संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| विंशतिः सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - विंशतिः सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत विंशतिः सर्गः Translation - भाषांतर सौधाद्रिकुट्टिमानेकधातुकाधित्यकातटम् ।स प्राप रथपाथोभृद्वातजातजवो दिवः ॥१॥ततः प्रत्युदगाद्भैमी कान्तमायान्तमन्तिकम् ।प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम् ॥२॥स दूरमादरं तस्या वदने मदनैकदृक् ।दृष्टमन्दाकिनीहेमारविन्दश्रीरविन्दत ॥३॥तेन स्वर्देशसंदेशमर्षितं सा करोदरे ।बभ्राजे बिभ्रती पद्मं पद्मेवोन्निद्रपद्मदृक् ॥४॥प्रियेणाल्पमपि प्रत्तं बहु मेनेतरामसौ ।एकलक्षतया दध्यौ यत्तमेकवराटकम् ॥५॥प्रेयसावादि सा तन्वि त्वदालिङ्गनविघ्नकृत् ।समाप्यतां विधिः शेषः क्लेशश्चेतसि चेन्न ते ॥६॥क्वैतावान्नर्ममर्माविद्विद्यते विधिरद्य ते ।इति तं मनसा रोषादवोचद्वचसा न सा ॥७॥क्षणविच्छेदकादेव विधेर्मुग्धे विरज्यसि ।विच्छेत्ता न चिरं त्वेति हृदाह स्म तदा कलिः ॥८॥सावज्ञेवाथ सा राज्ञः सखीं पद्ममुखीमगात् ।लक्ष्मीः कुमुदकेदारादारादम्भोजिनीमिव ॥९॥ममासावपि मा संभूत्कलिद्वापरवत्परः ।इतीव नित्यसत्रेतां स त्रेतां पर्यतूतुषत् ॥१०॥क्रियां प्राह्णेतनीं कृत्वा निषेधन्पाणिना सखीम् ।कराभ्यां पृष्ठगस्तस्या न्यमिमीलदसौ दृशौ ॥११॥दमयन्त्या वयस्याभिः सहास्याभिः समीक्षितः ।प्रसृतिभ्यामिवायामं मापयन्प्रेयसीदृशोः ॥१२॥तर्कितालि त्वमित्यर्धवाणीका पाणिमोचनात् ।ज्ञातस्पर्शान्तरा मौनमानशे मानसेविनी ॥१३॥सावादि सुतनुस्तेन कोपस्ते नायमौचिती ।त्वां प्रापं यत्प्रसादेन प्रिये तन्नाद्रिये तपः ॥१४॥निशि दास्यं गतोऽपि त्वां स्नात्वा यन्नाभ्यवीवदम् ।तं प्रवृत्तासि मन्तुं चेन्मन्तुं तद्वद वन्द्यसे ॥१५॥इत्येतस्याः पदासत्त्यै पत्यैष प्रेरितौ करौ ।रुद्ध्वा सकोपं सातङ्कं तं कटाक्षैरमूमुहत् ॥१६॥अवोचत ततस्तन्वीं निषधानामधीश्वरः ।तदपाङ्गचलत्तारझलत्कारवशीकृतः ॥१७॥कटाक्षकपटारब्धदूरलङ्घनरंहसा ।दृशा भीत्या निवृत्तं ते कर्णकूपं निरूप्य किम् ॥१८॥सरोषापि सरोजाक्षि त्वमुदेषि मुदे मम ।तप्तापि शतपत्रस्य सौरभायैव सौरभा ॥१९॥छेत्तुमिन्दौ भवद्वक्त्रबिम्बविभ्रमविभ्रमम् ।शङ्के शशाङ्कमानङ्के भिन्नभिन्नविधिर्विधिः ॥२०॥ताम्रपर्णीतटोत्पन्नैर्मौक्तिकैरिन्दुकुक्षिजैः ।बद्धस्पर्धतरा वर्णाः प्रसन्नाः स्वादवस्तव ॥२१॥त्वद्गिरः क्षीरपाथोधेः सुधयैव सहोत्थिताः ।अद्ययावदहो धावद्दुग्धलेपलवस्मिताः ॥२२॥पूर्वपर्वतमाश्लिष्टचन्द्रिकश्चन्द्रमा इव ।अलंचक्रे स पर्यङ्कमङ्कसंक्रमिताप्रियः ॥२३॥प्रावृडारम्भणाम्भोदः स्निग्धां द्यामिव स प्रियाम् ।परिरभ्य चिरायास विश्लेषायासमुक्तये ॥२४॥चुचुम्बास्यमसौ तस्या रसमग्नः श्रितस्मितम् ।नभोमणिरिवाम्भोजं मधुमध्यानुबिम्बितः ॥२५॥अथाहूय कलां नाम पाणिना स प्रियासखीम् ।पुरस्ताद्वेशितामूचे कर्तुं नर्मणि साक्षिणीम् ॥२६॥कस्मादस्माकमब्जास्य वयस्या दयते न ते ।आसक्ता भवतीष्वन्यं मन्ये न बहु मन्यते ॥२७॥अन्वग्राहि मया प्रेयान्निशि स्वोपनयादिति ।न विप्रलभते तावदालीरियमलीकवाक् ॥२८॥आह स्मैषा नलादन्यं न जुषे मनसेति यत् ।यौवनानुमितेनास्यास्तन्मृषाभून्मनोभुवा ॥२९॥आस्यसौन्दर्यमेतस्याः शृणुमो यदि भाषसे ।तद्धि लज्जानमन्मौलेः परोक्षमधुनापि नः ॥३०॥पूर्णयैव द्विलोचन्या सैषालीरवलोकते ।द्राग्दृगन्ताणुना मां तु मन्तुमन्तमिवेक्षते ॥३१॥न लोकते यथेदानीं मामियं तेन कल्पये ।योऽहं दूत्येऽनया दृष्टः सोऽपि व्यस्मारिषीडृशा ॥३२॥रागं दर्शयते सैषा वयस्याः सूनृतामृतैः ।मम त्वमिति वक्तुं मां मौनिनी मानिनी पुनः ॥३३॥कां नामन्त्रयते नाम नामग्राहमियं सखीम् ।कले नलेति नास्माकीं स्पृशत्याह्वां न जिह्वया ॥३४॥अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये ।अवकाशलवोऽप्यस्ति नात्र कुत्र बिभर्तु नः ॥३५॥अधिगत्येदृगेतस्या हृदयं मृदुतामुचोः ।प्रतीम एव वैमुख्यं कुचयोर्युक्तवृत्तयोः ॥३६॥इति मुद्रितकण्ठेऽस्मिन्सोल्लुण्ठमभिधाय ताम् ।दमयन्तीमुखाधीतस्मितयाऽसौ तया जगे ॥३७॥भावितेयं त्वया साधु नवरागा खलु त्वयि ।चिरंतनानुरागार्हं वर्तते नः सखीः प्रति ॥३८॥स्मरशास्त्रविदा सेयं नवोढा नस्त्वया सखी ।कथं संभुज्यते बाला कथम्स्मासु भाषताम् ॥३९॥नासत्यवदनं देव त्वां गायन्ति जगन्ति यम् ।प्रिया तस्य सरूपा स्यादन्यथालपना न ते ॥४०॥मनोभूरस्ति चित्तेऽस्याः किंतु देव त्वमेव सः ।त्वदवस्थितिभूर्यस्मान्मनः सख्या दिवानिशम् ॥४१॥सतस्तेऽथ सखीचित्ते प्रतिच्छाया स मन्मथह् ।त्वयास्य समरूपत्वमतनोरन्यथा कथम् ॥४२॥कः स्मरः कस्त्वमत्रेति संदेहे शोभयोभयोः ।त्वय्येवार्थितया सेयं धत्ते चित्तेऽथवा युवाम् ॥४३॥त्वयि न्यस्तस्य चित्तस्य दुराकर्षत्वदर्शनात् ।शाङ्कया पङ्कजाक्षी त्वां दृगंशेन स्पृशत्यसौ ॥४४॥विलोकनात्प्रभृत्यस्या लग्न एवासि चक्षुषोः ।स्वेनालोकय शङ्का चेत्प्रत्ययः परवाचि कः ॥४५॥परीरम्भेऽनयारभ्य कुचकुङ्कुमसंक्रमम् ।त्वयि मे हृदयस्यैवं राग इत्युदितैव वाक् ॥४६॥मनसायं भवन्नामकामसूक्तजपव्रती ।अक्षसूत्रं सखीकण्ठश्चुम्बत्येकावलिच्छलात् ॥४७॥अध्यासिते वयस्याया भवता महता हृदि ।स्तनावन्तरसंमान्तौ निष्क्रान्तौ ब्रूमहे बहिः ॥४८॥कुचौ दोषोज्झितावस्याः पीडितौ व्रणितौ त्वया ।कथं दर्शयतामास्यं बृहन्तावावृतौ ह्रिया ॥४९॥इत्यसौ कलया सूक्तैः सिक्तः पीयूषवर्षिभिः ।ईदृगेवेति पप्रच्छ प्रियामुन्नमिताननाम् ॥५०॥बभौ च प्रेयसीवक्त्रं पत्युरुन्नमयन्करः ।चिरेण लब्धसंधानमरविन्दमिवेन्दुना ॥५१॥ह्रीणा च स्मयमाना च नमयन्ती पुनर्मुखम् ।दमयन्ती मुदे पत्युरुच्चैरप्यभवत्तदा ॥५२॥भूयोऽपि भूपतिस्तस्याः सखीमाह स्म सस्मितम् ।परिहासविलासाय स्पृहयालुः सहप्रियः ॥५३॥क्षन्तुं मन्तुं दिनस्यास्य वयस्येयं व्यवस्यतात् ।निशीव निशिधात्वर्थं यदाचरति नात्र नः ॥५४॥दिनेनास्या नुखस्येन्दुः सखा यदि तिरस्कृतः ।तत्कृता शतपत्त्राणां तन्मित्त्राणामपि श्रियः ॥५५॥लज्जितानि जितान्येव मयि क्रीडितयाऽनया ।प्रत्यावृत्तानि तत्तानि पृच्छ संप्रति कं प्रति ॥५६॥निशि दष्टाधरायापि सैषा मह्यं न रुष्यतु ।क्व फलं दशते बिम्बीलता कीराय कुप्यति ॥५७॥सृणीपदसुचिह्ना श्रीश्चोरिता कुम्भिकुम्भयोः ।पश्यैतस्याः कुचाभ्यां तन्नृपस्तौ पीडयानि न ॥५८॥अधरामृतपानेन ममास्यमपराध्यतु ।मूर्ध्ना किमपराद्धं यः पादौ नाप्नोति चुम्बितुम् ॥५९॥अपराद्धं भवद्वाणीश्राविणा पृच्छ किं मया ।वीणाह परुषं यन्मां कलकण्ठी च निष्ठुरम् ॥६०॥सेयमालिजने स्वस्य त्वयि विश्वस्य भाषताम् ।ममताऽनुमताऽस्मासु पुनः प्रस्मर्यते कुतः ॥६१॥अथोपवदने भैम्याः स्वकर्णोपनयच्छलात् ।संनिधाप्य श्रुतौ तस्या निजास्यं सा जगाद ताम् ॥६२॥अहो मयि रहोवृत्तं धूर्ते किमपि नाभ्यधाः ।आस्स्व सभ्यमिमं तत्ते भूपमेवाभिधापये ॥६३॥स्मरशास्त्रमधीयाना शिक्षितासि मयैव यम् ।अगोऽपि सोऽपि कृत्वा किं दाम्पत्यव्यत्ययस्त्वया ॥६४॥मौनिन्यामेव सा तस्यां तदुक्तीरिव शृण्वती ।वादं वादं मुहुश्चक्रे हुंहुमित्यन्तरान्तरा ॥६५॥अथासावभिसृत्यास्था रतिप्रागल्भ्यशंसिनी ।सख्या लीलाम्बुजाघातमनुभूयालपन्नृपम् ॥६६॥दृष्टं दृष्टं महाराज त्वदर्थाभ्यर्थनकुधा ।यत्ताडयति मामेवं यद्वा तर्जयति भ्रुवा ॥६७॥वदत्यचिह्नि चिह्नेन त्वया केनैष नैषधः ।शङ्के शक्रः स्वयं कृत्वा मायामायातवानियम् ॥६८॥स्वर्णदीस्वर्णपद्मिन्याः पद्मदानं निदानताम् ।नयतीयं त्वदिन्द्रत्वे दिवश्चागमनं च ते ॥६९॥भाषते नैषधच्छायामायामायि मया हरेः ।आह चाहमहल्यायां तस्याकर्णितदुर्नया ॥७०॥संभावयति वैदर्भी दर्भाग्राभमतिस्तव ।जम्भारित्वं कराम्भोजाद्दम्भोलिपरिरम्भिणः ॥७१॥अनन्यसाक्षिकाः साक्षात्तदाख्याय रहःक्रियाः ।शङ्कातङ्कं तुदैतस्या यदि त्वं तत्त्वनैषधः ॥७२॥इति तत्सुप्रयुक्तत्वनिह्नुतीकृतकैतवाम् ।वाचमाकर्ण्य तद्भावे संशयालुः शशंस सः ॥७३॥स्मरसि छद्मनिद्रालुर्मया नाभौ शयार्पणात् ।यदानन्दोल्लसल्लोमा पद्मनाभीभविष्यसि ॥७४॥आनासि ह्रीभयव्यग्रा यन्नवे मन्मथोत्सवे ।सामिभुक्तैव मुक्तासि मृद्वि खेदभयान्मया ॥७५॥स्मर जित्वाजिमेतस्त्वां करे मत्पदधाविनि ।अङ्गुलीयुगयोगेन यदाश्लिक्षं जने घने ॥७६॥वेत्थ मानेपि मत्त्यागदूनां स्वं मां च यन्मिथः ।मद्दृष्टालिख्य पश्यन्ती व्यबाधा रेखयाऽन्तरा ॥७७॥प्रस्मृतं न त्वया तावद्यन्मोहनविमोहितः ।अतृप्तोऽधरपानेषु रसनामपिबं तव ॥७८॥त्वत्कुचार्द्रनखाङ्कस्य मुद्रामालिङ्गनोत्थिताम् ।स्मरेः स्वहृदि यत्स्मेरसखीः शिल्पं तवाब्रवम् ॥७९॥त्वयान्याः क्रीडयन्मध्येमधुगोष्ठि रुषेक्षितः ।वेत्सि तासां पुरो मूर्ध्ना त्वत्पादे यत्किलास्खलम् ॥८०॥वेत्थ मय्यागते प्रोष्य यत्त्वां पश्यति हार्दिनि ।अचुम्बीरालिमालिङ्ग्य तस्यां केलिमुदा किल ॥८१॥जागर्ति तत्र संस्कारः स्वमुखाद्भवदानने ।विक्षिप्यायाचिषं यत्ता न्यायात्ताम्बूलफालिकाः ॥८२॥चित्ते तदस्ति कच्चित्ते नखजं यत्क्रुधा क्षतम् ।प्राग्भावाधिगमागस्स्थे त्वया शम्बाकृतं क्षतम् ॥८३॥स्वदिग्विनिमयेनैव निशि पार्श्वविवर्तिनोः ।स्वप्नेष्वप्यस्तवैमुख्ये सख्ये सौख्यं स्मरावयोः ॥८४॥क्षणं प्राप्य सदस्येव नृणां विमनितेक्षणम् ।दर्शिताधरमद्दंशा ध्याय यन्मामतर्जयः ॥८५॥तथावलोक्य लीलाब्जनालभ्रमणविभ्रमात् ।करौ योजयताध्ये(धी)हि यन्मयासि प्रसादिता ॥८६॥ताम्बूलदानमन्यस्तकरजं करपङ्कजे ।मम न स्मरसि प्रायस्तव नैव स्मरामि तत् ॥८७॥तदध्ये (धी) हि मृषोद्यं मां हित्वा यत्त्वं गता सखीः ।तत्रापि मे गतस्याग्रे लीलयैवाच्छिनस्तृणम् ॥८८॥स्मरसि प्रेय्सि प्रायो यद्द्वितीयरतासहा ।शुचिरात्रीत्युपालब्धा त्वं मयापिकनादिनी ॥८९॥भुञ्जानस्य नवं निम्बं परिवेविषती मधौ ।सपत्नीष्वपि मे रागं संभाव्य स्वरुषः स्मरेः ॥९०॥स्मर शार्करमास्वाद्य त्वया राद्धमिति स्तुवन् ।स्वनिन्दारोषरक्तात्तु यदभैषं तवाधरात् ॥९१॥मुखादारभ्य नाभ्यन्तं चुम्बं चुम्बमतृप्तवान् ।न प्रापं चुम्बितुं यत्ते धन्या तच्चुम्बतु स्मृतिः ॥९२॥कमपि स्मरकेलिं तं स्मर यत्र भवन्निति ।मया विहितसंबुद्धिर्वीडिता स्मितवत्यसि ॥९३॥नीलदाचिबुकं यत्र मदाक्तेन श्रमाम्बुना ।स्मर हारमणौ दृष्टं स्वमास्यं तत्क्षणोचितम् ॥९४॥स्मर तन्नखमत्रोरौ कस्तेधा(दा)दिति ते मृषा ।ह्रीदैवतमलुम्पं यद्व्रतं रतपरोक्षणम् ॥९५॥वनकेलौ स्मराश्वत्थदलं भूपतितं प्रति ।देहि मह्यमुदस्येति मद्गिरा व्रीडितासि यत् ॥९६॥इति तस्या रहस्यानि प्रिये शंसति सान्तरा ।पाणिभ्यां पिदधे सख्याः श्रवसी ह्रीवशीकृता ॥९७॥कर्णौ पीडयती सख्या वीक्ष्य नेत्रासितोत्पले ।अप्यपीडयतां भैमीकरकोकनदे तु (नु) तौ ॥९८॥तत्प्रविष्टं सखीकर्णौ पत्युरालपितं ह्रिया ।पिदधाविव वैदर्भी स्वरहस्याभिसंधिना ॥९९॥तमालोक्य प्रियाकेलिं नले सोत्प्रासहासिनि ।आरात्तत्त्वमबुद्ध्वापि सख्यः सिष्मियिरेऽपराः ॥१००॥दम्पत्योरुपरि प्रीत्या ता धराप्सरसस्तयोः ।ववृषुः स्मितपुष्पाणि सुरभीणि मुखानिलैः ॥१०१॥तदास्यहसिताज्जातं स्मितमासामभासत ।आलोकादिव शीतांशोः कुमुदश्रेणिजृम्भणम् ॥१०२॥प्रत्यभिज्ञाय विज्ञाथ स्वरं हासविकस्वरम् ।सख्यास्तासु स्वपक्षायाः कला जातबलाऽजनि ॥१०३॥साहूयोच्चैरथोचे तामेहि स्वर्गेण वञ्चिते ।पिब वाणी सुधावेणीर्नृपचन्द्रस्य सुन्दरि ॥१०४॥साशृणोत्तस्य वाग्भागमनत्यासत्तिमत्यपि ।कल्पग्रामाल्पनिर्घोषं बदरीव कृशोदरी ॥१०५॥अथ स्वपृष्ठनिष्ठायाः शृण्वत्या निषधाभिधाः ।नलमौलिमणौ तस्या भावमाकलयत्कला ॥१०६॥प्रतिबिम्बेक्षितैः सख्या मुखाकूतैः कृतानुमा ।तद्द्रीडाद्यनुकुर्वाणा शृण्वतीवान्वमायि सा ॥१०७॥कारं कारं तथाकारमूचे साऽशृणवंतमाम् ।मिथ्या वेत्थ गिरश्चैतद्व्यर्थाः स्युर्मम देवताः ॥१०८॥मत्कर्णभूषणानां तु राजन्निबिडपीडनात् ।व्यथिष्यमाणपाणिस्ते निषेद्धुमुचिता प्रिया ॥१०९॥इति सा मोचयांचक्रे कर्णौ सख्याः करग्रहात् ।पत्युराश्रवतां यान्त्यामुधायासनिषेधिनः ॥११०॥श्रुतिसंरोधजध्वानसंततिच्छेदतालताम् ।जगाम झटिति त्यागस्वनस्तत्कर्णयोस्ततः ॥१११॥सापसृत्य कियद्दूरं मुमुदे सिष्मिये ततः ।इदं च तां सखीमेत्य ययाचे काकुभिः कला ॥११२॥अभिधास्ये रहस्यं ते यदश्रावि मयानयोः ।वर्णयाकर्णितं मह्यमेह्यालि विनिमीयताम् ॥११३॥वयस्याभ्यर्थनेनास्याः प्राक्कूटश्रूतिनाटने ।विस्मितौ कुरुतः स्मैतौ दम्पती कम्पितं शिरः ॥११४॥तथालिमालपन्तीं तामभ्यधान्निषधाधिपः ।आस्स्व तद्वञ्चितौ स्वश्चेन्मिथ्याशपथसाहसात् ॥११५॥प्रत्यालापीत्कलापीमं कलङ्कः शङ्कितः कुतः ।प्रियापरिजनोक्तस्य त्वयैवाद्य मृषोद्यता ॥११६॥सत्यं खलु तदाश्रौषां परं गुमुगुमारवम् ।शृणोमीत्येव चावोचं नतु त्वद्वाचमित्यपि ॥११७॥आमन्त्र्य तेन देव त्वां तद्वैयर्थ्यं समर्थये ।शपथः कर्कशोदर्कः सत्यं सत्योपि दैवतः ॥११८॥असंभोगकथारम्भैर्वञ्चयेथे कथं नु माम् ।हन्त सेयमनर्हन्ती यन्न विप्रलभे युवाम् ॥११९॥कर्णे कर्णे ततः सख्यौ श्रुतमाचख्यतुर्मिथः ।मुहुर्विस्मयमाने च स्मयमाने च ते बहु ॥१२०॥अथाख्यायि कलासख्या कुप्य मे दमयन्ति मा ।कर्णाद्द्वितीयतोऽप्यस्याः संगोप्यैव यदब्रवम् ॥१२१॥प्रियः प्रियामथाचष्ट दृष्टं कपटपाटवम् ।वयस्ययोरिदं तेऽस्मान्मा सखीष्वेव विश्वसीः ॥१२२॥आलापि कलयापीयं पतिर्नालपति क्वचित् ।रहस्येऽसौ रहस्यं तत्सभ्ये विस्रभ्यमीदृशि ॥१२३॥इति व्युत्तिष्ठमानायां तस्यामूचे नलः प्रियाम् ।भण भैमि बहिः कुर्वे दुर्विनीते गृहादमुम् ॥१२४॥शिरःकम्पानुमत्याथ सुदत्या प्रीणितः प्रियः ।चुलुकं तुच्छमुत्सर्प्य सख्योः सलिलमक्षिपत् ॥१२५॥तच्चित्रदत्ताचित्ताभ्यामुच्चैः सिचयसेचनम् ।ताभ्यामलिम्भि दूरेऽपि नलेच्छापूरिभिर्जलैः ॥१२६॥वरेण वरुणस्यायं सुलभैरम्भसां भरैः ।एतयोः स्तिमितीचक्रे हृदयं विस्मयैरपि ॥१२७॥तेनापि नापसर्पन्त्यौ दमयन्तीमयं ततः ।हर्षेणादर्शयत्पश्य नन्विमे तन्वि मे पुरः ॥१२८॥क्लिन्नीकृत्याम्भसा वस्त्रं जैनप्रव्रजितीकृते ।सख्यौ सक्षौमभावेऽपि निर्विघ्नस्तनदर्शने ॥१२९॥अम्बुनः शम्बरत्वेन मायैवाविरभूदियम् ।यत्पटावृतमप्यङ्गमनयोः कथयत्यदः ॥१३०॥वाससो वाम्बरत्वेन दृश्यतेयमुपागमत् ।चारुहारमणिश्रेणितारवीक्षणलक्षणा ॥१३१॥ते निरीक्ष्य निजावस्थां ह्रीणे निर्ययतुस्ततः ।तयोर्वीक्षारसात्सख्यः सर्वां निश्चक्रमुः क्रमात् ॥१३२॥ता बहिर्भूय वैदर्भीमूचुर्नीतावधीतिनि ।उपेक्ष्ये ते पुनः सख्यौ मर्मज्ञे नाधुनाप्यमू ॥१३३॥उच्चैरूचेऽथ ता राजा सखीयमिदमाह वः ।श्रुतं मर्म ममैताभ्यां दृष्टं तत्तु मयानयोः ॥१३४॥मद्विरोधितयोर्वाचि न श्रद्धातव्यमेतयोः ।अभ्यषिञ्चदिमे मायामिथ्यासिंहासने विधिः ॥१३५॥घौतेऽपि कीर्तिधाराभिश्चरिते चारुणि द्विषः ।मृषामषीलवैर्लक्ष्म लेखितुं के न शिल्पिनः ॥१३६॥ते सख्यावाचचक्षाते न किंचिद् ब्रूवहे बहु ।वक्ष्यावस्तत्परं यस्मै सर्वा निर्वासिता वयम् ॥१३७॥स्थापत्यैर्न स्म वित्तस्ते वर्षीयस्त्वचलत्करैः ।कृतामपि तथावाचि करकम्पेन वारणाम् ॥१३८॥अपयातमितो धृष्टे धिग्वामश्लीलशीलताम् ।इत्युक्ते चोक्तवन्तश्च व्यतिद्राते स्म ते भिया ॥१३९॥आह स्म तद्गिरा ह्रीणां प्रियां नतमुखीं नलः ।ईदृग्भण्डसखी कापि निस्त्रपा न मनागपि ॥१४०॥अहो नापत्रपाकं ते जातरूपमिदं मुखम् ।नातितापार्जनेऽपि स्यादितो दुर्वर्णनिर्गमः ॥१४१॥तामथैष हृदि न्यस्य ददौ तल्पतले तनुम् ।निमिष्य च तदीयाङ्गसौकुमार्यमसिस्वदत् ॥१४२॥न्यस्य तस्याः कुचद्वन्द्वे मध्येनीवि निवेश्य च ।स पाणेः सफलं चक्रे तत्करग्रहणश्रमम् ॥१४३॥स्थापितामुपरि स्वस्य तां हृदा स मुदा वहन् ।तदुद्वहनकर्तृत्वमाचष्ट स्पष्टमात्मनः ॥१४४॥स्विद्यत्कराङ्गुलीलुप्तकस्तूरीलेपमुद्रया ।पूत्कार्यपीडनौ चक्रे स सखीषु प्रियास्तनौ ॥१४५॥तत्कुचे नखमारोप्य चमत्कुर्वंस्तयेक्षितः ।सोऽवादीत्तां हृदिस्थं ते किं मामभिनदेष न ॥१४६॥अहो अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् ।अङ्कः खलैरिवाकल्पि नखैस्तीक्ष्णमुखैर्मम ॥१४७॥यच्चुम्बति नितम्बोरु यदालिङ्गति च स्तनौ ।भुङ्क्ते गुणमयं तत्ते वासः शुभदशोचितम् ॥१४८॥लीनचीनांशुकं स्वेदि दरालोक्यं विलोकयन् ।तन्नितम्बं स निश्वस्य निनिन्द दिनदीर्घताम् ॥१४९॥देशमेव ददंशासौ प्रियादन्तच्छदान्तिकम् ।चकाराधरपानस्य तत्रैवालीकचापलम् ॥१५०॥न क्षमे चपलापाङ्गि सोढुं स्मरशरव्यथाम् ।तत्प्रसीद प्रसीदेति स तां प्रीतामकोपयत् ॥१५१॥नेत्रे निषधनाथस्य प्रियाया वदनाम्बुजम् ।ततः स्तनतटौ ताभ्यां जघनं घनमीयतुः ॥१५२॥इत्यधीरतया तस्य हठवृत्तिविशङ्किनी ।झटित्युत्थाय सोत्कण्ठमसावन्वसरत्सखीः ॥१५३॥न्यवारीव यथाशक्ति स्पन्दं मन्दं वितन्वता ।भैमीकुचनितम्बेन नलसंभोगलोभिना ॥१५४॥अपि श्रोणिभरस्वैरां धर्तुं तामशकन्न सः ।तदङ्गसङ्गजस्तम्भो गजस्तम्भोरुदोरपि ॥१५५॥आलिङ्ग्यालिङ्ग्य तन्वङ्गि मामित्यर्धगिरं प्रियम् ।स्मित्वा निवृत्य पश्यन्ती द्वारपारमगादसौ ॥१५६॥प्रियस्याप्रियमारभ्य तमन्तर्दूनयाऽनया ।शेके शालीनयालीभ्यो न गन्तुं न निवर्तितुम् ॥१५७॥अचकथदथ बन्दिसुन्दरी द्वाःसविधमुपेत्य नलाय मध्यमह्नः ।जय नृप दिनयौवनोष्मतप्ताप्लवनजलानि पिपासति क्षितिस्ते ॥१५८॥उपहृतमधिगङ्गमम्बु कम्बुच्छवि तव वाञ्छति केशभङ्गिसङ्गात् ।अनुभवितुमनन्तरं तरङ्गासमशमनस्वसृमिश्रभावशोभाम् ॥१५९॥तपति जगत एव मूर्ध्नि भूत्वा रविरधुना त्वमिवाद्भुतप्रतापः ।पुरमथनमुपास्य पश्य पुण्यैरधरितमेनमनन्तरं त्वदीयैः ॥१६०॥आनन्दं हठमाहरन्निव हरध्यानार्चनादीक्षण-स्यासत्तावपि भूपतिः प्रियतमाविच्छेदखेदालसः ।पक्षद्वारदिशं प्रति प्रति मुहुर्द्राङ्गिर्गतप्रेयसी-प्रत्यासत्तिधिया दिशन्दृशमसौ निर्गन्तुमुत्तस्थिवान् ॥१६१॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।अन्याक्षुण्णरसप्रमेयभणितौ विंशस्तदीये महा-काव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥१६२॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP