संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| द्वादश सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - द्वादश सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत द्वादश सर्गः Translation - भाषांतर प्रियाह्रियालम्ब्य विलम्बमाविलाविलासिनः कुण्डिनमण्डनायितम् ।समाजमाजग्मुरथो रथोत्तमाःतमा समुद्रादपरेऽपरे नृपाः ॥१॥ततः स भैम्या ववृते वृते नृपैःर्विनिःश्वसद्भिः सदसि स्वयंवरः ।चिरागतैस्तर्किततद्विरागितैःस्फुरद्भिरानन्दमहार्णवैर्नवैः ॥२॥चलत्पदस्तत्पदयन्त्रणेङ्गितःफुटाशयामासयति स्म राजके ।शृअमं गता यानगतावपीयम्इत्युदीर्य धुर्यः कपटाज्जनीं जनः ॥३॥नृपानुपक्रम्य विभूषितासना-न्सनातनी सा सुषुवे सरस्वती ।विहारमारभ्य सरस्वतीःसुधासरःस्वतीवार्द्रतनूरनूत्थिताः ॥४॥वृणीष्व वर्णेन सुवर्णकेतकी-प्रसूनवर्णादृतुपर्णमादृतम् ।निजामयोध्यामपि पावनीमयंभवन्मयो ध्यायति नावनीपतिः ॥५॥न पीयतां नाम चकोरजिह्वयाकथंचिदेतन्मुखचन्द्रचन्द्रिका ।इमां किमाचामयसे न चक्षुषीचिरं चकोरस्य भवन्मुखस्पृशी ॥६॥अपां विहारे तव हारविभ्रमंकरोतु नीरे पृषदुत्करस्तरन् ।कठोरपीनोच्चकुचद्वयीतट-त्रुट्यत्तरः सारवसारवोर्मिजः ॥७॥अखानि सिन्धुः समपूरि गङ्गयाकुले किलास्य प्रसभं स भन्त्स्यते ।विलङ्घ्यते चास्य यशःशतैरहोसतां महत्संमुखधावि पौरुषम् ॥८॥एतद्यशःक्षीरधिपूरगाहिपतत्यगाधे वचनं कवीनाम् ।एतद्गुणानां गणनाङ्कपातःप्रत्यर्थिकीर्तीः खटिकाः क्षिणोति ॥९॥भास्वद्वंशकरीरतां दधदयं वीरः कथं कथ्यता-मध्युष्टापि हि कोटिरस्य समरे रोमाणि सत्त्वाङ्कुराः ।नीतः संयति बन्दिभिः श्रुतिपथं यन्नामवर्णावली-मन्त्रः स्तम्भयति प्रतिक्षितिभृतां दोस्तम्भकुम्भीनसान् ॥१०॥तादृग्दीर्घविरिञ्चिवासरविधौ जानामि यत्कर्तृतांशङ्के यत्प्रतिबिम्बमम्बुधिपयःपूरोदरे वाडवः ।व्योमव्यापिविपक्षराजकयशस्ताराः पराभावुकःकासामस्य न स प्रतापतपनः पारं गिरां गाहते ॥११॥द्वेष्याकीर्तिकलिन्दशैलसुतया नद्यास्य यद्दोर्द्वयीकीर्तिश्रेणिमयी समागममगाद्गङ्गा रणप्राङ्गणे ।तत्तस्मिन्विनिमज्ज्य बाहुजभटैरारम्भि रम्भापरी-रम्भानन्दनिकेतनन्दनवनक्रीडादराडम्बरः ॥१२॥इति श्रुतिस्वादिततद्गुणस्तुतिःसरस्वतीवाङ्मयविस्मयोत्थया ।शिरस्तिरःकम्पनयैव भीमजान तं मनोरन्वयमन्वमन्यत ॥१३॥युवान्तरं सा वचसामधीश्वरास्वरामृतन्यक्कृतमत्तकोकिला ।शशंस संसक्तकरैव तद्दिशानिशापतिज्ञातिमुखीमिमां प्रति ॥१४॥न पाण्ड्यभूमण्डनमेणलोचनेविलोचनेनापि नृपं पिपाससि ।शशिप्रकाशाननमेनमीक्षितुंतरङ्गयापाङ्गदिशा दृशोस्त्विषः ॥१५॥भुवि भ्रमित्वानवलम्बमम्बरेविहर्तुमभ्यासपरम्परापरा ।अहो महावंशममुं समाश्रितासकौतुकं नृत्यति कीर्तिनर्तकी ॥१६॥इतो भिया भूपतिभिर्वनंवनादटद्भिरुच्चैरटवीत्वमीयुषी ।निजापि सावापि चिरात्पुनः पुरीपुनः स्वमध्यासि विलासमन्दिरम् ॥१७॥आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्तिःसप्ताकूपारपारीसदनजनघनोद्गीतचापप्रतापः ।वीरादस्मात्परः कः पदयुगयुगपत्पातिभूपातिभूय-श्चूडारत्नोडुपत्नीकरपरिचरणामन्दनन्दन्नखेन्दुः ॥१८॥भङ्गाकीर्तिमषीमलीमसतमप्रत्यर्थिसेनाभट-श्रेणीतिन्दुककाननेषु विलसत्यस्य प्रतापानलः ।तस्मादुत्पतिताः स्फुरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटंभालोद्भूतभवाक्षिभानुहुतभुग्जम्भारिदम्भोलयः ॥१९॥एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवंसङ्ग्रामाङ्गणसीम्नि जङ्गमगिरिस्तोमभ्रमाधायिभिः ।पृथ्वीन्द्रः पृथुरेतदुग्रसमरप्रेक्षोपनम्रामर-श्रेणीमध्यचरः पुनः क्षितिधरक्षेपाय धत्ते धियम् ॥२०॥शशंस दासीङ्गितविद्विदर्भ-जामितो ननु स्वामिनि पश्य कौतुकम् ।यदेष सौधाग्रनटे पटाञ्चलेचलेऽपि काकस्य पदार्पणग्रहः ॥२१॥ततस्तदप्रस्तुतभाषितोत्थितैःसदस्तदश्वेति हसैः सदःसदाम् ।स्फुटाजनि म्लानिरतोऽस्य भूपतेःसिते हि जायेत शितेः सुलक्ष्यता ॥२२॥ततोऽनु देव्या जगदे महेन्द्र-भूपुरंदरं सा जगदेकवन्द्यया ।तदार्जवावर्जिततर्जनीकयाजनी कयाचित्परचित्स्वरूपया ॥२३॥स्वयंवरोद्वाहमहे वृणीष्व हेमहेन्द्रशैलस्य महेन्द्रमागतम् ।कलिङ्गजानां स्वकुचद्वयश्रियाकलिं गजानां शृणु तत्र कुम्भयोः ॥२४॥अयं किलायात् इतीरिपौरवा-ग्भयादयादस्य रिपुर्वृथा वनम् ।श्रुताष्तदुत्स्वापगिरस्तदक्षाराःपठद्भिरत्रासि शुकैर्वनेऽपि सः ॥२५॥इतस्त्रसद्विद्रुतभूभृदुज्झिताप्रियाथ दृष्टा वनमानवीजनैः ।शशंस पृष्टाद्भुतमात्मदेशजंशशित्विषः शीतलशीलतां किल ॥२६॥इतोऽपि किं वीरयसे न कुर्वतोनृपान्धनुर्बाणगुणैर्वशंवदान् ।गुणेन शुद्धेन विधाय निर्भरंतमेनमुर्वीवलयोर्वशी वशम् ॥२७॥एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्तीस्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थितोन्निद्रचन्द्रा ।आक्रन्दद्भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्ब-प्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन्न्यश्वसीच्च ॥२८॥अस्मिन्दिग्विजयोद्यते पतिरयं मे स्तादिति ध्यायिनीकम्पं सात्त्विकभावमञ्चति रिपुक्षोणीन्द्रदारा धरा ।अस्यैवाभिमुखं निपत्य समरे यास्यद्भिरूर्ध्वं निजःपन्था भास्वति दृश्यते बिलमयः प्रत्यर्थिभिः पाऋथिवैः ॥२९॥विद्राणे रणचत्वरादरिगणे त्रस्ते समस्ते पुनःकोपात्कोऽपि निवर्तते यदि भटः कीर्त्या जगत्युद्भटः ।आगच्छन्नपि संमुखं विमुखतामेवाधिगच्छत्यसौद्रागेतच्छुरिकारयेण ठणिति च्छिन्नापसर्पच्छिराः ॥३०॥ततस्तदुर्वीन्द्रगुणाद्भुतादिवस्ववक्त्रपद्मेऽङ्गुलिनालदायिनी ।विधीयतामाननमुद्रणेति साजगाद वैदग्ध्यमयेङ्गितैव ताम् ॥३१॥अनन्तरं तामवदन्नृपान्तरंतदध्वदृक्तारतरङ्गरङ्गणा ।तृणीभवत्पुष्पशरं सरस्वतीस्वतीव्रतेजःपरिभूतभूतलम् ॥३२॥तदेव किं न क्रियते नु का क्षति-र्यदेष तद्दूतमुखेन काङ्क्षति ।प्रसीद काञ्चीमयमाच्छिनत्तु तेप्रसह्य काञ्चीपुरभूपुरंदरः ॥३३॥मयि स्थितिर्नम्रतयैव लभ्यतेदिगेव तु स्तब्धतया विलङ्घ्यते ।इतीव चापं दधदाशुगं क्षिपन्नयंनयं सम्यगुपादिशद्द्विषाम् ॥३४॥अदःसमित्संमुखवीरयौवत-त्रुटद्भुजाकम्बुमृणालहारिणी ।द्विषद्गणस्त्रैणदृगम्बुनिर्झरेयशोमरालावलिरस्य खेलति ॥३५॥सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावध्रिश्यामिकेव्योमान्तस्पृशि सिन्धुरेऽस्य समरारम्भोद्धुरे धावति ।जानीमो नु यदि प्रदोषतिमिरव्यामिश्रसंध्याधिये-वास्तं यान्ति समस्तबाहुजभुजातेजःसहस्रांशवः ॥३६॥हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदोषस्फुटा-सीदन्मर्कटकीटकृत्रिमसितच्छत्त्रीभवत्कौस्तुभम् ।उज्झित्वा निजसद्म पद्ममपि तद्व्यक्तावनद्धीकृतंलूतातन्तुभिरन्तरद्य भुजयोः श्रीरस्य विश्राम्यति ॥३७॥सिन्धोर्जैत्रमयं पवित्रमसृजत्तत्कीर्तिपूर्ताद्भुतंयत्र स्नान्ति जगन्ति सन्ति कवयः केवा न वाचंयमाः ।यद्बिन्दुश्रियमिन्दुरञ्चति जलं चाविश्य दृश्येतरोयस्यासौ जलदेवतास्फटिकभूर्जागर्ति यागेश्वरः ॥३८॥अन्तःसंतोषबाष्पैः स्थगयति न दृशस्ताभिराकर्णयिष्य-न्नङ्गे नानस्तिरोमा रचयति पुलकश्रेणिमानन्दकन्दाम् ।न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन्न विद्मःशृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति ॥३९॥आचूडाग्रममज्जयज्जयपटुर्यच्छल्यदण्डानयंसंरम्भे रिपुराजकुञ्जरघटाकुम्भस्थलेषु स्थिरान् ।सा सेवास्य पृथुः प्रसीदति तया नास्मै कुतस्त्वत्कुच-स्पर्धागर्धिषु तेषु तान्धृतवते दण्डान्प्रदण्डानपि ॥४०॥स्मितश्रिया सृक्कणि लीयमानया-वितीर्णया तद्गुणशर्मणेव सा ।उपाहसत्कीर्त्यमहत्त्वमेव तंगिरां हि पारे निषधेन्द्रवैभवम् ॥४१॥निजाक्षिलक्ष्मीहसितैणशावका-मसावभाणीदपरं परंतपम् ।पुरैव तद्दिग्वलनश्रियां भुवा भ्रुवाविनिर्दिश्य सभासभाजितम् ॥४२॥कृपा नृपाणामुपरि क्वचिन्न तेनतेन हा हा शिरसा रसादृशाम् ।भवन्तु तावत्तव लोचनाञ्चलानिपेयनेपालनृपालपालयः ॥४३॥ऋजुत्वमौनश्रुतिपारगामितायदीयमेतत्परमेव हिंसितुम् ।अतीव विश्वासविधायि चेष्टितंबहुर्महानस्य स दाम्भिकः ॥४४॥शरः रिपूनवाप्यापि गतो-ऽवकीर्णितामयं न यावज्जनरञ्जनव्रती ।भृशं विरक्तानपि रक्तवत्तरा-न्निकृत्त्य यत्तानसृजासृजद्युधि ॥४५॥पतत्येतत्तेजोहुतभुजि कदाचिद्यदि तदापतङ्गः स्यादङ्गीकृततमपतङ्गापदुदयः ।यशोऽमुष्येवोपार्जयितुमसमर्थेन विधिनाकथंचित्क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः ॥४६॥यावत्पौलस्त्यवास्तूभवदुभयहरिल्लोमलेखोत्तरीयेसेतुप्रालेयशैलौ चरति नरपतेस्तावदेतस्य कीर्तिः ।यावत्प्राक्प्रत्यगाशापरिवृढनगरारम्भणस्तम्भमुद्रा-वद्री संध्यापताकारुचिरचितशिखाशोणशोभावुभौ च ॥४७॥युद्ध्वा चामिमुखं रणस्य चरणस्यैवादसीयस्य वाबुद्ध्वाऽन्तः स्वपरान्तरं निपततामुन्मुच्य बाणावलीः ।छिन्नं वावनतीभवन्निजभियः खिन्नं भरेणाथ वाराज्ञानेन हठाद्विलोठितमभूद्भूमावरीणां शिरः ॥४८॥न तूणादुद्धारे न गुणघटने नाश्रुतिशिखंसमाकृष्टौ दृष्टिर्न वियति न लक्ष्ये न च भुवि ।नृणां पश्यत्यस्य क्वचन विशिखान्किं तु पतित-द्विषद्वक्षःश्वभ्रैरनुमितिरसून्गोचरयति ॥४९॥दमस्वसुश्चित्तमवेत्य हासिकाजगाद देवीं कियदस्य वक्ष्यसि ।भण प्रभूते जगति स्थिते गुणै-रिहाप्यते संकटवासयातना ॥५०॥ब्रवीति दासीह किमप्यसंगतंततोऽपि नीचेयमति प्रगल्भते ।अहो सभा साधुरितीरिणः क्रुधान्यषेधदेतत्क्षितिपानुगाञ्जनः ॥५१॥अथान्यमुद्दिश्य नृपं कृपामयीमुखेन तद्दिङ्मुखसंमुखेन सा ।दमस्वसारं वदति स्म देवतागिरामिलाभूवदतिस्मरश्रियम् ॥५२॥विलोचनेन्दीवरवासवासितैःसितैरपाङ्गाध्वगचन्द्रिकाञ्चलैः ।त्रपामपाकृत्य निभान्निभालयक्षितिक्षितिं मालयमालयं रुचः ॥५३॥इमं परित्यज्य परं रणादरिःस्वमेव भग्नः शरणं मुधाविशत् ।न वेत्ति यत्त्रातुमितः कृतस्मयोन दुर्गया शैलभुवापि शक्यते ॥५४॥अनेन राज्ञार्थिषु दुर्भगीकृतोभवन्घनध्वानजरत्नमेदुरः ।तथा विदूराद्रिरदूरतां गमीयथा स गामी तव केलिशैलताम् ॥५५॥नम्रप्रत्यर्थिपृथ्वीपतिमुखकमलम्लानताभृङ्गजात-च्छायान्तःपातचन्द्रायितचरणनखश्रेणिरैणेयनेत्रे ।दृप्तारिप्राणवातामृतरसलहरीभूरिपानेन पीनंभूलोकस्यैष भर्ता भुजभुजगयुगं सांयुगीनं बिभर्ति ॥५६॥अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेष-स्याहेर्भूयः फणसमुचितः काययष्टीनिकायः ।दुग्धाम्भोधेर्मुनिचुलकनत्रासनाशाभ्युपायःकायव्यूहः क्व जगति न जागर्त्यदःकीर्तिपूरः ॥५७॥राज्ञामस्य शतेन किं कलयतो हेतिं शतघ्नीं कृतंलक्षैर्लक्षभिदो दशैव जयतः पद्मानि पद्मैरलम् ।कर्तुं सर्वपरिच्छिदः किमपि नो शक्यं परार्धेन वातत्संख्यापगमं विनास्ति नगतिः काचिद्बतैतद्द्विषाम् ॥५८॥वयस्ययाकूतविदा दमस्वसुःस्मितं वितत्याभिदधेऽथ भारती ।इतः परेषामपि पश्य याचतांभवन्मुखेन स्वनिवेदनत्वराम् ॥५९॥कृतात्र देवी वचनाधिकारिणीत्वमुत्तरंदासि ददासि कासती ।इतीरिणस्तन्नृपपारिपार्श्विका-न्स्वभर्तुरेव भ्रुकुटिर्न्यवर्तयत् ॥६०॥धराधिराजं निजगाद भारतीतदुन्मुखेषद्वलिताङ्गसूचितम् ।दमस्वसारं प्रति सारवत्तरंकुलेन शीलेन च राजसूचितम् ॥६१॥कुतः कृतैवं वरलोकमागतंप्रति प्रतिज्ञाऽनवलोकनाय ते ।अपीयमेनं मिथिलापुरंदरंनिपीय दृष्टिः शिथिलास्तु ते वरम् ॥६२॥न पाहि पाहीति यदब्रवीरमुंममौष्ठ तेनैवमभूदिति क्रुधा ।रणक्षितावस्य विरोधिमूर्धभि-र्विदश्य दन्तैर्निजमोष्ठमास्यते ॥६३॥भुजेऽपसर्पत्यपि दक्षिणेगुणं सहेषुणादाय पुरःप्रसर्पिणे ।धनुः परीरम्भमिवास्य संमदा-न्महाहवे वामबाहवे ॥६४॥अस्योर्वीरमणस्य पाऋवणविधुद्वैराज्यसज्जं यशःसर्वाङ्गोज्ज्वलशर्वपर्वतसितश्रीगर्वनिर्वासि यत् ।तत्कम्बुप्रतिबिम्बितं किमु शरत्पर्जन्यराजिश्रियःपर्यायः किमु दुग्धसिन्धुपयसां सर्वानुवादः किमु ॥६५॥निस्त्रिंशत्रुटितारिवारणघटाकुम्भास्तिकूटावट-स्थानस्थायुकमौक्तिकोत्करकिरः कैरस्य नायं करः ।उन्नीतश्चतुरङ्गसैन्यसमरत्वङ्गत्तुरंगक्षुर-क्षुण्णासु क्षितिषु क्षिपन्निव यशः क्षोणीजबीजव्रजम् ॥६६॥अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितःसत्यस्मिन्नतिदानभाजि कथमप्यास्तां स कल्पद्रुमः ।आस्ते निर्व्ययरत्नसंपदुदयोदग्रः कथं याचक-श्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः ॥६७॥सृजामि किं विघ्नमिदंनृपस्तुता-वितीङ्गितैः पृच्छति तां सखीजने ।स्मिताय वक्त्रं यदवक्रयद्वधू-स्तदेव वैमुख्यमलक्षि तन्नृपे ॥६८॥दृशास्य निर्दिश्य नरेश्वरान्तरंमधुस्वरा वक्तुमधीश्वरा गिराम् ।अनूपयामास विदर्भजाश्रुतीनिजास्यचन्द्रस्य सुधाभिरुक्तिभिः ॥६९॥स कामरूपाधिप एष हा त्वयान कामरूपाधिक ईक्ष्यतेऽपि यः ।त्वमस्य सा योग्यतमासि वल्लभासुदुर्लभा यत्प्रतिमल्लभा परा ॥७०॥अकर्णधाराशुगसंभृशाङ्गतांगतैररित्रेण विनास्य वैरिभिः ।विधाय यावत्तरणेर्भिदामहोनिमज्ज्य तीर्णः समरे भवाऋणवः ॥७१॥यदस्य भूलोकभुजो भुजोष्मभि-स्तपर्तुरेव क्रियतेऽरिवेश्मनि ।प्रपां न तत्रारिवधूस्तपस्विनीददातु नेत्रोत्पलवासिभिर्जलैः ॥७२॥एतद्दत्तासिघातस्रवदसृगसुहृद्वंशसार्द्रेन्धनैत-द्दोरुद्दामप्रतापज्वलदनलमिलद्भूमधूमभ्रमाय ।एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासी-देतन्नासीरवाजिव्रजखुरजरजोराजिराजिस्थलीषु ॥७३॥क्षीरोदन्वदपाः प्रमथ्य मथितादेशेऽमरैर्निर्मितेस्वाक्रम्यं सृजतस्तदस्य यशसः क्षीरोदसिंहासनम् ।केषां नाजनि वा जनेन जगतामेतत्कवित्वामृत-स्रोतःप्रोतपिपासुकर्णकलसीभाजाभिषेकोत्सवः ॥७४॥सभिति पतिनिपाताकर्णनद्रागदीर्ण-प्रतिनृपतिमृगाक्षीलक्षवक्षःशिलासु ।रचितलिपिरिवोरस्ताडनव्यस्तहस्त-प्रखरनखरटङ्कैरस्य कीर्तिप्रशस्तिः ॥७५॥विधाय ताम्बूलपुटीं कराङ्कगांबभाण ताम्बूलकरङ्कवाहिनी ।दमस्वसुर्भावमवेत्य भारतींनयानया वक्त्रपरिश्रमं शमम् ॥७६॥समुन्मुखीकृत्य बभार भारतीरतीशकल्पेऽन्यनृपे निजं भुजम् ।ततस्त्रसद्बालपृषद्विलोचनांशशंस संसज्जनरञ्जनीं जनीम् ॥७७॥अयं गुणौघैरनुरज्यदुत्कलोभवन्मुखालोकरसोत्कलोचनः ।स्पृशन्तु रूपामृतवापि नन्वमुंतवापिदृक्तारतरङ्गभङ्गयः ॥७८॥अनेन सर्वार्थिकृतार्थताकृता-हृतार्थिनौ कामगवीसुरद्रुमौ ।मिथः पयःसेचनपल्लवाशनेप्रदाय दानव्यसनं समाप्नुतः ॥७९॥नृपः कराभ्यामुदतोलयन्निजेनृपानयं यान्पततः पदद्वये ।तदीयचूडाकुरुविन्दरश्मिभिःस्फुटेयमेतत्करपादरञ्जना ॥८०॥यत्कस्यामपि भानुमान्न ककुभि स्थेमानमालम्बतेजातं यद्धनकाननैकशरणप्राप्तेन दावाग्निना ।एषैतद्भुजतेजसा विजितयोस्तावत्तयोरौचितीधिक्तं वाडवमम्भसि द्विषि भिया येन प्रविष्टं पुनः ॥८१॥अमुष्योर्वीभर्तुः प्रसृमरचमूसिन्धुरभवै-रवैमि प्रारब्धे वमथुभिरवश्यायसमये ।न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न त-द्वधूवक्त्राम्भोजं भवतु न स तेषां कुदिवसः ॥८२॥आत्मन्यस्य समुच्छ्रितीकृतगुणस्याहोतरामौचितीयद्गाट्रान्तरवर्जनादजनयद्भूजानिरेष द्विषाम् ।भूयोऽहं क्रियते स्म येन च हृदा स्कन्धो न यश्चानम-त्तन्मर्माणि दलंदलं समिदलंकर्मीणबाणव्रजः ॥८३॥दूरं गौरगुणैरहंकृतिभृतां जैत्राङ्ककारे चर-त्येतद्दोर्यशसि प्रयाति कुमुदं बिभ्यन्न निद्रां निशि ।धम्मिल्ले तव मल्लिकासुमनसां माल्यं भिया लीयतेपीयूषस्रवकैतवाद्धृतदरः शीतद्युतिः स्विद्यति ॥८४॥एतद्गन्धगजस्तृषाम्भसि भृशं कण्ठान्तमज्जत्तनुःफेनैः पाण्डुरितः स्वदिक्करिजयक्रीडायशःस्पर्धिभिः ।दन्तद्वन्द्वजलानुबिम्बनचतुर्दन्तः कराम्भोवमि-व्याजादभ्रमुवल्लभेन विरहं निर्वापयत्यम्बुधेः ॥८५॥अथैतदुर्वीपतिवर्णनाद्भुतंन्यमीलदास्वादयितुं हृदीव सा ।मधुस्रजा नैषधनामजापिनीस्फुटीभवद्ध्यानपुरःस्फुरन्नला ॥८६॥प्रशंसितुं संसदुपान्तरञ्जिनंश्रिया जयन्तं जगतीश्वरं जिनम् ।गिरः प्रतस्तार पुरावदेव तादिनान्तसंध्यासमयस्य देवता ॥८७॥तथाधिकुर्या रुचिरे चिरेप्सितायथोत्सुकः सम्प्रति संप्रतीच्छति ।अपाङ्गरङ्गस्थललास्यलम्पटाःकटाक्षधारास्त्व कीकटाधिपः ॥८८॥इदंयशांसि द्विषतः सुधारुचःकिमङ्कमेतद्द्विषातः किमाननम् ।यशोभिरस्याखिललोकधाविभि-र्विभीषिता धावति तामसी मसी ॥८९॥इदंनृपप्रार्थिभिरुज्झितोऽर्थिभि-र्मणिप्ररोहेण विवृध्य रोहणः ।कियद्दिनैरम्बरमावरिष्यतेमुधा मुनिर्विन्ध्यमरुन्ध भूधरम् ॥९०॥भूशक्रस्य यशांसि विक्रमभरेणोपाऋजितानि क्रमा-देतस्य स्तुमहे महेमरदनस्पर्धीनि कैरक्षरैः ।लिम्पद्भिः कृतकं कृतोऽपि रजतं राज्ञां यशःपारदै-रस्य स्वर्णगिरिः प्रतापदहनैः स्वर्णं पुनर्निर्मितः ॥९१॥यद्भर्तुः कुरुतेऽभिषेणनमयं शक्रो भुवः सा ध्रुवंदैग्दाहैरिव भस्मभिर्मघवता वृष्टैर्धृतोद्धूलना ।शंभोर्मा बत सांधिवेलनटनं भाजि व्रतं द्रागितिक्षोणी नृत्यति मूर्तिरष्टवपुषोऽसृग्वृष्टिसंध्याधिया ॥९२॥प्रागेतद्वपुरामुखेन्दु सृजतः स्रष्टुः समस्तस्त्विषांकोशः शोषमगादगाधजगतीशिल्पेऽप्यनल्पायितः ।निश्शेषद्युतिमण्डलव्ययवशादीषलभैरेष वाशेषः केशमयः किमन्धतमसस्तोभैस्ततो निर्मितः ॥९३॥तत्तद्दिग्जैत्रयात्रोद्धुरतुरगखुराग्रोद्धतैरन्धकारंनिर्वाणारिप्रतापानलजमिव सृजत्येष राजा रजोभिः ।भूगोलच्छायमायामयगणितविदुन्नेयकायोऽभियाभू-देतत्कीर्तिप्रतानैर्विधुभिरिव युधे राहुराहूयमानः ॥९४॥आस्ते दामदोरीयामियमुदरदरीं यावलम्ब्य त्रिलोकीसंमातुं शक्नुवन्ति प्रथिमभरवशादत्र नैतद्यशांसि ।तामेनां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्म-च्छद्मापन्नानितानिद्विपदशनसनाभीनि नाभीपथेन ॥९५॥अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमाकम्पोन्मीलदराललीलवलनस्तेषां भिये भूभुजाम् ।सङ्ग्रामेषु निजाङ्गुलीमयमहासिद्धाषधीवीरुधःपर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्बिता ॥९६॥यः पृष्ठं युधि दर्शयत्यरिभटश्रेणीषु यो वक्रता-मस्मिन्नेव बिभर्ति यञ्च किरति कूरध्वनिं निष्ठुरः ।दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणंविख्यातः स्फुटमेक एष नृपतिः सीमा गुणग्राहिणाम् ॥९७॥अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौसीत्कारं च न संमुखौ रचयतः कम्पं च न प्राप्नुतः ।तद्युक्तं न पुनर्निवृत्तिरुभयोर्जागर्ति यन्मुक्तयो-रेकस्तत्र भिनत्ति मित्रमपरश्चामित्रमित्यद्भुतम् ॥९८॥धूलीभिर्दिवमन्धयन्बधिरयन्नाशाः खुराणां रवै-र्वातं संयति खञ्जयञ्जवजवैस्तोत्ṝन्गुणैर्मूकयन् ।धर्माराधनसंनियुक्तजगता राज्ञामुनाधिष्ठितःसान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरंगोऽपि गाम् ॥९९॥एतेनोत्कृत्तकण्ठप्रतिसुभटनटारब्धनाट्याद्भुतानांकष्टं द्रष्टैव नाभूद्भुवि समरसमालोकिलोकास्पदेऽपि ।अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमान-क्ष्मापृष्ठोत्तिष्ठदन्धंकरणरणधुरारेणुधारान्धकारात् ॥१००॥उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूर-क्रोडक्रीडद्द्विजालीगरुदुदितमरुत्स्फालवाचालवीचिः ।एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमाली-व्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ॥१०१॥वृद्धो वार्धिरसौ तरङ्गवलिभं बिभ्रद्वपुः पाण्डुरंहंसालीपलितेन यष्टिकलितस्तावद्वयोर्बंहिमा ।बिभ्रच्चन्द्रिकया च कं विकचया योग्यस्फुरत्संगतंस्थाने स्नानविधायिधार्मिकशिरोनत्यापि नित्यादृतः ॥१०२॥तस्मिन्नेतेन यूना सह विहर पयःकेलिवेलासु बालेनालेनास्तु त्वदक्षिप्रतिफलनभिदा तत्र नीलोत्पलानाम् ।तत्पाथोदेवतानां विशतु तव तनुच्छायमेवाधिकारेतत्फुल्लाम्भोजराज्ये भवतु च भवदीयाननस्याभिषेकः ॥१०३॥एतत्कीर्तिविवर्तधौतनिखिलत्रैलोक्यनिर्वासितै-र्विश्रान्तिः कलिता कथासु जगतां श्यामैः समग्रैरपि ।जज्ञे कीर्तिमयादहो भयभरैरस्मादकीर्तिः पुनःसायन्नास्य कथापथेऽपि मलिनच्छाया बबन्ध स्थितिम् ॥१०४॥अथावदद्भीमसुतेङ्गितात्सखीजनैरकीर्तिर्यदि वास्य नेष्यते ।मयापि सा तत्खलु नेष्यते परंसभाश्रवःपूरतमालवल्लिताम् ॥१०५॥अस्य क्षोणिपतेः पराऋधपरया लक्षीकृताः संख्ययाप्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्तयः ।गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा-न्मूकानां प्रकरेण कूर्मरमणीदुग्धोदधे रोधसि ॥१०६॥तदक्षरैः सस्मितविस्मिताननांनिपीय तामीक्षणभङ्गिभिः सभाम् ।इहास्य हास्यं किमभून्नवेति तंविदर्भजा भूपमपि न्यभालयत् ॥१०७॥नलान्यवीक्षां विदधे दमस्वसुःकनीनिकागः खलु नीलिमालयः ।चकार सेवां शुचिरक्ततोचितांमिलन्नपाङ्गः सविधे तु नैषधे ॥१०८॥दृशा नलस्य श्रुतिचुम्बिनेषुणाकरेऽपि चक्रच्छलनम्रकार्मुकः ।स्मरः पराङ्गैरनुकल्प्य धन्वितांजनीमनङ्गः स्वयमार्दयत्ततः ॥१०९॥उत्कण्टका विलसदुज्ज्वलपत्रराजि-रामोदभागनपरागतराऽतिगौरी ।रुद्रक्रुधस्तदरिकामधिया नले सावासार्थितामधृत काञ्चनकेतकीव ॥११०॥तन्नालीकनले चलेतरमनाः साम्यान्मनागप्यभू-दप्यग्रे चतुरः स्थितान्न चतुरा पातुं दृशा नैषधान् ।आनन्दाम्बुनिधौ निमज्ज्य नितरां दूरं गता तत्तला-लंकारीभवनाज्जनाय ददती पातालकन्याभ्रमम् ॥१११॥सर्वस्वं चेतसस्तां नृपतिरपि दृशे प्रीतिदायं प्रदायप्रापत्तद्दृष्टिमिष्टातिथिममरदुरापामपाङ्गोत्तरङ्गम् ।आनन्दान्ध्येन वन्ध्यानकृत तदपराकूतपातान्स रत्याःपत्या पीयूषधारावलनविरचितेनाशुगेनाशु लीढः ॥११२॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।तस्य द्वादश एष मातृचरणाम्भोजालिमौलेर्महा-काव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥११३॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP