्श्विकाः ॥१५॥बिभर्ति लोकजिद्भावं बुद्धस्य स्पर्धयेव यः ।यस्येशतुलयेवात्र कर्तृत्वमशरीरिणः ॥१६॥ईश्वरस्य जगत्कृत्स्नं सृष्टिमाकुलयन्निमाम् ।अस्ति योऽस्त्रीकृतस्त्रीकस्तस्य वैरं स्मरन्निव ॥१७॥चक्रे शक्रादिनेत्राणां स्मरः पीतनलश्रियाम् ।अपि दैवतवैद्याभ्यामचिकित्स्यमरोचकम् ॥१८॥यत्तत्क्षिपन्तमुत्कम्पमुत्थायुकमथारुणम् ।बुबुधुर्विबुधाः क्रोधमाक्रोशाक्रोशघोषणम् ॥१९॥यमुपासन्त दन्तौष्ठक्षतासृक्शिष्यचक्षुषः ।भ्रुकुटीफणिनीनादनिभनिश्वासफूत्कृतः ॥२०॥दुर्गं कामाशुगेनापि दुर्लङ्घ्यमवलम्ब्य यः ।दुर्वासोहृदयं लोकान्सेन्द्रानपि दिधक्षति ॥२१॥वैराग्यं यः करोत्युच्चै रञ्जनं जनयन्नपि ।सूते सर्वेन्द्रियाच्छादि प्रज्वलन्नपि यस्तमः ॥२२॥पञ्चेषुविजयाशक्तौ भवस्य क्रुध्यतो जयात् ।येनान्यविगृहीतारिजयकालनयः श्रितः ॥२३॥हस्तौ विस्तारयन्निभ्ये बिभ्यदर्धपथस्थवाक् ।सूचयन्काकुमाकूतैर्लोभस्तत्र व्यलोकि तैः ॥२४॥दैन्यस्तैन्यमया नित्यमत्याहारामयाविनः ।भुञ्जानजनसाकूतपश्या यस्यानुजीविनः ॥२५॥धनिदानाम्बुवृष्टेर्यः पात्रपाणाववग्रहः ।स्वान्दासानिव हा निःस्वाद्विक्रीणीतेऽर्थवत्सु यः ॥२६॥एकद्विकरणे हेतू महापातकपञ्चके ।न तृणे मन्यते कोपकामौ यः पञ्च कारयन् ॥२७॥यः सर्वेन्द्रियसद्मापि जिह्वां बह्ववलम्बते ।तस्यामाचार्यकं याञ्जाबटवे पाटवेऽर्जितुम् ॥२८॥पथ्यां तथ्यामगृह्णन्तमन्धं बन्धुप्रबोधनाम् ।शून्यमाश्लिष्य नोज्झन्तं मोहमैक्षन्त हन्त ते ॥२९॥श्वःश्वः प्राणप्रयाणेऽपि न स्मरन्ति स्मरद्विषाः ।मग्नाः कुटुम्बजम्बाले बालिशा यदुपासिनः ॥३०॥पुंसामलब्धनिर्वाणज्ञानदीपमयात्मनाम् ।अन्तर्म्लापयति व्यक्तं यः कज्जलवदुज्ज्वलम् ॥३१॥ब्रह्मचारिवनस्थायियतयो गृहिणं यथा ।त्रयो यमुपजीवन्ति क्रोधलोभमनोभवाः ॥३२॥जाग्रतामपि निद्रा यः पश्यतामपि योऽन्धता ।शृउते सत्यपि जाड्यं यः प्रकाशेऽपि च यस्तमः ॥३३॥कुरुसैन्यं हरेणेव प्रागलज्जत नाऋजुनः ।हतं येन जयन्कामस्तमोगुणजुषा जगत् ॥३४॥चिह्निताः कतिचिद्देवैः प्राचः परिचयादमी ।अन्ये न केचनाचूडमेनः कञ्चुकमेचकाः ॥३५॥तत्रोद्गूर्ण इवार्णोधौ सैन्येऽभ्यर्णमुपेयुषि ।कस्याप्याकर्णयामासुस्ते वर्णान्कर्णकर्कशान् ॥३६॥ग्रावोन्मज्जनवद्यज्ञफलेति श्रुतिसत्यता ।का श्रद्धा तत्र धीवृद्धाः कामाध्वा यत्खिलीकृतः ॥३७॥केनापि बोधिसत्त्वेन जातं सत्त्वेन हेतुना ।यद्वेदमर्मभेदाय जगदे जगदस्थिरम् ॥३८॥अग्निहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्मपुण्ड्रकम् ।प्रज्ञापौरुषानिःस्वानां जीवो जल्पति जीविका ॥३९॥शुद्धिर्वंशद्वयीशुद्धौ पित्रोः पित्रोर्यदेकशः ।तदानन्तकुलादोषाददोषा जातिरस्ति का ॥४०॥कामिनीवर्गसंसर्गैर्न कः संक्रान्तपातकः ।नाश्नाति स्नाति हा मोहात्कामक्षामव्रतं जगत् ॥४१॥ईर्ष्यया रक्षतो नारीर्धिक्कुलस्थितिदाम्भिकान् ।स्मरान्धत्वाविशेषेऽपि तथा नरमरक्षतः ॥४२॥परदारनिवृत्तिर्या सोऽयं स्वयमनादृतः ।अहल्याकेलिलोलेन दम्भो दम्भोलिपाणिना ॥४३॥गुरुतल्पगतौ पापकल्पनां त्यजत द्विजाः ।येषां वः पत्युरत्युच्चैर्गुरुदारग्रहे ग्रहः ॥४४॥पापात्तापा मुदः पुण्यात्परासोः स्युरिति श्रुतिः ।वैपरीत्यं द्रुतं साक्षात्तदाख्यात बलाबले ॥४५॥संदेहेऽप्यन्यदेहाप्तेर्विवर्ज्यं वृजिनं यदि ।त्यजत श्रोत्रियाः सत्त्रं हिंसादूषणसंशयात् ॥४६॥यस्त्रिवेदीविदां वन्द्यः स व्यासोऽपि जजल्प वः ।रामाया जातकामायाः प्रशस्ता हस्तधारणा ॥४७॥सुकृते वः कथं श्रद्धा सुरते च कथं न सा ।तत्कर्म पुरुषः कुर्याद्येनान्ते सुखमेधते ॥४८॥बालात्कुरुत पापानि सन्तु तान्यकृतानि वः ।सर्वान्बलकृतान्दोषानकृतान्मनुरब्रवीत् ॥४९॥स्वागमार्थेऽपि मा स्थास्मिंस्तीर्थिका विचिकित्सवः ।तं तमाचरतानन्दं स्वच्छन्दं यं यमिच्छथ ॥५०॥श्रुतिस्मृत्यर्थबोधेषु क्वैकमत्यं महाधियाम् ।व्याख्या बुद्धिबलापेक्षा सा नोपेक्ष्य सुखोन्मुखी ॥५१॥यस्मिन्नस्मीति धीर्देहे तद्दाहे वः किमेनसा ।क्वापि तत्किं फलं न स्यादात्मेति परसाक्षिके ॥५२॥मृतः स्मरति जन्मानि मृते कर्मफलोर्मयः ।अन्यभुक्तैर्मृते तृप्तिरित्यलं धूर्तवार्तया ॥५३॥जनेन जनतास्मीति कायं नायं त्वमित्यसौ ।त्याज्यते ग्राह्यते चान्यदहो श्रुत्यातिधूर्तया ॥५४॥एकं संदिग्धयोस्तावद्भावि तत्रेष्टजन्मनि ।हेतुमाहुः स्वमन्त्रादीनसङ्गानन्यथा विटाः ॥५५॥एकस्य विश्वपापेन तापेऽनन्ते निमज्जतः ।कः श्रौतस्यात्मनो भीरो भारः स्याद्दुरितेन ते ॥५६॥किं ते वृन्तहृतात्पुष्पात्तन्मात्रे हि फलत्यदः ।न्यस्य तन्मूर्ध्न्यनन्यस्य न्यास्यमेवाश्मनो यदि ॥५७॥तृणानीव घृणावादान्विधूनय वधूरनु ।तवापि तादृशस्यैव का चिरं जनवञ्चना ॥५८॥कुरुध्वं कामदेवाज्ञां ब्रह्माद्यैरप्यलङ्घिताम् ।वेदोऽपि देवकीयाज्ञा तत्राज्ञाः काधिकार्हणा ॥५९॥प्रलापमपि वेदस्य भागं मन्यध्व एव चेत् ।केनाभग्येन दुःखान्न विधीनपि तथेच्छथ ॥६०॥श्रुतिं श्रद्धत्थ विक्षिप्ताः प्रक्षिप्तां ब्रूथ च स्वयम् ।मीमांसामांसलप्रज्ञास्तां यूपद्विपदापिनीम् ॥६१॥को हि वेदास्त्यमुष्मिन्वा लोक इत्याह या श्रुतिः ।तत्प्रामाण्यादमुं लोकं लोकः प्रत्येतु वा कथम् ॥६२॥धर्माधर्मौ मनुर्जल्पन्नशक्यार्जनवर्जनौ ।व्याजान्मण्डलदण्डार्थी शृअदधायि मुधा बुधैः ॥६३॥व्यासस्यैव गिरा तस्मिञ्श्रद्धेत्यद्धा स्थ तान्त्रिकाः ।मत्स्यस्याप्युपदेश्यान्वः को मत्स्यानपि भाषताम् ॥६४॥पण्डितः पाण्डवानां स व्यासश्चाटुपटुः कविः ।निनिन्द तेषु निन्दत्सु स्तुवत्सु स्तुतवान्न किम् ॥६५॥न भ्रातुः किल देव्यां स व्यासः कामात्समासजत् ।दासीरतस्तदासीद्यन्मात्रा तत्राप्यदेशि किम् ॥६६॥देवैर्द्विजैः कृता ग्रन्थाः पन्था येषां तदादृतौ ।गां नतैः किं न तैर्व्यक्तं ततोऽप्यात्माधरीकृतः ॥६७॥साधुकामुकतामुक्ता शान्तस्वान्तैर्मखोन्मुखैः ।सारङ्गलोचनासारां दिवं प्रेत्यापि लिप्सुभिः ॥६८॥कः शमः क्रियतां प्राज्ञाः प्रियाप्रीतौ परिश्रमः ।भस्मीभूतस्य भूतस्य पुनरागमनं कुतः ॥६९॥उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मनः ।अपवर्गे तृतीयेति भणतः पाणिनेरपि ॥७०॥बिभ्रत्युपरियानाय जना जनितमज्जनाः ।विग्रहायाग्रतः पश्चाद्गत्वरोरभ्रविभ्रमम् ॥७१॥एनसानेन तिर्यक्स्यादित्यादिः का बिभीषिका ।राजिलोऽपि हि राजेव स्वैः सुखी सुखहेतुभिः ॥७२॥हताश्चेद्दिवि दीव्यन्ति दैत्या दैत्यारिणा रणे ।तत्रापि तेन युध्यन्तां हता अपि तथैव ते ॥७३॥स्वं च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम् ।इति स्वोच्छित्तिमुक्त्युक्तिवैदग्धी वेदवादिनाम् ॥७४॥मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् ।गोतमं तमवेक्ष्यैव यथा वित्थ तथैव सः ॥७५॥दारा हरिहरादीनां तन्मग्नमनसो भृशम् ।किं न मुक्ताःकुतः सन्ति कारागारे मनोभुवः ॥७६॥देवश्चेदस्ति सर्वज्ञः करुणाभागवन्ध्यवाक् ।तत्किं वाग्व्ययमात्रान्नः कृतार्थयति नाऋथिनः ॥७७॥भविनां भावयन्दुःखं स्वकर्मजमपीश्वरः ।स्यादकारणवैरी नः कारणादपरे परे ॥७८॥तर्काप्रतिष्ठया साम्यादन्योन्यस्य व्यतिघ्नताम् ।नाप्रामाण्यं मतानां स्यात्केषां सत्प्रतिपक्षवत् ॥७९॥अक्रोधं शिक्षयन्त्यन्यैः क्रोधना ये तपोधनाः ।निर्धनास्ते धनायैव धातुवादोपदेशिनः ॥८०॥किं वित्तं दत्त तुष्टेयमदातरि हरिप्रिया ।दत्त्वा सर्वं धनं मुग्धो बन्धनं लब्धवान्बलिः ॥८१॥दोग्धा द्रोग्धा च सर्वोऽयं धनिनश्चेतसा जनः ।विसृज्य लोभसंक्षोभमेकद्वा यद्युदासते ॥८२॥दैन्यस्यायुष्यमस्तैन्यमभक्ष्यं कुक्षिवञ्चना ।स्वाच्छन्द्यमृच्छतानन्दकन्दलीकन्दमेककम् ॥८३॥इत्थमाकर्ण्य दुर्वर्णं शक्रः सक्रोधतां दधे ।अवोचदुच्चैः कस्कोयं धर्ममर्माणि कृन्तति ॥८४॥लोकत्रयीं त्रयीनेत्रां वज्रवीर्यस्फुरत्करे ।क इत्थं भाषते पाकशासने मयि शासति ॥८५॥वर्णासंकीर्णतायां वा जात्यलोपोऽन्यथापि वा ।ब्रह्महादेः परीक्षासु भङ्गमङ्ग प्रमाणय ॥८६॥ब्राह्मण्यादिप्रसिद्धाया गन्ता यन्नेक्षते जयम् ।तद्विशुद्धिमशेषस्य वर्णवंशस्य शंसति ॥८७॥जलानलपरीक्षादौ संवादो वेदवेदिते ।गलहस्तितनास्तिक्यां धिग्धियं कुरुतेऽनते ॥८८॥सत्येव पतियोगादौ गर्भादेरध्रुवोदयात् ।आक्षिप्तं नास्तिकाः कर्म न किं मर्म भिनत्ति वः ॥८९॥याचतः स्वगयाश्राद्धं प्रेतस्याविश्य कंचन ।नानादेशजनोपज्ञाः प्रत्येषि न कथाः कथम् ॥९०॥नीतानां यमदूतेन नामभ्रान्तेरुपागतौ ।श्रद्धत्से संवदन्तीं न परलोककथां कथम् ॥९१॥जज्वाल ज्वलनः क्रोधादाचख्यौ चाक्षिपन्नमुम् ।किमात्थ रे किमात्थेदमस्मदग्रे निरर्गलम् ॥९२॥महापराकिणः श्रौतधर्मैकबलजीविनः ।क्षणाभक्षणमूर्च्छाल स्मरन्विस्मयसे न किम् ॥९३॥पुत्रेष्टिश्येनकारीरीमुखा दृष्टफला मखाः ।न वः किं धर्मसंदेहमन्देहजयभानवः ॥९४॥दण्डताण्डवनैः कुर्वन्स्फुलिङ्गालिङ्गितं नभः ।निर्ममेऽथ गिरामूर्मीर्भिन्नमर्मेव धर्मराट् ॥९५॥तिष्ठ भोस्तिष्ठ कण्ठोष्ठं कुण्ठयामि हठादयम् ।अपष्ठु पठतः पाठ्यमधिगोष्ठि शठस्य ते ॥९६॥वेदैस्तद्वेषिभिस्तद्वत्स्थिरं मतशतैः कृतम् ।परं कस्ते परं वाचा लोकं लोकायत त्यजेत् ॥९७॥समज्ञानाल्पभूयिष्ठपान्थवैमत्यमेत्य यम् ।लोके प्रयासि पन्थानं परलोके न तं कुतः ॥९८॥स्वकन्यामन्यसात्कर्तुं विश्वानुमतिदृश्वनः ।लोके परत्र लोकस्य कस्य न स्यादृढं मनः ॥९९॥कस्मिन्नपि मते सत्ये हताः सर्वमतत्यजः ।तद्दृष्ट्या व्यर्थतामात्रमनर्थस्तु न धर्मजः ॥१००॥क्वापि सर्वैरवैमत्यात्पातित्यादन्यथा क्वचित् ।स्थातव्यं श्रौत एव स्याद्धर्मे शेषेऽपि तत्कृतेः ॥१०१॥बभाण वरुणः क्रोधादरुणः करुणोज्झितम् ।किं न प्रचण्डात्पाखण्डपाश पाशाद्बिभेषि नः ॥१०२॥मानवाशक्यनिर्माणा कूर्माद्यङ्कबिला शिला ।न श्रद्धापयते मुग्धास्तीर्थिकाध्वनि वः कथम् ॥१०३॥शतक्रतूरुजाद्याख्याविख्यातिर्नास्तिकाः कथम् ।श्रुतिवृत्तान्तसंवादैर्न वश्चमदचीकरत् ॥१०४॥तत्तज्जनकृतावेशान्गयाश्राद्धादियाचिनः ।भूताननुभवन्तोऽपि कथं श्रद्धत्थ न श्रुतीः ॥१०५॥नामभ्रमाद्यमं नीतानथ स्वतनुमागतान् ।संवादवादिनो जीवान्वीक्ष्य मा त्यजत श्रुतीः ॥१०६॥संरम्भैर्जम्भजैत्रादेस्तभ्यमानाद्बलाद्वलन् ।मूर्धबद्धाञ्जलिर्देवानथैवं कश्चिदूचिवान् ॥१०७॥नापराधी पराधीनो जनोऽयं नाकनायकाः ।कालस्याहं कलेर्बन्दी तच्चाटुचटुलाननः ॥१०८॥इति तस्मिन्वदत्येव देवाः स्यन्दनमन्दिरम् ।कलिमाकलयांचक्रुर्द्वापरं चापरं पुरः ॥१०९॥संददर्शोन्नमद्ग्रीवः श्रीबहुत्वकृताद्भुतान् ।तत्तत्पापपरीतस्तान्नाकीयान्नारकीव सः ॥११०॥गुरुरीढावलीढः प्रागभून्नमितमस्तकः ।स त्रिशङ्कुरिवाक्रान्ततेजसेव बिडौजसः ॥१११॥विमुखान्द्रष्टुमप्येनं जनंगम इव द्विजान् ।एष मत्तः सहेलं तानुपेत्य समभाषत ॥११२॥स्वस्ति वास्तोष्पते तुभ्यं शिखिन्नस्ति न खिन्नता ।सखे काल सुखेनासि पाशहस्त मुदस्तव ॥११३॥स्वयंवरमहे भैमीवरणाय त्वरामहे ।तदस्माननुमन्यध्वमध्वने तत्र धाविने ॥११४॥तेऽवज्ञाय तमस्योच्चैरहंकारमकारणम् ।ऊचिरेऽतिचिरेणैनं स्मित्वा दृष्टमुखा मिथः ॥११५॥पुनर्वक्ष्यसि मा मैवं कथमुद्वक्ष्यसे तु सः ।सृष्टवान्परमेष्ठी यं नैष्ठिकब्रह्मचारिणम् ॥११६॥द्रोहिणं द्रुहिणो वेत्तु त्वामाकर्ण्यावकीर्णिनम् ।त्वज्जनैरपि वा धातुः सेतुर्लङ्घ्यस्त्वया न किम् ॥११७॥अतिवृत्तः स वृत्तान्तस्त्रिजगद्युवगर्वनुत् ।आगच्छतामपादानं स स्वयंवर एव नः ॥११८॥नागेषु सानुरागेषु पश्यत्सु दिविषत्सु च ।भूमिपालं नरं भैमी वरं साऽववरद्वरम् ॥११९॥भुजगेशानसद्वेशान्वानरानितरान्नरान् ।अमरान्पामरान्भैमी नलं वेद गुणोज्ज्वलम् ॥१२०॥इति श्रुत्वा स रोषान्धः परमश्चरमं युगम् ।जगन्नाशनिशारुद्रमुद्रस्तानुक्तवानदः ॥१२१॥कयापि क्रीडतु ब्रह्मा दिव्याः स्त्रीर्दीव्यत स्वयम् ।कलिस्तु चरतु ब्रह्म प्रैतु वातिप्रियाय वः ॥१२२॥चर्येव कतमेयं वः परस्मै धर्मदेशिनाम् ।स्वयं तत्कुर्वतां सर्वं श्रोतुं यद्बिभितः श्रुती ॥१२३॥तत्र स्वयंवरेऽलम्भि भुवः श्रीर्नैषाधेन सा ।जगतो ह्रीस्तु युष्माभिर्लाभस्तुल्याभ एव वः ॥१२४॥दूरान्नः प्रेक्ष्य यौष्माकी युक्तेयं वक्त्रवक्रणा ।लज्जयैवासमर्थानां मुखमास्माकमीक्षितुम् ॥१२५॥स्थितं भवद्भिः पश्यद्भिः कथं भोस्तदसांप्रतम् ।निर्दग्धा दुर्विदग्धा किं सा दृशा न ज्वलत्क्रुधा ॥१२६॥महावंशाननादृत्य महान्तमभिलाषुका ।स्वीचकार कथंकारमहो सा तरलं नलम् ॥१२७॥भवादृशैर्दिशामीशैर्मृग्यमाणां मृगेक्षणाम् ।स्वीकुर्वाणः कथं सोढः कृतरीढस्तृणं नलः ॥१२८॥दारुणः कूटमाश्रित्य शिखी साक्षीभवन्नपि ।नावहत्किं तदुद्वाहे कूटसाक्षिक्रियामयम् ॥१२९॥अहो महःसहायानां संभूता भवतामपि ।क्षमैवास्मै कलङ्काय देवस्येवामृतद्युतेः ॥१३०॥सा वव्रे यं तमुत्सृज्य मह्यमीर्ष्याजुषाः स्थ किम् ।ब्रूतागः सद्मनस्तस्माच्छद्मनाद्याच्छिनद्मि तान् ॥१३१॥यतध्वं सहकर्तुं मां पाञ्चाली पाण्डवैरिव ।सापि पञ्चभिरस्माभिः संविभज्यैव भुज्यताम् ॥१३२॥अथापरिवृढा सोढुं मूर्खतां मुखरस्य ताम् ।चक्रे गिरा शराघातं भारती सारतीव्रया ॥१३३॥कीर्तिं भैमीं वरं चास्मै दातुमेवागमन्नमी ।न लीढे धीरवैदग्धीं धीरगम्भीरगाहिनी ॥१३४॥वाग्ग्मिनीं जडजिह्वस्तां प्रतिवक्तुमशक्तिमान् ।लीलावहेलितां कृत्वा देवानेवावदत्कलिः ॥१३५॥प्रौञ्छि वाञ्छितमस्माभिरपि तां प्रति संप्रति ।तस्मिन्नले न लेशोऽपि कारुण्यस्यास्ति नः पुनः ॥१३६॥वृत्ते कर्मणि कुर्मः किं तदा नाभूम तत्र यत् ।कालोचितमिदानीं यः शृणुतालोचितं पुनः ॥१३७॥प्रतिज्ञेयं नले विज्ञाः कलेर्विज्ञायतां मम ।तेन भैमीं च भूमिं च त्याजयामि जयामि तम् ॥१३८॥नैषधेन विरोधं मे चण्डतामण्डितैजसः ।जगन्ति हन्त गायन्तु रवेः कैरववैरवत् ॥१३९॥द्वापरः साधुकारेण तद्विकारमदीदिपत् ।प्रणीय श्रवणे पाणिमवोचन्नमुचे रिपुः ॥१४०॥विस्मेयमतिरस्मासु साधु वैलक्ष्यमीक्षसे ।यद्दत्तेऽल्पमनल्पाय तद्दत्ते ह्रियमात्मनः ॥१४१॥फलसीमां चतुर्वर्गं यच्छतांशोऽपि यच्छति ।नलस्यास्मदुपघ्ना सा भक्तिर्भूतावकेशिनी ॥१४२॥भव्यो न व्यवसायस्ते नले साधुमतौ कले ।लोकपालविशालोऽयं निषाधानां सुधाकरः ॥१४३॥न पश्यामः कलेस्तस्मिन्नवकाशं क्षामाभृति ।निचिताखिलधर्मे च द्वापरस्योदयं वयम् ॥१४४॥सा विनीतअतमा भैमी व्यर्थानर्थग्रहैरहो ।कथं भवद्विधैर्बाध्या प्रमितिर्विभ्रमैरिव ॥१४५॥तं नासत्ययुगं तां वा त्रेता स्पर्धितुमर्हति ।एकप्रकाशधर्माणं न कलिद्वापरौ युवाम् ॥१४६॥करिष्येऽवश्यमित्युक्तिः करिष्यन्नपि दुष्यसि ।दृष्टादृष्टा हि नायत्ताः कार्यीया हेतवस्तव ॥१४७॥द्रोहं मोहेन यस्तस्मिन्नाचरेदचिरेण सः ।तत्पापसंभवं तापमाप्नुयादनयात्ततः ॥१४८॥युगशेष तव द्वेषस्तस्मिन्नेष न सांप्रतम् ।भविता न हितायैतद्वैरं ते वैरसेनिना ॥१४९॥तत्र यामीत्यसज्ज्ञानं राजसं सदिहास्यताम् ।इति तर गतो मा गा राजसंसदि हास्यताम् ॥१५०॥गत्वान्तरा नलं भैमीं नाकस्मात्त्वं प्रवेक्ष्यसि ।षण्णां चक्रमसंयुक्तं पठ्यमानं डकारवत् ॥१५१॥अपरेऽपि दिशामीशा वाचमेतां शचीपतेः ।अन्वमन्यन्त किंत्वेनां नादत्त युगयोर्युगम् ॥१५२॥कलिं प्रति कलिं देवा देवान्प्रत्येकशः कलिः ।सोपहासं समैर्वर्णैरित्थं व्यररचन्मिथः ॥१५३॥तवाऽगमनमेवार्हं वैरसेनौ तया वृते ।उद्वेगेन विमानेन किमनेनापि धावता ॥१५४॥पुरा यासि वरीतुं यामग्र एव तया वृते ।अन्यस्मिन्भवतो हास्यं वृत्तमेतत्त्रपाकरम् ॥१५५॥पत्यौ तया वृतेऽन्यस्मिन्यदर्थं गतवानसि ।भवतः कोपरोधस्तादक्षमस्य वृथारुषः ॥१५६॥यासि स्मरञ्जयन्कान्त्या योजनौघं महार्वता ।समूढस्तं वृतेऽन्यस्मिन्किं न हीस्तेऽत्र पामर ॥१५७॥नलं प्रत्यनपेतार्ति तार्तीयीकतुरीययोः ।युगयोर्युगलं बुद्ध्वा दिवि देवा धियं दधुः ॥१५८॥द्वापरैकपरीवारः कलिर्मत्सरमूर्च्छितः ।नलनिग्राहिणीं यात्रां जग्राह ग्रहिलः किल ॥१५९॥नलेष्टापूर्तसंपूर्तेर्दूरं दुर्गानमुं प्रति ।निषेधन्निषधान्गन्तुं विघ्नः संजघटे घनः ॥१६०॥मण्डलं निषाधेन्द्रस्य चन्द्रस्येवामलं कलिः ।प्राप म्लापयितुं पापः स्वर्भानुरिव संग्रहात् ॥१६१॥कियतापि च कालेन कालः कलिरुपेयिवान् ।भैमीभर्तुरहंमानी राजधानीं महीभुजः ॥१६२॥वेदानुद्धरतां तत्र मुखादाकर्णयन्पदम् ।न प्रसारयितुं कालः कलिः पदमपारयत् ॥१६३॥श्रुतिपाठकवक्त्रेभ्यस्तत्राकर्णयतः क्रमम् ।क्रमः संकुचितस्तस्य पुरे दूरमवर्तत ॥१६४॥तावद्गतिर्धृताटोपा पादयोस्तेन संहिता ।न वेदपाठिकण्ठेभ्यो यावदअश्रावि संहिता ॥१६५॥तस्य होमाज्यगन्धेन नासा नाशमिवागमत् ।तथातत दृशौ नासौ क्रतुधूमकदर्थितः ॥१६६॥अतिथीनां पदाम्भोभिरिमं प्रत्यतिपिच्छिले ।अङ्गणे गृहिणां तत्र खलेनानेन चस्खले ॥१६७॥पुटपाकमसौ प्राप क्रतुशुष्ममहोष्मभिः ।तत्प्रत्यङ्गमिवाकर्ति पूर्तोर्मिव्यजनानिलैः ॥१६८॥पित्ṝणां तर्पणे वर्णैः कीर्णाद्वेश्मनि वेश्मनि ।कालादिव तिलात्कालाद्दूरमत्रसदत्र सः ॥१६९॥स्नात्ṝणां तिलकैर्मेने स्वमन्तर्दीर्णमेव सः ।कृपाणीभूय हृदयं प्रविष्टैरिव तत्र तैः ॥१७०॥पुमांसं मुमुदे तत्र विदन्मिथ्यावदावदम् ।स्त्रियं प्रति तथा वीक्ष्य तमथ म्लानवानयम् ॥१७१॥यज्ञयूपघनां जज्ञौ स पुरं शङ्कुसंकुलाम् ।जनैर्धर्मधनैः कीर्णां व्यालक्रोडीकृतां च ताम् ॥१७२॥स पार्श्वमशकद्गन्तुं न वराकः पराकिणाम् ।मासोपवासिनां छायालङ्घने घनमस्खलत् ॥१७३॥आवाहितां द्विजैस्तत्र गायत्रीमर्कमण्डलात् ।स संनिदधतीं पश्यन्दृष्टनष्टोऽभवद्भिया ॥१७४॥स गृहे गृहिभिः पूर्णे वने वैखानसैर्घने ।यत्याधारेऽमरागारे क्वापि न स्थानमानशे ॥१७५॥क्वापि नापश्यदन्विष्यन्हिंसामात्मप्रियामसौ ।स्वमित्त्रं तत्र न प्राप्नोदपि मूर्खमुखे कलिम् ॥१७६॥हिंसागवीं मखे वीक्ष्य रिरंसुर्धावति स्म सः ।सा तु सौम्यवृषासक्ता खरं दूरान्निरास तम् ॥१७७॥मौनेन व्रतनिष्ठानां स्वाक्रोशं मन्यते स्म सः ।वन्द्यवन्दारुभिर्जज्ञौ स्व शिरश्च पदाहतम् ॥१७८॥ऋषीणां स बृसीः पाणौ पश्यन्नाचामतामपः ।मेने घनैरमी हन्तुं शप्तुं मामद्भिरुद्यताः ॥१७९॥मौञ्जीधृतो धृताषाढानाशशङ्के स वर्णिनः ।रज्ज्वामी बन्द्धुमायान्ति हन्तुं दण्डेन मां ततः ॥१८०॥दृष्ट्वा पुरः पुरोडाशमासीदुत्त्रासदुर्मनाः ।मन्वानः फणिनीस्तत्र स मुमोचास्रु च स्रुचः ॥१८१॥मुमुदे मदिरादानं विदन्नेष द्विजन्मनः ।दृष्ट्वा सौत्रामणीमिष्टिं तं कुर्वन्तमदूयत ॥१८२॥अपश्यद्यावतो वेदविदां ब्रह्माञ्जलीनसौ ।उदडीयन्त तावन्तस्तस्यास्राञ्जलयो हृदः ॥१८३॥स्नातकं घातकं जज्ञे जज्ञौ दान्तं कृतान्तवत् ।वाचंयमस्य दृष्ट्येव यमस्येव बिभाय सः ॥१८४॥स पाखण्डजनान्वेषी प्राप्नुवन्वेदपण्डितान् ।जलार्थीवानलं प्राप्य पापस्तापादपासरत् ॥१८५॥तत्र ब्रह्महणं पश्यन्नतिसंतोषामानशे ।निर्वर्ण्य सर्वमेधस्य यज्वानं ज्वरति स्म सः ॥१८६॥यतिहस्तस्थितैस्तस्य राम्भैरारम्भि तर्जना ।दुर्जनस्याजनि क्लिष्टिर्गृहिणां वेदयष्टिभिः ॥१८७॥मण्डलत्यागमेवैच्छद्वीक्ष्य स्थण्डिलशायिनः ।पवित्रालोकनादेष पवित्रासमविन्दत ॥१८८॥अपश्यञ्जिनमन्विष्यन्नजिनं ब्रह्मचारिणा ।क्षपणार्थी सदीक्षस्य स चाक्षपणमैक्षत ॥१८९॥जपतामक्षमालासु बीजाकर्षणदर्शनात् ।स जीवाकृष्टिकष्टानि विपरीतदृगन्वभूत् ॥१९०॥त्रिसंध्यं तत्र विप्राणां स पश्यन्नघमर्षणम् ।वरमैच्छद्दृशोरेव निजयोरपकर्षणम् ॥१९१॥अद्राक्षीत्तत्र किंचिन्न कलिः परिचितं क्वचित् ।भैमीनलव्यलीकाणुप्रश्नकामः परिभ्रमन् ॥१९२॥तपः स्वाध्याययज्ञानामकाण्डद्विष्टतापसः ।स्वविद्विषां श्रियं तस्मिन्पश्यन्नुपतताप सः ॥१९३॥कम्रं तत्रोपनम्राया विश्वस्या वीक्ष्य तुष्टवान् ।स मम्लौ तं विभाव्याथ वामदेव्याभ्युपासकम् ॥१९४॥वैरिणी शुचिता तस्मै न प्रवेशं ददौ भुवि ।न वेदध्वनिरालम्बमम्बरे विततार वा ॥१९५॥दर्शस्य दर्शनात्कष्टमग्निष्टोमस्य चानशे ।जुघूर्णे पौर्णमासेक्षी सोमं सोऽमनतान्तकम् ॥१९६॥तेनादृश्यन्त वीरघ्ना न तु वीरहणो जनाः ।नापश्यत्सोऽभिनिर्मुक्ताञ्जीवन्मुक्तानवैक्षत ॥१९७॥स तुतोषाश्नतो विप्रान्दृष्ट्वा स्पृष्टपरस्परान् ।होमशेषीभवत्सोमभुजस्तान्वीक्ष्य दूनवान् ॥१९८॥श्रुत्वा जनं रजोजुष्टं तुष्टिं प्राप्नोज्झटित्यसौ ।तं पश्यन्पावनस्नानावस्थं दुःस्थस्ततोऽभवत् ॥१९९॥अधावत्क्वापि गां वीक्ष्य हन्यमानामयं मुदा ।अतिथिभ्यस्तथा बुद्ध्वा मन्दो मन्दं न्यवर्तत ॥२००॥हृष्टवान्स द्विजं दृष्ट्वा नित्यनैमित्तिकत्यजम् ।यजमानं निरूप्यैनं दूरं दीनमुखोऽद्रवत् ॥२०१॥आननन्द निरीक्ष्यायं पुरे तरात्मघातिनम् ।सर्वस्वारस्य यज्वानमेनं दृष्ट्वाथ विव्यथे ॥२०२॥क्रतौ महाव्रते पश्यन्ब्रह्मचारीत्वरीरतम् ।जज्ञे यज्ञक्रियामज्ञः स भण्डाकाण्डताण्डवम् ॥२०३॥यज्वभार्याश्वमेधाश्वलिङ्गालिङ्गिवराङ्गताम् ।दृष्ट्वाचष्ट स कर्तारं शृउतेर्भण्डमपण्डितः ॥२०४॥अथ भीमजया जुष्टं व्यलोकत कलिर्नलम् ।दुष्टदृग्भिर्दुरालोकं प्रभयेव प्रभाप्रभुम् ॥२०५॥तयोः सौहार्दसान्द्रत्वं पश्यञ्शल्यमिवानशे ।मर्मच्छेदमिवानर्च्छ स तन्नर्मोर्मिभिर्मिथः ॥२०६॥अमर्षादात्मनो दोषात्तयोस्तेजस्वितागुणात् ।स्प्रष्टुं दृशाप्यनीशस्तौ तस्मादप्यचलत्कलिः ॥२०७॥अगच्छदाश्रयान्वेषी नलद्वेषी स निःश्वसन् ।अभिरामं गृहारामं तस्य रामसमश्रियः ॥२०८॥रक्षिलक्षवृतत्वेन बाधनं न तपोधनैः ।मेने मानी मनाक्तत्र स्वानुकूलं कलिः किल ॥२०९॥दलपुष्पफलैर्देवद्विजपूजाभिसंधिना ।स नलेनार्जितान्प्राप तत्र नाक्रमितुं द्रुमान् ॥२१०॥अथ सर्वोद्भिदासत्तिपूरणाय स रोपितम् ।बिभीतकं ददर्शैकं कुटं धर्मेऽप्यकर्मठम् ॥२११॥स तं नैषधसौधस्य निकटं निष्कुटध्वजम् ।बहु मेने निजं तस्मिन्कलिरालम्बनं वने ॥२१२॥निष्पदस्य कलेस्तत्र स्थानदानाद्बिभीतकम् ।कलिद्रुमः परं नासीदासीत्कल्पद्रुमोऽपि सः ॥२१३॥ददौ पदेन धर्मस्य स्थातुमेकेन यत्कलिः ।एकः सोऽपि तदा तस्य पदं मन्येऽमिलत्ततः ॥२१४॥उद्भिद्विरचितावासः कपोतादिव तत्र सः ।राज्ञः साग्रेर्द्विजादस्मात्संतापं प्राप दीक्षितात् ॥२१५॥बिभीतकमधिष्ठाय तथाभूतेन तिष्ठता ।तेन भीमभुवोऽभीकः स राजर्षिरधर्षि न ॥२१६॥तमालम्बनमासाद्य वैदर्भीनिषाधेशयोः ।कलुषं कलिरन्विष्यन्नवात्सीद्वत्सरान्बहून् ॥२१७॥यथासीत्कानने तत्र विनिद्रकलिका लता ।तथा नलच्छलासक्तिविनिद्रकलिकालता ॥२१८॥दोषं नलस्य जिज्ञासुर्बभ्राम द्वापरः क्षितौ ।अदोषः कोऽपि लोकस्य मुखेऽस्तीति दुराशया ॥२१९॥अमुष्मिन्नारामे सततनिपतद्दोहदतयाप्रसूनैरुन्निद्रैरनिशममृतांशुप्रतिभटे ।असौ बद्धालम्बः कलिरजनि कादम्बविहग-च्छदच्छायाभ्यङ्गोचितरुचितया लाञ्छनमृगः ॥२२०॥स्फारे तादृशि वैरसेनिनगरे पुण्यैः प्रजानां घनंविघ्नं लब्धवअश्चिरादुपनतिस्तस्मिन्किलाभूत्कलेः ।एतस्मिन्पुनरन्तरेऽन्तरमितानन्दः स भैमीनला-वाराद्धुं व्यधित स्मरः श्रुतिशिखावन्दारुचूडं धनुः ॥२२१॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।यातः सप्तदशः स्वसुः सुसदृशि छिन्दप्रशस्तेर्महा-काव्ये तद्भुवि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥२२२॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP