संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| दशमः सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - दशमः सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत दशमः सर्गः Translation - भाषांतर रथैरथायुः कुलजाः कुमाराःशस्त्रेषु शास्त्रेषु च दृष्टपाराः ।स्वयंवरं शंबरवैरिकाय-व्यूहश्रियः श्रीजितयक्षराजाः ॥१॥नाभूदभूमिः स्मरसायकानांनासीदगन्ता कुलजः कुमारः ।नास्थादपन्था धरणेः कणोऽपिव्रजेषु राज्ञां युगपद्व्रजत्सु ॥२॥योग्यैर्व्रजद्भिर्नृपजां वरीतुंवीरैरनर्हैः प्रसभेन हर्तुम् ।द्रष्टुं परैस्तान्परिकर्तुमन्यैःस्वमात्रशेषाः ककुभो बभूवुः ॥३॥लोकैरशेषैरविनिश्रियं ताम्उद्दिश्य दिश्यैर्विहिते प्रयाणे ।स्ववर्तितत्तज्जनयन्त्रणार्ति-विश्रान्तिमायुः ककुभां विभागाः ॥४॥तलं यथेयुर्न तिला विकीर्णाःसैन्यैस्तथा राजपथा बभूवुः ।भैमीं स लब्धामिव तत्र मेनेकः प्राप भूभृद्भवितुं पुरस्तात् ॥५॥नृपः पुरस्थैः प्रतिबद्धवर्त्मापश्चात्तनैः कश्चन नुद्यमानः ।यन्त्रस्थसिद्धार्थपदाभिषेकंलब्ध्वाप्यसिद्धार्थममन्यत स्वम् ॥६॥राज्ञां पथि स्त्यानतयानुपूर्व्याविलङ्घनाशक्तिविलम्बभाजाम् ।आह्वानसंज्ञानमिवाग्रकम्पै-र्ददुर्विदर्भेन्द्रपुरीपताकाः ॥७॥प्राग्भूय कर्कोटक आचकर्षसकम्बलं नागबलं यदुच्चैः ।भुवस्तले कुण्डिनगामि राज्ञांतद्वासुकेश्चाश्वतरोऽन्वगच्छत् ॥८॥आगच्छदुर्विन्द्रचमूसमुत्थै-र्भूरेणुभिः पाण्डुरिता मुखश्रीः ।विस्पष्टमाचष्ट हरिद्वधूनांरूपं पतित्यागदशानुरूपम् ॥९॥आखण्डलो दण्डधरः कृशानुःपाशीति नाथैः ककुभां चतुर्भिः ।भैम्येव बद्ध्वा स्वगुणेन कृष्टैःस्वयंवरे तत्र गतं न शेषैः ॥१०॥मन्त्रैः पुरं भीमपुरोहितस्यतद्बद्धरक्षं विशति क्व रक्षः ।तत्रोद्यमं दिक्पतिराततानयातुं ततो जातु न यातुधानः ॥११॥कर्तुं शशाकाभिमुखं न भैम्यामृगं दृगम्भोरुहतर्जितम् यत् ।अस्या विवाहाय ययौ विदर्भां-स्तद्वाहनस्तेन न गन्धवाहः ॥१२॥जातौ न वित्ते न गुणे न कामःसौन्दर्य एव प्रवणः स वामः ।स्वच्छस्वशैलेक्षितकुत्सबेरःतां प्रत्यगान्न स्त्रितमां कुबेरः ॥१३॥भमीविवाहं सहते स्म कस्माद्अर्धं तनुर्या गिरिजात्मभर्तुः ।तेनाव्रजन्त्या विदधे विदर्भा-नीशानयानाय तयान्तरायः ॥१४॥स्वयंवरं भीमनरेन्द्रजायादिशः पतिन प्रविवेश शेषः ।प्रयातु भारं स निवेश्य कस्मिन्-नहिर्महीगौरवसासहिर्यः ॥१५॥ययौ विमृश्योर्ध्वदिशः पतिर्नस्वयंवरं वीक्षितधर्मशास्त्रः ।व्यलोकि लोके श्रुतिषु स्मृतौ वासमं विवाहः क्व पितामहेन ॥१६॥भैमीनिरस्तं स्वमवेत्य दूती-मुखात्किलेन्द्रप्रमुखा दिगीशाः ।स्यदे मुखेन्दौ च वितत्य मान्द्यंचित्तस्य ते राजसमाजमीयुः ॥१७॥नलभ्रमेणापि भजेत भैमीकदाचिदस्मानिति शेषिताशा ।भून्महेन्द्रादिचतुष्टयी साचतुर्नली काचिदलीकरूपा ॥१८॥प्रयस्यतां तद्भवितुं सुराणांदृष्टेन पृष्टेन परस्परेण ।नैवानुमेने नलसाम्यसिद्धिःस्वाभाविकात्कृत्रिममन्यदेव ॥१९॥पूर्णेन्दुमास्यं विदधुः पुनस्तेपुनर्मुखीचक्रुरनिद्रमब्जम् ।स्ववक्त्रमादर्शतलेऽथ दर्शंदर्शं बभञ्जुर्न तथातिमञ्जु ॥२०॥तेषां तदा लब्धुमनीश्वराणांश्रियं निजास्येन नलाननस्य ।नालं तरीतुं पुनरुक्तिदोषंबर्हिर्मुखानामनलाननत्वम् ॥२१॥प्रियावियोगक्वथितादिवैला-च्चन्द्राच्च राहुग्रहपीडितात्ते ।ध्माताद्भवेन स्मरतोऽपि सारैःस्वं कल्पयन्ति स्म नलानुकल्पम् ॥२२॥नलस्य पश्यत्वियदन्तरंतैर्भैमीति भूपान्विधिराहृतास्यै ।स्पर्धां दिगीशानपि कारयित्वातस्यैव तेभ्यः प्रथिमानमाख्यत् ॥२३॥सभा नलश्रीयमकैर्यमाद्यैःनलं विनाभूद्धृतदिव्यरत्नैः ।भामाङ्गणप्राधुणिके चतुर्भि-र्देवद्रुमैर्द्यौरिव पारिजाते ॥२४॥तत्रागमद्वासुकिरीशभूषाभस्मोपदेहस्फुटगौरदेहः ।फणीन्द्रवृन्दप्रणिगद्यमान-प्रसीदजीवाद्यनुजीविवादः ॥२५॥द्वीपान्तरेभ्यः पुटभेदनं तत्क्षणादवापे सुरभूमिभूपैः ।तत्कालमालम्बि न केन यूनास्मरेषुपक्षानिलतूललीला ॥२६॥रम्येषु हर्म्येषु निवेशनेनसपर्यया कुण्डिननाकनाथः ।प्रियोक्तिदानादरनम्रताद्यै-रुपाचरच्चारु स राजचक्रम् ॥२७॥चतुःसमुद्रीपरिखे नृपाणाम्अन्तः पुरे वासितकीर्तिदारे ।दानं दया सूनृतमातिथेयीचतुष्टयी रक्षणसौविदल्ला ॥२८॥अभ्यागतैः कुण्डिनवासवस्यपरोक्षवृत्तेष्वपि तेषु तेषु ।जिज्ञासितस्वेप्सितलाभलिङ्गंस्वल्पोऽति नावापि नृपैर्विशेषः ॥२९॥अङ्के विदर्भेन्द्रपुरस्य शङ्केन संममौ नैष तथा समाजः ।यथा पयोराशिरगस्त्यहस्तेयथा जगद्वा जठरे मुरारेः ॥३०॥पुरे पथि द्वारगृहाणि तत्रचित्रीकृतान्युत्सववाञ्छयेव ।नभोऽपि किर्मीरमकारि तेषांमहीभुजामाभरणप्रभाभिः ॥३१॥विलासवैदग्ध्यविभूषणश्री-स्तेषां यथासीत्परिचारकेऽपि ।अज्ञासिषुः स्त्रीशिशुबालिशास्तंयथागतं नायकमेव कंचित् ॥३२॥न स्वेदिनश्चामरमारुतैर्ननिमेषनेत्राः प्रतिवस्तुचित्रैः ।म्लानस्रजो नातपवारणेनदेवा नृदेवा बिभिदुर्न तत्र ॥३३॥अन्योन्यभाषानवबोधभीतेःसंस्कृत्रिमाभिर्व्यवहारवत्सु ।दिग्भ्यः समेतेषु नृपेषु तेषुसौवर्गवर्गो न जनैरचिह्नि ॥३४॥ते तत्र भैम्याश्चरितानि चित्रेचित्राणि पौरैः पुरि लेखितानि ।निरीक्ष्य निन्युर्दिवसं निशां चतत्स्वप्नसंभोगकलाविलासैः ॥३५॥सा विभ्रमं स्वप्नगतापि तस्यांनिशि स्वलाभस्य ददे यदेभ्यः ।तदर्थिनां भूमिभुजां वदान्यासती सती पूरयति स्म कामम् ॥३६॥वैदर्भदूतानुनयोपहूतैःशृङ्गारभङ्गीरनुभावयद्भिः ।स्वयंवरस्थानजनाश्रयस्तै-र्दिने परत्रालमकारि वीरैः ॥३७॥भूषाभिरुच्चैरपि संस्कृते यंवीक्ष्याकृत प्राकृतबुद्धिमेव ।प्रसूनबाणे विबुधाधिनाथ-स्तेनाथ साऽशोभि सभा नलेन ॥३८॥धृताङ्गरागे कलितद्युशोभांतस्मिन्सभां चुम्बति राजचन्द्रे ।गता बताक्ष्णोर्विषयं विहायक्व क्षात्त्रनक्षत्त्रकुलस्य कान्तिः ॥३९॥द्राग्दृष्टयः क्षोणिभुजाममुष्मीन्नाश्चर्यपर्युत्सुकिता निपेतुः ।अनन्तरं दन्तुरितभ्रुवां तुनितान्तमीर्ष्याकलुषा दृगन्ताः ॥४०॥सुधांशुरेषु प्रथमो भुवीतिस्मरो द्वितीयः किमसावितीमम् ।दस्रस्तृतीयोऽयमिति क्षितीशाःस्तुतिच्छलान्मत्सरिणो निनिन्दुः ॥४१॥आद्यं विधोर्जन्म स एषभूमौ द्वैतं युवासौ रतिवल्लभस्य ।नासत्ययोर्मूर्तितृतीयताय-मिति स्तुतस्तैः कृतमत्सरैः सः ॥४२॥मायानलोदाहरणान्मिथस्तै-रूचे समाः सन्त्यमुना कियन्तः ।आत्मापकर्षे सति मत्सराणांद्विषः परस्पर्धनया समाधिः ॥४३॥गुणेन केनापि जनेऽनवद्येदोषान्तरोक्तिः खलु तत्खलत्वम् ।रूपेण तत्संसददूषितस्यसुरैर्नरत्वं यददूषि तस्य ॥४४॥नलानसत्यानवदत्स सत्यःकृतोपवेशान्सविधे सुवेषान् ।नोभाविलाभूः किमु दर्पकश्चभवन्ति नासत्ययुतौ भवन्तः ॥४५॥अमी तमीदृग्जगुरत्र मध्येकस्यापि नोत्पत्तिरभूदिलायाम् ।अदर्पकाः स्मः सविधे स्थितास्तेनासत्यतां नात्र बिभर्ति कश्चित् ॥४६॥तेभ्यः परान्नः परिकल्पयस्वश्रिया विदूरीकृतकामदेवान् ।अस्मिन्समाजे बहुषु भ्रमन्तीभैमी किलास्मासु घटिष्यतेऽसौ ॥४७॥असाम यन्नाम तवेह रूपंस्वेनाधिगत्य श्रितमुग्धभावाः ।तन्नो धिगाशापतितान्नरेन्द्रधिक्चेदमस्मद्विबुधत्वमस्तु ॥४८॥सा वागवाज्ञायितमां नलेनतेषामनाशङ्कितवाक्छलेन ।स्त्रीरत्नलाभोचितयत्नमग्न-मेनं हि न स्म प्रतिभाति किंचित् ॥४९॥यः स्पर्धया येन निजप्रतिष्ठांलिप्सुः स एवाह तदुन्नतत्वम् ।कः स्पर्धितुः स्वाभिहितस्वहानेःस्थानेऽवहेलां बहुलां न कुर्यात् ॥५०॥गीर्देवतागीतयशःप्रशस्तिःश्रिया तडित्त्वल्ललिताभिनेता ।मुदा तदाऽवैक्षत केशवस्तंस्वयंवराडम्बरमम्बरस्थः ॥५१॥अष्टौ तदाष्टासु हरित्सु दृष्टीःसदो दिदृक्षुर्निदिदेश देवः ।लैङ्गीमदृष्ट्वापि शिरःश्रियं योदृष्टौ मृषावादितकेतकीकः ॥५२॥एकेन पर्यक्षिपदात्मनाद्रिंचक्षुर्मुरारेरभवत्परेण ।तैर्द्वादशात्मा दशभिस्तु शेषै-र्दिशो दशालोकत लोकपूर्णाः ॥५३॥प्रदक्षिणं दैवतहर्म्यमद्रिंसदैव कुर्वन्नपि शर्वरीशः ।द्रष्टा महेन्द्रानुजदृष्टिमूर्त्यान प्राप तद्दर्शनविघ्नतापम् ॥५४॥आलोकमाना वरलोकलक्ष्मींतात्कालिकीमप्सरसो रसोत्काः ।जनाम्बुधौ यत्र निजाननानिवितेनुरम्भोरुहकाननानि ॥५५॥न यक्षलक्षैः किमलक्षि नो वासिद्धैः किमध्यासि समाप्तशोभा ।सा किंनरैः किं न रसादसेविनादर्शि हर्षेण महर्षिभिर्वा ॥५६॥वाल्मीकिरश्लाघत तामनेक-शाखत्रयीभूरुहराजिभाजा ।क्लेशं विना कण्ठपथेन यस्यदैवी दिवः प्राग्भुवमागमद्वाक् ॥५७॥प्राशंसि संसद्गुरुणापि चार्वीचार्वाकतासर्वविदूषकेण ।आष्थानपट्टं रसनां यदीयांजानामि वाचामधिदेवतायाः ॥५८॥नाकेऽपि दीव्यत्तमदिव्यवाचिवचःस्रगाचार्यकवित्कविर्यः ।दैतेयनीतेः पथि सार्थवाहःकाव्यः स काव्येन सभामभाणीत् ॥५९॥अमेलयद्भीमनृपः परं ननाकर्षदेतान्दमनस्वसैव ।इदं विधातापि विचिन्त्य यूनःस्वशिल्पसर्वस्वमदर्शयन्नः ॥६०॥एकाकिभावेन पुरा पुरारिःयः पञ्चतां पञ्चशरं निनाय ।तद्भीसमाधानममुष्य कायनिकायलीलाः किममी युवानः ॥६१॥पूर्णेन्दुबिम्बाननुमासभिन्ना-नस्थापयत्क्वापि निधाय वेधाः ।तैरेव शिल्पी निरमादमीषांमुखानि लावण्यमयानि मन्ये ॥६२॥मुधार्पितं मूर्धसु रत्नमेभि-र्यन्नाम तानि स्वयमेत एव ।स्वतःप्रकाशे परमात्मबोधेबोधान्तरं न स्फुरणाऋथमर्थ्यम् ॥६३॥प्रवेक्ष्यतः सुन्दरवृन्दमुच्चै-रिदं मुदा चेदितरेतरं तत् ।न शक्ष्यतो लक्षयितुं विमिश्रंदस्रौ सहस्रैरपि वत्सराणाम् ॥६४॥स्थितैरियद्भिर्युवभिर्विदग्धै-र्दग्धेऽपि कामे जगतः क्षतिः का ।एकाम्बुबिन्दुव्ययमम्बुराशेःपूर्णस्य कः शंसति शोषदोषम् ॥६५॥इति स्तुवन्हुंकृतिवर्गणाभि-र्गन्धर्ववर्गेण स गायतैव ।ओंकारभूम्ना पठतैव वेदान्महर्षिवृन्देन तथाऽन्वमानि ॥६६॥न्यवीविशत्तानथ राजसिंहान्सिंहासनौघेषु विदर्भराजः ।शृङ्गेषु यत्र त्रिदशैरिवैभिःअशोभि कार्तस्वरभूधरस्य ॥६७॥विचिन्त्य नानाभुवनागतांस्ता-नमर्त्यसंकीर्त्यचरित्रगोत्रान् ।कथ्याः कथंकारममी सुतायाम्इति व्यषादि क्षितिपेन तेन ॥६८॥श्रद्धालुसंकल्पितकल्पनायांकल्पद्रुमस्याथ रथाङ्गपाणेः ।तदाकुलोऽसौ कुलदैवतस्यस्मृतिं ततान क्षणमेकतानः ॥६९॥तच्चिन्तनानन्तरमेव देवःसरस्वतीं सस्मितमाह स स्म ।स्वयंवरे राजकगोत्रवृत्त-वत्त्रीमिह त्वां करवाणि वाणि ॥७०॥कुलं च शीलं च बलं च यूनांजानासि नानाभुवनागतानाम् ।एषामतस्त्वं भव वावदूकामूकायितुं कः समयस्तवायम् ॥७१॥जगत्त्रयीपण्डितमण्डितैषासभा न भूता च न भाविनी च ।राज्ञां गुणज्ञापनकैतवेनसंख्यावतः श्रावय वाङ्मुखानि ॥७२॥इतीरिता तच्चरणात्परागंगीर्वाणचूडामणिमृष्टशेषम् ।तस्य प्रसादेन सहाज्ञयासा-वादाय मूर्ध्नादरिणी बभार ॥७३॥मध्येसभं सावततार बालागन्धर्वविद्याधरकण्ठनाला ।त्रयीमयीभूतवलीविभङ्गासाहित्यनिर्वर्तितदृक्तरङ्गा ॥७४॥आसीदथर्वा त्रिवलित्रिवेदीमूलाद्विनिर्गत्य वितायमाना ।नानाभिचारोचितमेचकश्रीःश्रुतिर्यदीयोदररोमरेखा ॥७५॥शिक्षैव साक्षाच्चरितं यदीयंकल्पश्रियाकल्पविधिर्यदीयः ।यस्याः समस्तार्थनिरुक्तिरूपै-र्निरुक्तिविद्या खलु पर्यणंसीत् ॥७६॥जात्या च वृत्तेन च भिद्यमानंछन्दो भुजद्वन्द्वमभूद्यदीयम् ।श्लोकार्धविश्रान्तिमयीभविष्णुपर्वद्वयीसन्धिसुचिह्नमध्यम् ॥७७॥असंशयं सा गुणदीर्घभाव-कृता दधाना विततिं यदीया ।विधायिका शब्दपरम्पराणांकिं वारचि व्याकरणेन काञ्ची ॥७८॥स्थितैव कण्ठे परिणम्य हार-लता बभूवोदिततारवृत्ता ।ज्योतिर्मयी यद्भजनाय विद्यामध्येङ्गमङ्केन भृता विशङ्के ॥७९॥अवैमि वादिप्रतिवादिगाढ-खपक्षरागेण विराजमाने ।ते पूर्वपक्षोत्तरपक्षशास्त्रेरदच्छदौ भूतवती यदीयौ ॥८०॥ब्रह्मार्थकर्मार्थकवेदभेदाद्विधा विधाय स्थितयात्मदेहम् ।चक्रे पराच्छादनचारु यस्यामीमांसया मांसलमूरुयुग्मम् ॥८१॥उद्देशपर्वण्यपि लक्षणेऽपिद्विधोदितैः षोडशभिः पदार्थैः ।आन्वीक्षिकीं यद्दशनद्विमालींतां मुक्तिकामाकलितां प्रतीमः ॥८२॥तर्का रदा यद्वदनस्य तर्क्यावादेऽस्य शक्तिः क्व तथाऽन्यथा तैः ।पत्त्रं क्व दातुं गुणशालिपूगंक्व वादतः खण्डयितुं प्रभुत्वम् ॥८३॥सपल्लवं व्यासपराशराभ्यांप्रणीतभावादुभयीभविष्णु ।तन्मत्स्यपद्माद्युपलक्ष्यमाणंयत्पाणियुग्मं ववृते पुराणम् ॥८४॥आकल्पविच्छेदविवर्जितो यःस धर्मशास्त्रव्रज एव यस्याः ।पश्यामि मूर्धा श्रुतिमूलशालीकण्ठस्थितः कस्य मुदे न वृत्तः ॥८५॥भ्रुवौ दलाभ्यां प्रणवस्य यस्या-स्तद्बिन्दुना भालतमालपत्त्रम् ।तदर्धचन्द्रेण विधिर्विपञ्चीनिक्वाणनाकोणधनुः प्रणिन्ये ॥८६॥द्विकुण्डली वृत्तसमाप्तिलिप्याकराङ्गुली काञ्चनलेखनीनाम् ।कैश्यं मषीणां स्मितभा कठिन्याःकाये यदीये निरमायि सारैः ॥८७॥या सोमसिद्धान्तमयाननेवशून्यात्मतावादमयोदरेव ।विज्ञानसामस्त्यमयान्तरेवसाकारतासिद्धिमयाखिलेव ॥८८॥भीमस्तयागद्यत मोदितुं तेवेला किलेयं तदलं विषद्य ।मया निगाद्यं जगतीपतीनांगोत्रं चरित्रं च विचित्रमेषाम् ॥८९॥अविन्दतासौ मकरन्दलीलांमन्दाकिनी यच्चरणारविन्दे ।अत्रावतीर्णा गुणवर्णनायराज्ञां तदाज्ञावशगास्मि कापि ॥९०॥तत्कालवेद्यैः शकुनस्वराद्यै-राप्तामवाप्तां नृपतिः प्रतीत्य ।तां लोकपालैकधुरीण एषतस्यै सपर्यामुचितां दिदेश ॥९१॥दिगन्तरेभ्यः पृथिवीपतीना-माकर्षकौतूहलसिद्धविद्याम् ।ततः क्षितीशः स निजां तनूजांमध्येमहाराजकमाजुहाव ॥९२॥दासीषु नासीरचरीषु जातंस्फीतं क्रमेणालिषु वीक्षितासु ।स्वाङ्गेषु रूपोत्थमथाद्भुताब्धि-मुद्वेलयन्तीमवलोककानाम् ॥९३॥स्निग्धत्वमायाजललेपलोप-सयत्नरत्नांशुमृजांशुकाभाम् ।नेपथ्यहीरद्युतिवारिवर्ति-स्वच्छायसच्छायनिजालिजालाम् ॥९४॥विलेपनामोदमुदागतेनतत्कर्णपूरोत्पलसर्पिणा च ।रतीशदूतेन मधुव्रतेन कर्णेरहः किंचिदिवोच्यमानाम् ॥९५॥विरोधिवर्णाभरणाश्मभासांमल्लाजिकौतूहलमीक्षमाणाम् ।स्मरस्वचापभ्रमचालिते नुभ्रुवौ विलासाद्वलिते वहन्तीम् ॥९६॥सामोदपुष्पाशुगवासिताङ्गींकिशोरशाखाग्रशयालिमालाम् ।वसन्तलक्ष्मीमिव राजभिस्तैःकल्पद्रुमैरप्यभिलष्यमाणाम् ॥९७॥पीतावदातारुणनीलभासांदेहोपदेहात्किरणैर्मणीनाम् ।गोरोचनाचन्दनकुङ्कुमैण-नाभीविलेपान्पुनरुक्तयन्तीम् ॥९८॥स्मरं प्रसूनेन शरासनेनजेतारमश्रद्दधतीं नलस्य ।तस्मै स्वभूषादृषदंशुशिल्पंबलद्विषः कार्मुकमर्पयन्तीम् ॥९९॥विभूषाणेभ्योऽवरमंशुकेषुततोऽवरं सान्द्रमणिप्रभासु ।सम्यक्पुनः क्वापि न राजकस्यपातुं दृशा धातृधृतावकाशाम् ॥१००॥प्राक्पुष्पवर्षैर्वियतः पतद्भि-र्द्रष्टुं न दत्तामथ न द्विरेफैः ।तद्भीतिभुग्नेन ततो मुखेनविधेरहो वाञ्छितविघ्नयत्नः ॥१०१॥एतद्वरं स्यामिति राजकेनमनोरथातिथ्यमवापिताय ।सखीमुखायोत्सृजतीमपाङ्गात्कर्पूरकस्तूरिकयोः प्रवाहम् ॥१०२॥स्मितेच्छुदन्तच्छदकम्पकिंचि-द्दिगम्बरीभूतरदांशुवृन्दैः ।आनन्दितोर्वीन्द्रमुखारविन्दै-र्मन्दं नुदन्तीं हृदि कौमुदीनाम् ॥१०३॥प्रत्यङ्गभूषाच्छमणिच्छलेनयल्लग्नतन्निश्चललोकनेत्राम् ।हाराग्रजाग्रद्गरुडाश्मरश्मि-पीनाभनाभीकुहरान्धकाराम् ॥१०४॥तद्गौरसारस्मितविस्मितेन्दु-प्रभाशिरःकम्परुचोऽभिनेतुम् ।विपाण्डुतामण्डितचामराली-नानामरालीकृतलास्यलीलाम् ॥१०५॥तदङ्गभोगावलिगायनीनांमध्ये निरुक्तिक्रमकुण्ठितानाम् ।स्वयं धृतामप्सरसां प्रसादंह्रियं हृदो मण्डनमर्पयन्तीम् ॥१०६॥तारा रदानां वदनस्य चन्द्रंरुचा कचानां च नभो जयन्तीम् ।आकण्ठमक्ष्णोर्द्वितयं मधूनिमहीभुजः कस्य न भोजयन्तीम् ॥१०७॥अलंकृताङ्गाद्भुतकेवलाङ्गींस्तवाधिकाध्यक्षनिवेद्यलक्ष्मीम् ।इमां विमानेन सभां विशन्तींपपावपाङ्गैरथ राजराजिः ॥१०८॥आसीदसौ तत्र न कोऽपि भूप-स्तन्मूर्तिरूपोद्भवदद्भुतस्य ।उल्लेसुरङ्गानि मुदा न यस्यविनद्ररोमाङ्कुरदन्तुराणि ॥१०९॥अङ्गुष्ठमूर्ध्ना विनिपीडितायामध्येन भागेन च मध्यमायाः ।आस्फोटि भैमीमवलोक्य तत्रन तर्जनी केन जनेन नाम ॥११०॥अस्मिन्समाजे मनुजेश्वरेणतां खञ्जनाक्षीमंवलोक्य केन ।पुनः पुनर्लोलितमौलिना नभ्रुवोरुदक्षेपितरां द्वयी वा ॥१११॥स्वयंवरस्याजिरमाजिहानांविभाव्य भैमीमथ भूमिनाथैः ।इदं मुदा विह्वलचित्तभावाद-वापि खण्डाक्षारजिह्मजिह्वम् ॥११२॥रम्भादिलोभात्कृतकर्मभिर्माशून्यैव भूर्भूत्सुरभूमिपान्थैः ।इत्येतयालोपि दिवोऽपि पुंसांवैमत्यमत्यप्सरसा रसायाम् ॥११३॥रूपं यदाकर्ण्य जनाननेभ्य-स्तत्तद्दिगन्ताद्वयमागमाम ।सौन्दर्यसारादनुभूयमाना-दस्यास्तदस्माद्बहु नाकनीयः ॥११४॥रसस्य शृङ्गार इति श्रुतस्यक्व नाम जागर्ति महानुदन्वान् ।कस्मादुदस्थादियमन्यथा श्री-र्लावण्यवैदग्ध्यनिधिः पयोधेः ॥११५॥साक्षात्सुधांशुर्मुखमेव भैम्यादिवः स्फुटं लाक्षणिकः शशाङ्कः ।एतद्भुवौ मुख्यमनङ्गचापंपुष्पं पुनस्तद्गुणमात्रवृत्त्या ॥११६॥लक्ष्ये धृतं कुण्डलिके सुदत्याताटङ्कयुग्मं स्मरधन्विने किम् ।सव्यापसव्यं विशिखा विसृष्टा-स्तेनानयोर्यान्ति किमन्तरेव ॥११७॥तनोत्यकीर्तिं कुसुमाशुगस्यसैषा बतेन्दीवरकर्णपूरौ ।यतः श्रवःकुण्डलिकापराद्धशरंखलः ख्यापयिता तमाभ्याम् ॥११८॥रजःपदं षट्पदकीटजुष्टंहित्वात्मनः पुष्पमयं पुराणम् ।अद्यात्मभूराद्रियतां स भैम्याभ्रूयुग्ममन्तर्धृतमुष्टि चापम् ॥११९॥पद्मान्हिमे प्रावृषि खञ्जरीटा-न्क्षिप्नुर्यमादाय विधिः क्वचित्तान् ।सारेण तेन प्रतिवर्षमुच्चैःपुष्णाति दृष्टिद्वयमेतदीयम् ॥१२०॥एतादृशोरम्बुरुहैर्विशेषंभृङ्गौ जनः पृच्छतु तद्गुणज्ञौ ।इतीव धाताकृत तारकालि-स्त्रीपुंसमाध्यस्थ्यमिहाक्षियुग्मे ॥१२१॥व्यधत्ते सौधे रतिकामयोस्त-द्भक्तं वयोऽस्या हृदि वासभाजोः ।तदग्रजाग्रत्पृथुशातकुम्भ-कुम्भौ न संभावयति स्तनौ कः ॥१२२॥अस्या भुजाभ्यां विजिताद्बिसाक्तिंपृथक्करोऽगृह्यत तत्प्रसूनम् ।इहेष्यते तन्न गृहाः श्रियः कै-र्न गीयते वा कर एव लोकैः ॥१२३॥छद्मैव तच्छम्बरजं बिसिन्या-स्तत्पद्ममस्यास्तु भुजाग्रसदम् ।उत्कण्टकादुद्गमनेन नाला-दुत्कण्टकं शातशिखैर्नखैर्यत् ॥१२४॥जागर्ति मर्त्येषु तुलार्थमस्यायोग्येति योग्यानुपलम्भनं नः ।यद्यस्ति नाके भुवनेऽथ वाध-स्तदा न कौतस्कुतलोकबाधः ॥१२५॥नमः करेभ्योऽस्तु विधेर्न वास्तुस्पृष्टं धियाप्यस्य न किं पुनस्तैः ।स्पर्शादिदं स्याल्लुलितं हि शिल्पंमनोभुवोऽनङ्गतयानुरूपम् ॥१२६॥इमां न मृद्वीमसृजत्कराभ्यांवेधा कुशाध्यासनकर्कशाभ्याम् ।शृङ्गारधारां मनसा न शान्ति-विश्रान्तिधन्वाध्वमहीरुहेण ॥१२७॥उल्लास्य धातुस्तुलिता करेणश्रोणौ किमेषा स्तनयोर्गुरुर्वा ।तेनान्तरालैस्त्रिभिरङ्गुलीना-मुदीतमध्यत्रिवलीविलासा ॥१२८॥निजामृतोद्यन्नवनीतजाङ्गी-मेतां क्रमोन्मीलितपीतिमानम् ।कृत्वेन्दुरस्या मुखमात्मनाभू-न्निद्रालुना दुर्घटमम्बुजेन ॥१२९॥अस्याः स चारुर्मधुरेव कारुःश्वासं वितेने मलयानिलेन ।अमूनि सूनैर्विदधेऽङ्गकानिचकार वाचं पिकपञ्चमेन ॥१३०॥कृतिः स्मरस्यैव न धातुरेषानास्या हि शिल्पीतरकारुजेयः ।रूपस्य शिल्पे वयसाऽपि वेधानिजीयते स स्मरकिङ्करेण ॥१३१॥गुरोरपीमां भणदोष्ठकण्ठंनिरुक्तिगर्वच्छिदया विनेतुम् ।श्रमः स्मरस्यैव भवं विहायमुक्तिं गतानामनुतापनाय ॥१३२॥आख्यातुमक्षिव्रजसर्वपीतांभैमीं तदेकाङ्गनिखातदृक्षु ।गाथासुधाश्लेषकलाविलासै-रलंचकाराननचन्द्रमिन्द्रः ॥१३३॥स्मितेन गौरी हरिणी दृशेयंवीणावती सुस्वरकण्ठभासा ।हेमेव कायप्रभयाङ्गशेषैस्तन्वीमतिं क्रामति मे न कापि ॥१३४॥इति स्तुवानः सविधे नलेनविलोकितः शङ्कितमानसेन ।व्याकृत्य मर्त्योचितमर्थमुक्ते-राखण्डलस्तस्य नुनोद शङ्काम् ॥१३५॥स्वं नैषधादेशमहो विधायकार्यस्य हेतोरपि नानलः सन् ।किं स्थानिवद्भावमधत्त दुष्टंतादृक्कृतव्याकरणः पुनः सः ॥१३६॥इयमियमधिरथ्यं याति नेपथ्यमञ्जु-र्विशतिविशति वेदीमुर्वशी सेयमुर्व्याः ।इति जनजनितैः सानन्दनादैर्विजघ्नेनलहृदि परभैमीवर्णनाकर्णनाप्तिः ॥१३७॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।तर्केष्वप्यसमश्रमस्य दशमस्तस्य व्यरंसीन्महा-काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥१३८॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP