संस्कृत सूची|संस्कृत स्तोत्र साहित्य|नैषधीयचरितम्| अष्टमः सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - अष्टमः सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत अष्टमः सर्गः Translation - भाषांतर अथाद्भुतेनास्तनिमेषमुद्रम्उन्निद्रलोमानममुं युवानम् ।दृशा परुस्ताः सुदृशः समस्ताःसुता च भीमस्य महीमघोनः ॥१॥कियच्चिरं दैवतभाषितानिनिह्नोतुमेनं प्रभवन्तु नाम ।पलालजालैः पिहितः स्वयं हिप्रकाशमासादयतीक्षुडिम्भः ॥२॥अपाङ्गमप्याय दृशोर्न रश्मिःनलस्य भैमीमभिलष्य यावत् ।स्मराशुगः सुभ्रुवि तावदस्यांप्रत्यङ्गमापुङ्खशिखं ममज्ज ॥३॥यदक्रमं विक्रमशक्तिसाम्याद्उपाचरद्द्वावपि पञ्चबाणः ।कथं न वैमत्यममुष्य चक्रेशरैरनर्धार्धविभागभाग्मिः ॥४॥तस्मिन्नलोऽसाविति सान्वरज्यत्क्षणं क्षणं क्वेह स इत्युदास्त ।पुनः स्म तस्यां वलतेऽस्य चित्तंदूत्यादनेनाथ पुनर्न्यवर्ति ॥५॥कयाचिदालोक्य नलं ललज्जेकयापि तद्भासि हृदा ममज्जे ।तं कापि मेने स्मरमेव कन्याभेजे मनोभूवशभूयमन्या ॥६॥कस्त्वं कुतो वेति न जातु शेकुःतं प्रष्टुमप्यप्रतिभातिभारात् ।उत्तस्थुरभ्युत्थितिवाञ्छयेवनिजासनान्नैकरसाः कृशाङ्ग्यः ॥७॥स्वाच्छन्द्यमानन्दपरंपराणांभैमी तमालोक्य किमप्यवाप ।महारयं निर्झरिणीव वाराम्आसाद्य धाराधरकेलिकालम् ॥८॥तत्रैव मग्ना यदपश्यदग्रेनास्या दृगस्याङ्गमयास्यदन्यत् ।नादास्यदस्यै यदि बुद्धिधारांविच्छिद्य विच्छिद्य चिरान्निमेषः ॥९॥दृशापि सालिङ्गितमङ्गमस्यजग्राह नाग्रावगताङ्गहर्षैः ।अङ्गान्तरेऽनन्तरमीक्षिते तुनिवृत्य सस्मार न पूर्वदृष्टम् ॥१०॥हित्वैकमस्यापघनं विशन्तीतद्दृष्टिरङ्गान्तरभुक्तिसीमाम् ।चिरं चकारोभयलाभलोभात्स्वभावलोला गतमागतं च ॥११॥निरीक्षितं चाङ्गमवीक्षितं चदृशा पिबन्ती रभसेन तस्य ।समानमानन्दमियं दधानाविवेद भेदं न विदर्भसुभ्रूः ॥१२॥सूक्ष्मे घने नैषधकेशपाशेनिपत्य निस्पन्दतरीभवद्भ्याम् ।तस्यानुबन्धं न विमोच्य गन्तुम्अपारि तल्लोचनखञ्जनाभ्याम् ॥१३॥भूलोकभर्तुर्मुखपाणिपाद-पद्मैः परीरम्भमवाप्य तस्य ।दमस्वसुर्दृष्टिसरोजराजिःचिरं न तत्याज सबन्धुबन्धम् ॥१४॥तत्कालमानन्दमयी भवन्तीभवत्तरानिर्वचनीयमोहा ।सा मुक्तसंसारिदशारसाभ्यांद्विस्वादमुल्लासमभुङ्क्त मिष्टम् ॥१५॥दूते नलश्रीभृति भाविभावाकलङ्किनीयं जनि मेति नूनम् ।न संव्यधान्नैषधकायमायंविधिः स्वयंदूतमिमां प्रतीन्द्रम् ॥१६॥पुण्ये मनः कस्य मुनेरपि स्यात्प्रमाणमास्ते यदधेऽपि धावत् ।तच्चिन्ति चित्तं परमेश्वरस्तुभक्तस्य हृष्यत्करुणो रुणद्धि ॥१७॥सालीकदृष्टे मदनोन्मदिष्णुःयथाप शालीनतमा न मौनम् ।तथैव तथ्येऽपि नले न लेभेमुग्धेषु कः सत्यमृषाविवेकः ॥१८॥व्यर्थीभवद्भावपिधानयत्नास्वरेण साथ श्लथगद्गदेन ।सखीचये साध्वसबद्धवाचिस्वयं तमूचे नमदाननेन्दुः ॥१९॥नत्वा शिरोरत्नरुचापि पाद्यंसंपाद्यमाचारविदातिथिभ्यः ।प्रियाक्षरालीरसधारयापिवैधी विधेया मधुपर्कतृप्तिः ॥२०॥स्वात्मापि शीलेन तृणं विधेयंदेया विहायासनभूर्निजापि ।आनन्दबाष्पैरपि कल्प्यमम्भःपृच्छा विधेया मधुभिर्वचोभिः ॥२१॥पदोपहारेऽनुपनम्रतापिसंभाव्यतेऽपां त्वरयापराधः ।तत्कर्तुमर्हाञ्जलिसञ्जनेनस्वसंभृतिः प्राञ्जलतापि तावत् ॥२२॥पुरा परित्यज्य मयात्यसर्जिस्वमासनं तत्किमिति क्षणं न ।अनर्हमप्येतदलंक्रियेतप्रयातुमीहा यदि चान्यतोऽपि ॥२३॥निवेद्यतां हन्त समापयन्तौशिरीषकोषभ्रदिमाभिमानम् ।पादौ कियद्दूरमिमौ प्रयासेनिधित्सते तुच्छदयं मनस्ते ॥२४॥अनायि देशः कतमस्त्वयाद्यवसन्तमुक्तस्य दशां वनस्य ।त्वदाप्तसंकेततया कृतार्थाश्रव्यापि नानेन जनेन संज्ञा ॥२५॥तीर्णः किमर्णोनिधिरेव नैषसुरक्षितेऽभूदिह यत्प्रवेशः ।फलं किमेतस्य तु साहसस्यन तावदद्यापि विनिश्चिनोमि ॥२६॥तव प्रवेशे सुकृतानि हेतुःमन्ये मदक्ष्णोरपि तावदत्र ।न लक्षितो रक्षिभटैर्यदाभ्यांपीतोऽसि तन्वा जितपुष्पधन्वा ॥२७॥यथाकृतिः काचन ते यथा वादौवारिकान्धंकरणी च शक्तिः ।रुच्यो रुचीभिर्जितकाञ्चनीभिःतथासि पीयूषभुजां सनाभिः ॥२८॥न मन्मथस्त्वं स हि नास्तिमूर्तिःन चाश्विनेयः स हि नाद्वितीयः ।चिह्नैः किमन्यैरथवा तवेयंश्रीरेव ताभ्यामधिको विशेषः ॥२९॥आलोकतृप्तीकृतलोक ! यस्त्वाम्असूत पीयूषमयूखमेनम् ।कः स्पर्धितुं धावति साधु सार्धम्उदन्वता नन्वयमन्ववायः ॥३०॥भूयोऽपि बाला नलसुन्दरं तंमत्वामरं रक्षिजनाक्षिबन्धात् ।आतिथ्यचाटून्यपदिश्य तत्स्थांश्रियं प्रियस्यास्तुत वस्तुतः सा ॥३१॥वाग्जन्मवैफल्यमसह्यशल्यंगुणाद्भुते वस्तुनि मौनिता चेत् ।खलत्वमल्पीयसि जल्पितेऽपितदस्तु बन्दिभ्रमभूमितैव ॥३२॥कंदर्प एवेदमविन्दत त्वांपुण्येन मन्ये पुनरन्यजन्म ।चण्डीशचण्डाक्षिहुताशकुण्डेजुहाव यन्मन्दिरमिन्द्रियाणाम् ॥३३॥शोभायशोभिर्जितशैवशैलंकरोपि लज्जागुरुमौलिमैलम् ।दस्रौ हठश्रीहरणादुदस्रौकंदर्पमप्युज्झितरूपदर्पम् ॥३४॥अवैमि हंसावलयो वलक्षाःत्वत्कान्तिकीर्तेश्चपलाः पुलाकाः ।उड्डीय युक्तं पतिताः स्रवन्ती-वेशन्तपूरं परितः प्लवन्ते ॥३५॥भवत्पदाङ्गुष्ठमपि श्रिता श्रीःध्रुवं न लब्धा कुसुमायुधेन ।रतीशजेतुः खलु चिह्नमस्मिन्नर्धेन्दुरास्ते नखवेषधारी ॥३६॥राजा द्विजानामनुमासभिन्नःपूर्णां तनूकृत्य तनूं तपोभिः ।कुहूषु दृश्येतरतां किमेत्यसायुज्यमाप्नोति भवन्मुखस्य ॥३७॥कृत्वा दृशौ ते बहुवर्णचित्रेकिं कृष्णसारस्य तयोर्मृगस्य ।अदूरजाग्रद्विदरप्रणाली-रेखामयच्छद्विधिरर्धचन्द्रम् ॥३८॥मुग्धः स मोहात्सुभगान्न देहात्ददद्भवद्भ्रूरचनाय चापम् ।भ्रूमङ्गजेयस्तव यन्मनोभूःअनेन रूपेण यदातदाभूत् ॥३९॥मृगस्य नेत्रद्वितयं तवास्येविधौ विधुत्वानुमितस्य दृश्यम् ।तस्यैव चञ्चत्कचपाशवेषःपुच्छ स्फुरच्चामरगुच्छ एषः ॥४०॥आस्तामनङ्गीकरणाद्भवेनदृश्यः स्मरो नेति पुराणवाणी ।तवैव देहं श्रितया श्रियेतिनवस्तु वस्तु प्रतिभाति वादः ॥४१॥त्वया जगत्युच्चितकान्तिसारेयदिन्दुनाशीलि शिलोञ्छवृत्तिः ।आरोपि तन्माणवकोऽपि मौलौस यज्वराज्येऽपि महेश्वरेण ॥४२॥आदेहदाहं कुसुमायुधस्यविधाय सौन्दर्यकथादरिद्रम् ।त्वदङ्गशिल्पात्पुनरीश्वरेणचिरेण जाने जगदन्वकम्पि ॥४३॥मही कृतार्था यदि मानवोऽसिजितं दिवा यद्यमरेषु कोऽपि ।कुलं त्वयालंकृतमौरगं चेन्नाधोऽपि कस्योपरि नागलोकः ॥४४॥सेयं न धत्तेऽनुपपत्तिमुच्चैःमच्चित्तवृत्तिस्त्वयि चिन्त्यमाने ।ममौ स भद्रं चुलुके समुद्रःत्वयात्तगाम्भीर्यमहत्त्वमुद्रः ॥४५॥संसारसिन्धावनुबिम्बमत्रजागर्ति जाने तव वैरसेनिः ।बिम्बानुबिम्बौ हि विहाय धातुःन जातु दृष्टातिसरूपसृष्टिः ॥४६॥इयत्कृतं केन महीजगत्याम्अहो महीयः सुकृतं जनेन ।पादौ यमुद्दिश्य तवापि पद्या-रजःसु पद्मस्रजमारभेते ॥४७॥ब्रवीति मे किं किमियं न जानेसंदेहदोलामवलम्ब्य संवित् ।कस्यापि धन्यस्य गृहातिथिस्त्व-मलीकसंभावनयाथवालम् ॥४८॥प्राप्त्यैव तावत्तव रूपसृष्टिंनिपीय दृष्टिर्जनुषः फलं मे ।अपि श्रुती नामृतमाद्रियेतांतयोः प्रसादीकुरुषे गिरं चेत् ॥४९॥इत्थं मधूत्थं रसमुद्गिरन्तीतदोष्ठबन्धूकधनुर्विसृष्टा ।कर्णात्प्रसूनाशुगपञ्चबाणीवाणीमिषेणास्य मनो विवेशः ॥५०॥अमज्जदाकण्ठमसौ सुधासुप्रियं प्रियाया वचनं निपीय ।द्विषन्मुखेऽपि स्वदते स्तुतिर्यातन्मिष्टता नेष्टमुखे त्वमेया ॥५१॥पौरस्त्यशैलं जनतोपनीतांगृह्णन् यथाह्नः पतिरर्घ्यपूजाम् ।तथातिथेयीमथ संप्रतीच्छप्रियार्पितामासनमाससाद ॥५२॥अयोधि तद्धैर्यमनोभवाभ्यांतामेव भैमीमवलम्ब्य भूमीम् ।आह स्म यत्र स्मरचापमन्तःछिन्नं भ्रुवो तज्जयभङ्गवार्ताम् ॥५३॥अथ स्मरज्ञामवधीर्य धैर्याद्उचे स तद्वागुपवीणितोऽपि ।विवेकधाराशतधौतमन्तःसतां न कामः कलुषीकरोति ॥५४॥हरित्पतीनां सदसः प्रतीहित्वदीयमेवातिथिमागतं माम् ।वहन्तमन्तर्गुरुणादरेणप्राणानिव स्वःप्रभुवाचिकानि ॥५५॥विरम्यतां भूतवती सपर्यानिविश्यतामासनमुज्झितं किम् ।या दूतता नः फलिना विधेयासैवातिथेयी पृथुरुद्भवित्री ॥५६॥कल्याणि ! कल्यानि तवाङ्गकानिकच्चित्तमां चित्तमनाविलं ते ।अलं विलम्बेन गिरं मदीयाम्आकर्णयाकर्णतटायताक्षि ! ॥५७॥कौमारमारभ्य गणा गुणानांहरन्ति ते दिक्षु धृताधिपत्यान् ।सुराधिराजं सलिलाधिपं चहुताशनं चार्यमनन्दनं च ॥५८॥चरच्चिरं शैशवयौवनीयद्वैराज्यभाजि त्वयि खेदमेति ।तेषां रुचश्चौरतरेण चित्तंपञ्चेषुणा लुण्ठितधैर्यवित्तम् ॥५९॥तेषामिदानीं किल केवलं साहृदि त्वदाशा विलसत्यजस्रम् ।आशास्तु नासाद्य तनूरुदाराःपूर्वादयः पूर्ववदात्मदाराः ॥६०॥अनेन सार्धं तव यौवनेनकोटिं परामच्छिदुरोऽध्यरोहत् ।प्रेमापि तन्वि ! त्वयि वासवस्यगुणोऽपि चापे सुमनः शरस्य ॥६१॥प्राचीं प्रयाते विरहादयं तेतापाच्च रूपाच्च शशाङ्कशङ्की ।परापराधैर्निदधाति भानौरुषारुणं लोचनवृन्दमिन्द्रः ॥६२॥त्रिनेत्रमात्रेण रुषा कृतं यत्तदेव योऽद्यापि न संवृणोति ।न वेद रुष्टेऽद्य सहस्रनेत्रेगन्ता स कामः खलु कामवस्थाम् ॥६३॥पिकस्य वाङ्मात्रकृताद्व्यलीकान्नराधनं शीलति शूलिनोऽपि ॥६४॥तमोमयीकृत्य दिशः परागैःस्मरेषवः शक्रदृशां दिशन्ति ।कुहूगिरश्चञ्चुपुटं द्विजस्यराकारजन्यामपि सत्यवाचम् ॥६५॥शरैः प्रसूनैस्तुदतः स्मरस्यस्मर्तुं स किं नाशनिना करोति ।अभेद्यमस्याहह वर्म न स्यात्अनङ्गता चेद्गिरिशप्रसादः ॥६६॥धृताधृतेस्तस्य भवद्वियोगात्अन्यान्यशय्यारचनाय लूनैः ।अप्यन्यदारिद्र्यहराः प्रवालैःजाता दरिद्रास्तरवोऽमराणाम् ॥६७॥रवैर्गुणास्फालभवैः स्मरस्यस्वर्णाथकर्णौ बधिरावभूताम् ।गुरोः श्रृणोति स्मरमोहनिद्रा-प्रबोधदक्षाणि किमक्षराणि ॥६८॥अनङ्गतापप्रशमाय तस्यकदर्थ्यमाना मुहुरामृणालम् ।मधौ मधौ नाकमदीनलिन्योवरं वहन्तां शिशिरेऽनुरागम् ॥६९॥दमस्वसः ! सेयमुपैति तृष्णाहरेर्जगत्यग्रिमलेख्यलक्ष्मीम् ।दृशां यदब्धिस्तव नाम दृष्टि-त्रिभागलोभार्तिमसौ बिभर्ति ॥७०॥अग्याहिता नित्यमुपासते यांदेदीप्यमानां तनुमष्टमूर्तेः ।आशापतिस्ते दमयन्ति ! सोऽपिस्मरेण दासीभवितुं न्यदेशि ॥७१॥त्वद्गोचरस्तं खलु पञ्चबाणःकरोति संताप्य तथा विनीतम् .स्वयं यथा स्वादिततप्तभूयःपरं न संतापयिता स भूयः ॥७२॥अदाहि यस्तेन दशार्धबाणःपुरा पुरारेर्नयनालयेन ।न निर्दहस्तं भवदक्षिवासीन वैरशुद्धेरधुनाधमर्णः ॥७३॥सोमाय कुप्यन्निव विप्रयुक्तःस सोममाचामति हूयमानम् ।नामापि जागर्ति हि यत्र रात्रोःतेजस्विनस्तं कतमे सहन्ते ॥७४॥शरैरजस्रं कुसुमायुधस्यकदर्थ्यमानस्तरुणि ! त्वदर्थे ।अभ्यर्चयद्भिर्विनिवेद्यमानात्अप्येष मन्ये कुसुमाद्बिभेति ॥७५॥स्मरेन्धने वक्षसि तेन दत्तासंवर्तिका शैवलवल्लिचित्रा ।चकास्ति चेतोभवपावकस्यधूमाविला कीलपरम्परेव ॥७६॥पुत्री सुहृद्येन सरोरुहाणांयत्प्रेयसी चन्दनवासिता दिक् ।धैर्यं विभुः सोऽपि तवैव हेतोःस्मरप्रतापज्वलने जुहाव ॥७७॥तं दह्यमानैरपि मन्मथैद्यंहस्तैरुपास्ते मलयः प्रवालैः ।कृच्छ्रेऽप्यसौ नोज्झति तस्य सेवांसदा यदाशामवलम्बते यः ॥७८॥स्मरस्य कीर्त्येव सितीकृतानितद्दोःप्रतापैरिव तापितानि ।अङ्गानि धत्ते स भवद्वियोगात्पाण्डूनि चण्डज्वरजर्जराणि ॥७९॥यस्तन्वि ! भर्ता घुसृणेन सायंदिशः समालम्भनकौतुकिन्याः ।तदा स चेतः प्रजिघाय तुभ्यंयदा गतो नैति निवृत्य पान्थः ॥८०॥तथा न तापाय पयोनिधीनाम्अश्वामुखोत्थः क्षुधितः शिखावान् ।निजः पतिः संप्रति वारिपोऽपियथा हृदिस्थः स्मरतापदुःस्थः ॥८१॥यत्प्रत्युत त्वन्मृदुबाहुवल्ली-स्मृतिस्रजं गुम्फति दुर्विनीता ।ततो विधत्तेऽधिकमेव तापंतेन श्रिता शैत्यगुणा मृणाली ॥८२॥न्यस्तं ततस्तेन मृणालदण्ड-खण्डं बभासे हृदि तापभाजि ।तच्चित्तमग्नैर्मदनस्य बाणैःकृतं शतच्छिद्रमिव क्षणेन ॥८३॥इति त्रिलोकीतिलकेषु तेषुमनोभुवो विक्रमकामचारः ।अमोघमस्त्रं भवतीमवाप्यमदान्धतानर्गलचापलस्य ॥८४॥सारोत्थधारेव सुधारसस्यस्वयंवरः श्वो भविता तवेति ।संतर्पयन्ती दमयन्ति ! तेषांश्रुतिः श्रुती नाकजुषामयासीत् ॥८५॥समं सपत्नीभवदुःखतीक्ष्णैःस्वदारनासापथिकैर्मरुद्भिः ।अनङ्गशौर्यानलतापदुःस्थैःअथ प्रतस्थे हरितां मरुद्भिः ॥८६॥अपास्तपाथेपसुधोपयोगैःत्वच्चुम्बिनैव स्वमनोरथेन ।क्षुधं च निर्वापयता तृषं चस्वादीयसाऽध्वा गमितः सुखं तैः ॥८७॥प्रिया मनोभूशरदावदाहेदेवीस्त्वदर्थेन निमज्जयद्भिः ।सुरेषु सारैः क्रियतेऽधुना तैःपादार्पणानुग्रहभूरियं भूः ॥८८॥अलंकृतासन्नमहीविभागैःअयं जनस्तैरमरैर्भवत्याम् ।अवापितो जङ्गमलैखलक्ष्मींनिक्षिप्य संदेशमयाक्षराणि ॥८९॥एकैकमेते परिरभ्य पीन-स्तनोपपीडं त्वयि संदिशन्ति ।त्वं मूर्च्छतां नः स्मरभिल्लशल्यैःमुदे विशल्यौषधिवल्लिरेधि ॥९०॥त्वत्कान्तिमस्माभिरयं पिपासन्मनोरथाश्वासनयैकयैव ।निजः कटाक्षः खलु विप्रलभ्यःकियन्ति यावद्भण वासराणि ॥९१॥निजे स-जास्मासु भुजै भजन्त्या-वादित्यवर्गे परिवेषवेषम् ।प्रसीद निर्वापय तापमङ्गैःअनङ्गलीलालहरीतुषारैः ॥९२॥दयस्व किं घातयसि त्वमस्मान्अनङ्गचण्डालशरैरदृश्यैः ।भिन्ना वरं तीक्ष्णकटाक्षबाणैःप्रेमस्तव प्रेमरसात्पवित्रैः ॥९३॥त्वदर्थिनः सन्तु परस्सहस्राःप्राणास्तु नस्त्वच्चरणप्रसादः ।विशङ्कसे कैतवनर्तितं चेत्अन्तश्चरः पञ्चशरः प्रमाणम् ॥९४॥अस्माकमध्यासितमेतदन्तःतावद्भवत्या हृदयं चिराय ।बहिस्त्वयालंक्रियतामिदानीम्उरो मुरं विद्विषतः श्रियेव ॥९५॥दयोदयश्चेतसि चेत्तवाभूत्अलंकुरु द्यां विफलो विलम्बः ।भुवः स्वरादेशमथाचरामोभूमौ धृतिं यासि यदि स्वभूमौ ॥९६॥धिनोति नास्माञ्जलजेन पूजात्वयान्वहं तन्वि ! वितन्यमाना ।तव प्रसादोपनते तु मौलौपूजास्तु नस्त्वत्पदपङ्कजाभ्याम् ॥९७॥स्वर्णैर्वितीर्णैः करवाम वाम-नेत्रे ! भवत्या किमुपासनासु ।अङ्ग ! त्वदङ्गानि निपीतपीत-दर्पाणि पाणिः खलु याचते नः ॥९८॥वयं कलादा इव दुर्विदग्धंत्वद्गौरिमस्पर्धि दहेम हेम ।प्रसूननाराचशरासनेनसहैकवंशप्रभवभ्रु ! बभ्रु ॥९९॥सुधासरःसु त्वदनङ्गतापःशान्तो न नः किं पुरप्यसरःसु ।निर्वाति तु त्वन्ममताक्षरेणसूनाशुगेषोर्मधुसीकरेण ॥१००॥खण्डः किमु त्वद्गिर एव खण्डःकिं शर्करा तत्पथशर्करैव ।कृशाङ्गि ! तद्भङ्गिरसोत्थकच्छ-तृणं नु दिक्षु प्रथितं तदिक्षुः ॥१०१॥ददाम किं ते सुधयाऽधरेणत्वदास्य एव स्वयमास्यते हि ।चन्द्रं विजित्य स्वयमेव भावित्वदाननं तन्मखभागभोजि ॥१०२॥प्रिये ! वृणीष्वामरभावमश्मत्इति त्रपाकृद्वचनं न किं नः ।त्वत्पादपद्मे शरणं प्रविश्यस्वयं वयं येन जिजीविषामः ॥१०३॥नास्माकमस्मान्मदनापमृत्योःस्त्राणाय पीयूषरसायनानि ।प्रसीद अस्मादधिकं निजं तुप्रयच्छ पातुं रदनच्छदं नः ॥१०४॥प्लुष्टः स्वैश्चापरोपैः सह स हि मकरेणात्मभूः केतुनाऽभू-द्धत्तां नस्त्वत्प्रसादादथ मनसिजतां मानसो नन्दनः सन् ।भ्रूभ्यां ते तन्वि ! धन्वी भवतु तव सितैर्जैत्रभल्लः स्मितैः स्तादस्तु त्वन्नेत्रचञ्चत्तरशफरयुगाधीनमीनध्वजाङ्कः ॥१०५॥स्वप्नेन प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षःश्रोत्रे गीतामृताब्धौ त्वगपि ननु तनूमञ्जरीसौकुमार्ये ।नासा श्वासाधिवासेऽधरमधुनि रसज्ञा चरित्रेषु चित्तंतन्नस्तन्वङ्गि ! कैश्चिन्न करणहरिणैर्वागुरा लङ्घितासि ॥१०६॥इति धृतसुरसार्थवाचिकस्रङ्गिजरसनातलपत्रहारकस्य ।सफलय मम दूततां वृणीष्वस्वयमवधार्य दिगीशमेकमेषु ॥१०७॥आनन्दयेन्द्रमथ मन्मथमग्नमग्निंकेलीभिरुद्धर तनूदरि ! नूतनाभिः ।आसादयोदितदयं शमने मनो वानो वा यदीत्थमथ तद्वरुणं वृणीथाः ॥१०८॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।तस्यागादयमष्टमः कविकुलादृष्टाध्वपान्थे महा-काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥१०९॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP