संस्कृत सूची|संस्कृत स्तोत्र साहित्य|नैषधीयचरितम्| षष्ठ सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - षष्ठ सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत षष्ठ सर्गः Translation - भाषांतर दूत्याय दैत्यारिपतेः प्रवृत्तोद्विषां निषेद्धा निषधप्रधानम् ।स भीमभूमीपतिराजधानींलक्षीचकाराथ रथस्यदस्य ॥१॥भैम्या समं नाजगणद्वियोगंस दूतधर्मे स्थिरधीरधीराः ।पयोधिपाने मुनिरन्तरायंदुर्वारमप्यौर्वसिवौर्वशेयः ॥२॥नलप्रणालीमिलदम्बुजाक्षी-संवादपीयूषपिपासवस्ते ।तदध्ववीक्षार्थमिवानिमेषादेशस्य तस्याभरणीबभूवुः ॥३॥तां कुण्डिनाख्यापदमात्रगुप्ताम्इन्द्रस्य भूमेरमरावतीं सः ।मनोरथः सिद्धिमिव क्षणेनरथस्तदीयः पुरमाससाद ॥४॥भैमीपदस्पर्शकृतार्थरथ्यासेयं पुरीत्युत्कलिकाकुलस्ताम् ।नृपौ निपीय क्षणमीक्षणाभ्यांभृशं निराश्वास सुरैः क्षताशः ॥५॥स्विद्यत्प्रमोदाश्रुलवेन वामंरोमाञ्चभृत्पक्ष्मभिरस्य चक्षुः ।अन्यत्पुनः कम्प्रमपि स्फुरत्त्वात्तस्याः पुरः प्राप नवोपभोगम् ॥६॥रथादसौ सारथिना सनाथाद्राजावतीर्याथ पुरं विवेश ।निर्गत्य बिम्बादिव भानवीयात्सौधाकरं मण्डलमंशुसङ्घः ॥७॥चित्रं तदा कुण्डिनवेशिनः सानलस्य मूर्तिर्ववृते न दृश्या ।बभूव तच्चित्रतरं तथापिविश्वैकदृश्यैव यदस्य मूर्तिः ॥८॥जनैर्विदग्धैर्भवनैश्च मुग्धैःपदे पदे विस्मयकल्पवल्लीम् ।तां गाहमानास्य चिरं नलस्यदृष्टिर्ययौ राजकुलातिथित्वम् ॥९॥हेलां दधौ रक्षिजनेऽस्त्रसज्जेलीनश्चरामीति हृदा ललज्जे ।द्रक्ष्यामि भैमीमिति संतुतोषदूतं विचिन्त्य स्वमसौ शुशोच ॥१०॥अथोपकार्याममरेन्द्रकार्यात्कक्षासु रक्षाधिकृतैरदृष्टः ।भैमीं दिदृक्षुर्बहु दिक्षु त्रक्षुःदिशन्नसौ तामविशद्विशङ्कः ॥११॥अयं क इत्यन्यनिवारकाणांगिरा विभूर्द्वारि विभुज्य कण्ठम् ।दृशं ददौ विस्मयनिस्तरङ्गांस लङ्घितायामपि राजसिंहः ॥१२॥अन्तः पुरान्तः स विलोक्य बालांकांचित्समालब्धुमसंवृतोरुम् ।निमीलिताक्षः परया भ्रमन्त्यासंघट्टमासाद्य चमच्चकार ॥१३॥अनादिसर्गस्रजि वानुभूताचित्रेषु वा भीमसुता नलेन ।जातेव यद्वा जितशम्बरस्यसा शाम्बरीशिल्पमलक्षि दिक्षु ॥१४॥अलीकभैमीसहदर्शनान्नतस्यान्यकन्याप्सरसो रसाय ।भैमीभ्रमस्यैव ततः प्रसादाद्भैमीभ्रमस्तेन न तास्वलम्भि ॥१५॥भैमीनिराशे हृदि मन्मथेनदत्तस्वहस्ताद्विरहाद्विहस्तः ।स तामलीकामवलोक्य तत्रक्षणादपश्यन्व्यषदद्विबुद्धः ॥१६॥प्रियां विकल्पोपहृतां स यावद्दिगीशसंदेशमजल्पदल्पम् ।अदृश्यवाग्भीषितभूरिभीरु-भवो रवस्तावदचेतयत्तम् ॥१७॥पश्यन्स तस्मिन्मरुतापि तन्व्याःस्तनौ परिस्प्रष्टुमिवास्तवस्त्रौ ।अक्षान्तपक्षान्तमृगाङ्कमास्यंदधार तिर्यग्वलितं विलक्षः ॥१८॥अन्तःपुरे विस्तृतवागुरोऽपिबालावलीनां वलितैर्गुणौघैः ।न कालसारं हरिणं तदक्षित्वयं प्रभुर्बद्धुमभून्मनोभूः ॥१९॥दोर्मूलमालोक्य कचं रुरुत्सोःततः कुचौ तावनुलेपयन्त्याः ।नाभीमथैष श्लथवाससोऽनुमिमील दिक्षु क्रमकृष्टचक्षुः ॥२०॥मीलन्न शेकेऽभिमुखागताभ्यांधर्तुं निपीड्य स्तनसान्तराभ्याम् ।स्वाङ्गान्यपेतो विजगौ स पश्चात्पुमङ्गसङ्गोत्पुलके पुनस्ते ॥२१॥निमीलनस्पष्टविलोकनाभ्यांकदर्थितस्ताः कलयन्कटाक्षैः ।स रागदर्शीव भृशं ललज्जेस्वतः सतां ह्रीः परतोऽतिगुर्वी ॥२२॥रोमाञ्चिताङ्गीमनु तत्कटाक्षैःभ्रान्तेन कान्तेन रतेर्निदिष्टः ।मोघः शरौघः कुसुमानि नाभूत्तद्धैर्यपूजां प्रति पर्यवस्यन् ॥२३॥हित्वैव वर्त्मैकमिह भ्रमन्त्याःस्पर्शः स्त्रियाः सुत्यज इत्यवेत्य ।चतुष्पथस्याभरणं बभूवलोकावलोकाय सतां स दीपः ॥२४॥उद्वर्तयन्त्या हृदये निपत्यनृपस्य दृष्टिर्न्यवृतद्द्रुतैव ।वियोगिवैरात्कुचयोर्नखाङ्कैःअर्धेन्दुलीलैर्गलहस्तेतेव ॥२५॥तन्वीमुखं द्रागधिगत्य चन्द्रंवियोगिनस्तस्य मिमीलिताभ्याम् ।द्वयं द्रढीयः कृतमीक्षणाभ्यांतदिन्दुता च स्वसरोजता च ॥२६॥चतुष्पथे तं विनिमीलिताक्षंचतुर्दिगेताः सुखमग्रहीष्यन् ।संघट्टय तस्मिन्भृशभीनिवृतात्तस्ता एव तद्वर्त्म न चेददास्यन् ॥२७॥संघट्टयन्त्यास्तरसात्मभूषा-हीराङ्कुरप्रोतदुकूलहारी ।दिशा नितम्बं परिधाप्य तन्व्याःतत्पापसंतापमवाप भूपः ॥२८॥हतः कयाचित्पथि कन्दुकेनसंघट्ट्य भिन्नः करजैः कयापि ।कयाचनाक्तः कुचकुङ्कुमेनसंभुक्तकल्पः स बभूव ताभिः ॥२९॥छायामयः प्रैक्षि कयापि हारेनिजे स गच्छन्नथ नेक्ष्यमाणः ।तच्चिन्तयान्तर्निरचायि चारुस्वस्यैव तन्व्या हृदयं प्रविष्टः ॥३०॥तच्छायसौन्दर्यनिपीतधैर्याःप्रत्येकमालिङ्गदमू रतीशः ।रतिप्रतिद्वन्द्वितमासु नूनंनामूषु निर्णीतरतिः कथंचित् ॥३१॥तस्माददृश्यादपि नातिबिभ्युःतच्छायरूपाहितमोहलोलाः ।मन्यन्त एवादृतमन्मथाज्ञाःप्राणानपि स्वान्सुदृशस्तृणानि ॥३२॥जागर्ति तच्छायदृशां पुरा यःस्पृष्टे च तस्मिन्विससर्प कम्पः ।द्रुते द्रुतं तत्पदशब्दभीत्यास्वहस्तितश्चारुदृशां परं सः ॥३३॥उल्लास्यतां स्पृष्टनलाङ्गमङ्गंतासां नलच्छायपिबाऽपि दृष्टिः ।अश्मैव रत्यास्तदनर्ति पत्याछेदेऽप्यबोधं यदहर्षि लोम ॥३४॥यस्मिन्नलस्पृष्टकमेत्य हृष्टाभूयोऽपि तं देशमगान्मृगाक्षी ।निपत्य तत्रास्य धरारजःस्थेपादे प्रसीदेति शनैरवादीत् ॥३५॥भ्रमन्नमुष्यामुपकारिकायाम्आयस्य भैमीविरहात्क्रशीयान् ।असौ मुहुः सौधपरम्पराणांव्यधत्त विश्रान्तिमधित्यकासु ॥३६॥उल्लिख्य हंसेन दले नलिन्याःतस्मै यथादर्शि तथैव भैमी ।तेनाभिलिख्योपहृतस्वहाराकस्या न दृष्टाजनि विस्मयाय ॥३७॥कौमारगन्धीनि निवारयन्तीवृत्तानि रोमावलिवेत्रचिह्ना ।सालिख्य तेनैक्ष्यत यौवनीयद्वःस्थामवस्थां परिचेतुकामा ॥३८॥पश्याः पुरंघ्रीः प्रात सान्द्रचन्द्र-रजःकृतक्रीडकुमारचक्रे ।चित्राणि चक्रेऽध्वनि चक्रवर्ति-चिह्नं तदङ्घ्रिप्रतिमासु चक्रम् ॥३९॥तारुण्यपुण्यामवलोकयन्त्योःअन्योन्यमेणेक्षणयोरभिख्याम् ।मध्ये मुहूर्तं स बभूव गच्छन्नाकस्मिकाच्छादनविस्मयाय ॥४०॥पुरःस्थितस्य क्वचिदस्य भूषा-रत्नेषु नार्यः प्रतिबिम्बितानि ।व्योमन्यदृश्येषु निजान्यपश्यन्विस्मित्य विस्मित्य सहस्रकृत्वः ॥४१॥तस्मिन्विषज्यार्धपथात्तपातंतदङ्गरागच्छुरितं निरीक्ष्य ।विस्मेरतामापुरविस्मरन्त्यःक्षिप्तं मिथः कन्दुकमिन्दुमुख्यः ॥४२॥पुंसि स्वभर्तृव्यतिरिक्तभूतेभूत्वाप्यनीक्षानियमव्रतिन्यः ।छायासु रूपं भुवि वीक्ष्य तस्यफलं दृशोरानशिरे महिष्यः ॥४३॥विलोक्य तच्छायमतर्कि ताभिःपतिं प्रति स्वं वसुधापि धत्ते ।यथा वयं किं मदनं तथैनंत्रिनेत्रनेत्रानलकीलनीलम् ॥४४॥रूपं प्रतिच्छायिकयोपनीतम्आलोकि ताभिर्यदि नाम कामम् ।तथापि नालोकि तदस्य रूपंहारिद्रभङ्गाय वितीर्णभङ्गम् ॥४५॥भवन्नदृश्यः प्रतिबिम्बदेह-व्यूहं वितन्वन्मणिकुट्टिमेषु ।पुरं परस्य प्रविशन्वियोगीयोगीव चित्रं स रराज राजा ॥४६॥पुमानिवास्पर्शि मया व्रजन्त्याछाया मया पुंस इव व्यलोकि ।ब्रुवन्निवातर्कि मयापि कश्चित्इति स्म स स्त्रैणगिरः शृणोति ॥४७॥अम्बां प्रणत्योपनता नताङ्गीनलेन भैमी पथि योगमाप ।स भ्रान्तिभैमीषु न तां व्यविक्तसा तं च नादृश्यतया ददर्श ॥४८॥प्रसूप्रसादाधिगता प्रसून-माला नलस्योद्भ्रमवीक्षितस्य ।क्षिप्तापि कण्ठाय तयोपकण्ठेस्थितं तमालम्बत सत्यमेव ॥४९॥स्रग्वासनादृष्टजनप्रसादःसत्येयमित्यद्भुतमाप भूपः ।क्षिप्तामदृश्यत्वमितां च माला-मालोक्य तां विस्मियते स्म बाला ॥५०॥अन्योन्यमन्यत्रवदीक्षमाणौपरस्परेणाध्युषितेऽपि देशे ।आलिङ्गितालीकपरस्परान्तःतथ्यं मिथस्तौ परिषस्वजाते ॥५१॥स्पर्शे तमस्याधिगतापि भैमीमेने पुनर्भ्रान्तिमदर्शनेन ।नृपः स पश्यन्नपि तामुदीतःतम्भो न धर्तुं सहसा शशाक ॥५२॥स्पर्शातिहर्षादृतसत्यमत्याप्रवृत्य मिथ्याप्रतिलब्धबाधौ ।पुनर्मिथस्तथ्यमपि स्पृशन्तौन श्रद्दधाते पथि तौ विमुग्धौ ॥५३॥सर्वत्र संवाद्यमबाधमानौरूपश्रियातिथ्यकरं परं तौ ।न शेकतुः केलिरसाद्विरन्तुमलीकमालोक्य परस्परं तु ॥५४॥परस्परस्पर्शरसोर्मिसेकात्तयोः क्षणं चेतसि विप्रलम्भः ।स्नेहातिदानादिव दीपिकार्चिःनिमिष्य किंचिद्द्वगुणं दिदीपे ॥५५॥वेश्माप सा धैर्यवियोगयोगाद्बोधं च मोहं च मुहुर्दधाना ।पुनः पुनस्तत्र पुरः स पश्यन्बभ्रामतां सुभ्रुवमुद्भ्रमेण ॥५६॥पद्भ्यां नृपः संचरमाण एषचिरं परिभ्रम्य कथंकथंचित् ।विदर्भराजप्रभवाभिरामंप्रासादमभ्रंकषमाससाद ॥५७॥सखीशतानां सरसैर्विलासैःस्मरावरोधभ्रममावहन्तीम् ।विलोकयामास सभां स भैम्याःतस्य प्रतोलीमणिवेदिकायाम् ॥५८॥कण्ठः किमस्याः पिकवेणुवीणाःतिस्रो जिताः सूचयति त्रिरेखः ।इत्यन्तरस्तूयत यत्र कापिनलेन बाला कलमालपन्ती ॥५९॥एतं नलं तं दमयन्ति ! पश्यत्यजार्तिमित्यालिकुलप्रबोधान् ।श्रुत्वा स नारीकरवर्तिसारी-मुखात्स्वमाशङ्कत यत्र दृष्टम् ॥६०॥यत्रैकयालीकनलीकृतालीकण्ठे मृषाभीमभवीभवन्त्या ।तदृक्पथे दौहदिकोपनीताशालीनमाधायि मधूकमाला ॥६१॥चन्द्राभमाभ्रं तिलकं दधानातद्वन्निजास्येन्दुकृतानुबिम्बम् ।सखीमुखे चन्द्रसमे ससर्जचन्द्रानवस्थामिव कापि यत्र ॥६२॥दलोदरे काञ्चनकेतकस्यक्षणान्मसीभावुकवर्णलेखम् ।तस्यैव यत्र स्वमनङ्गलेखंलिलेख भैमी नखलेखिनीभिः ॥६३॥विलेखितुं भीमभुवो लिपीषुसख्याऽतिविख्यातिभृतापि यत्र ।अशाकि लीलाकमलं न पाणिःअपारि कर्णोत्पलमक्षि नैव ॥६४॥भैमीमुपावीणयदेत्य यत्रकलिप्रियस्य प्रियशिष्यवर्गः ।गन्धर्ववध्वः स्वरमध्वरीण-तत्कण्ठनालैकधुरीणवीणः ॥६५॥नावा स्मरः किं हरभीतिर्गुप्तेपयोधरे खेलति कुम्भ एव ।इत्यर्धचन्द्राभनखाङ्कचुम्बि-कुचा सखी यत्र सखीभिरूचि ॥६६॥स्मराशुगीभूय विदर्भसुभ्रु-वक्षो यदक्षभि खलु प्रसूनैः ।स्रजं सृजन्त्या तदशोधि तेषुयत्रैकया सूचिशिखां निखाय ॥६७॥स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनैः ।स्रजं सृजन्त्या तदशोधि तिषुयत्रैकया सुचिशिखां निखाय ॥६७॥यत्रावदत्तामतिभीय भैमीत्यज त्यजेदं सखि ! साहसिक्यम् ।त्वमेव कृत्वा मदनाय दत्सेबाणान्प्रसूनानि गुणेन सज्जाम् ॥६८॥आलिख्य सख्याः कुचपत्रभङ्गीमध्ये सुमध्या मकरीं करेण ।यत्रालपत्तामिदमालि ! यानंमन्ये त्वदेकावलिनाकनद्याः ॥६९॥तामेव सा यत्र जगाद भूयःपयोधियादः कुचकुम्भयोस्ते ।सेयं स्थिता तावकहृच्छयाङ्क-प्रियास्तु विस्तारयशः प्रशस्तिः ॥७०॥शारीं चरन्तीं सखि ! मारयैताम्इत्यक्षदाये कथिते कयापि ।यत्र स्वघातभ्रमभीरुशारी-काकूत्थसाकूतहसः स जज्ञे ॥७१॥भैमीसमीपे स निरीक्ष्य यत्रताम्बूलजाम्बूनदहंसलक्ष्मीम् ।कृतप्रियादूत्यमहोपकारम्अरालमोहद्रढिमानमूहे ॥७२॥तस्मिन्नियं सेति सखीसमाजेनलस्य संदेहमथ व्युदस्यन् ।अपृष्ट एव स्फुटमावचक्षेस कोऽपि रूपातिशयः स्वयं ताम् ॥७३॥भैमीविनोदाय मुदा सखीभिःतदाकृतीनां भुवि कल्पितानाम् ।नातर्कि मध्ये स्फुटमप्युदीतंतस्यानुबिम्बं मणिवेदिकायाम् ॥७४॥हुताशकीनाशजलेशदूतीःनिराकरिष्योः कृतकाकुयाच्ञाः ।भैम्या वचोभिः स निजां तदाशांन्यवर्तयद्दूरमपि प्रयाताम् ॥७५॥विज्ञप्तिमन्तः सभयः स भैम्यामध्येसभं वासवसम्भलीयाम् ।संभालयामास भृशं कृशाशःतदालिवृन्दैरभिनन्द्यमानाम् ॥७६॥लिपिर्न दैवी सुपठा भुवीतितुभ्यं मयि प्रेषितवाचिकस्य ।इन्द्रस्य दूत्यां रचय प्रसादंविज्ञापयन्त्यामवधानदानैः ॥७७॥सलीलमालिङ्गनयोपपीडम्अनामयं पृच्छति वासवस्त्वाम् ।शेषस्त्वदाश्लेषकथापनिद्रैःतद्रोमभिः संदिदिशे भवत्यै ॥७८॥यः प्रेर्यमाणोऽपि हृदा मघोनःत्वदर्थनायां ह्रियमापदागः ।स्वयंवरस्थानजुषस्तमस्यबधान कण्ठं वरणस्रजाशु ॥७९॥नैनं त्यज क्षीरधिमन्थनाद्यैःअस्यानुजायोद्गमितामरैः श्रः ।अस्मै विमथ्येक्षुरसोदमन्यांश्राम्यन्तु नोत्थापयितुं श्रियं ते ॥८०॥लोकस्रजि द्यौर्दिवि चादितेयाअप्यादितेयेषु महान्महेन्द्रः ।किंकर्तुमर्थी यदि सोऽपि रागाज्जागर्ति कक्षा किमतः परापि ॥८१॥पदं शतेनाप मखैर्यदिन्द्रःतस्मै स ते याचनचाटुकारः ।कुरु प्रसादं तदलंकुरुष्वस्वीकारकृद्भ्रूनटनश्रमेण ॥८२॥मन्दाकिनीनन्दनयोर्विहारेदेवे धवे देवरि माधवे च ।श्रेयः श्रिया यातरि यच्च सख्यांतच्चेतसा भविनि ! भावयस्व ॥८३॥रज्यस्व राज्ये जगतामितीन्द्रात्याच्ञाप्रतिष्ठां लभसे त्वमेव ।लघूकृतस्वं बलियाचनेनतत्प्राप्तये वामनमामनन्ति ॥८४॥यानेव देवान्नमसि त्रिकालंन तत्कृतघ्नीकृतिरौचिती ते ।प्रसीद तानप्यनृणान्विधातुंपतिष्यतस्त्वत्पदयोस्त्रिसंध्यम् ॥८५॥इत्युक्तवत्या निहितादरेणभैम्या गृहीता मघवत्प्रसादः ।स्रक्पारिजातस्य ऋते नलाशांवासैरशेषामपुरूपदाशाम् ॥८६॥आर्ये ! विचार्यालमिहेति कापियोग्यं सखि ! स्यादिति काचनापि ।ओंकार एवोत्तरमस्तु वस्तुमङ्गल्यमत्रेति च काप्यवोचात् ॥८७॥अनाश्रवा वः किमहं कदापिवक्तुं विशेषः परमस्ति शेषः ।इतीरिते भीमजया न दूतीम्आलिङ्गदालीश्च मुदामियत्ता ॥८८॥भैमीं च दूत्यं च न किंचिदापम्इति स्वयं भावयतो नलस्य ।आलोकमात्राद्यदि तन्मुखेन्दोःअभून्न भिन्नं हृदयारविन्दम् ॥८९॥ईषत्स्मितक्षालितसृक्विभागादृक्संज्ञया वारिततत्तदालिः ।स्रजा नमस्कृत्य तयैव शक्रंतां भीमभूरुत्तरयांचकार ॥९०॥स्तुतौ मघोनस्त्यज साहसिक्यंवक्तुं कियत्तं यदि वेद वेदः ।मृषोत्तरं साक्षिणि हृत्सु नॄणाम्अज्ञातृविज्ञापि ममापि तस्मिन् ॥९१॥आज्ञां तदीयामनु कस्य नामनकारपारुष्यमुपैतु जिह्वा ।प्रह्वा तु तां मूर्ध्नि विधाय मालांबालापराध्यामि विशेषवाग्भिः ॥९२॥तपः फलत्वेन हरेः कृपेयमि-मं तपस्येव जनं नियुङ्के ।भवत्युपायं प्रति हि प्रवृत्ता-वुपेयमाधुर्यमधैर्यसर्जि ॥९३॥शुश्रूषिताहे तदहं तमेवपतिं मुदेऽपि व्रतसंपदेऽपि ।विशेषलेशोऽयमदेवदेहमं-शागतं तु क्षितिभृत्तयेह ॥९४॥अश्रौषमिन्द्रादरिणीर्गिरस्तेसतीव्रतातिप्रतिलोमतीव्राः ।स्वं प्रागहं प्रादिषि नामरायकिं नाम तस्मै मनसा नराय ॥९५॥तस्मिन्विमृश्यैव वृते हृदैषामैन्द्री दया मामनुतापिकाभूत् ।निर्वातुकामं भवसंभवानांधीरं सुखानामवधीरणेव ॥९६॥वर्षेषु यद्भारतमार्यधुर्याःस्तुवन्ति गार्हस्थ्यमिवाश्रमेषु ।तत्रास्मि पत्युर्वरिवस्ययेहशर्मोर्मिकिर्मीरितधर्मलिप्सुः ॥९७॥स्वर्गे सतां शर्म परं न धर्माभ्रवन्तिं भूमाविह तच्च ते च ।शक्या मखेनापि मुदोऽमराणांकथं विहाय त्रयमेकमीहे ॥९८॥साधोरपि स्वः खलु गामिताधोगमी स तु स्वर्गमितः प्रयाणे ।इत्यायती चिन्तयतो हृदि द्वेद्वयोरुदर्कः किमु शर्करे न ॥९९॥प्रक्षीण एवायुषि कर्मकृष्टेनरान्न तिष्ठत्युपतिष्ठते यः ।बुभुक्षते नाकमपथ्यकल्पंधीरस्तमापातसुखोन्मुखं कः ॥१००॥इतीन्द्रदूत्याः प्रतिवाचमर्धेप्रत्युह्य सैषाभिदधे वयस्याः ।किंचिद्विवक्षोल्लसदोष्ठलक्ष्मी-जितापनिद्रद्दलपङ्कजास्याः ॥१०१॥अनादिधाविस्वपरम्परायाहेतुस्रजः स्रोतसि वेश्वरे वा ।आयत्तधीरेष जनस्तदार्याः !किमीदृशः पर्यनुयोगयोग्यः ॥१०२॥नित्यं नियत्या परवत्यशेषेकः संविदानोऽप्यनुयोगयोग्यः ।अचेतना सा च न वाचमर्हेद्वक्ता तु वक्त्रश्रमकर्म भुङ्क्ते ॥१०३॥क्रमेलकं निन्दति कोमलेच्छुःक्रमेलकः कण्टकलम्पटस्तम् ।प्रीतौ तयोरिष्टभुजोः समायांमध्यस्थता नैकतरोपहासः ॥१०४॥गुणा हरन्तोऽपि हरेर्नरं मेन रोचमानं परिहापयन्ति ।न लोकमालोकयथापवर्गात्रिवर्गमर्वाञ्चममुञ्चमानम् ॥१०५॥आकीटमाकैटभवैरि तुल्यःस्वाभीष्टलाभात्कृतकृत्यभावः ।भिन्नस्पृहाणां प्रति चार्थमर्थंद्विष्टत्वमिष्टत्वमपव्यवस्थम् ॥१०६॥अध्वाग्रजाग्रन्निभृतापदन्धुःबन्धुर्यदि स्यात्प्रतिबन्धुमर्हः ।जोषं जनः कार्यविदस्तु वस्तुप्रच्छया निजेच्छा पदवीं मुदस्तु ॥१०७॥इत्थं प्रतीपोक्तिमतिं सखीनांविलुप्य पाण्डित्यबलेन बाला ।अपि श्रुतस्वर्पतिमन्त्रिसूक्तिंदूतीं बभाषेऽद्भुतलोलमौलिम् ॥१०८॥परेतभर्तुर्मनसेव दूतींनभस्वतेवानिलसख्यभाजः ।त्रिस्रोतसेवाम्बुपतेस्तदाशुस्थिरास्थमायातवतीं निरास्थम् ॥१०९॥भूयोऽर्थमेनं यदि मां त्वमात्थतदा पदावालभसे मघोनः ।सतीव्रतैस्तीव्रमिमं तु मन्तुम्अन्तर्वरं वज्रिणि मार्जितास्मि ॥११०॥इत्थं पुनर्वागवकाशनाशान्महेन्द्रदूत्यामपयातवत्याम् ।विवेश लोलं हृदयं नलस्यजीवः पुनः क्षीबमिव प्रबोधः ॥१११॥श्रवणपुटयुगेन स्वेन साधूपनीतंदिगधिपकृपयाप्तादीदृशः संविधानात् ।अलभत मधु बालारागवागुत्थमित्थंनषधजनपदेन्द्रः पातुमानन्दसान्द्रम् ॥११२॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं ममल्लदेवी च यम् ।षष्ठः खण्डनखण्डतोऽपि सहजात्क्षोदक्षमे तन्महा-काव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥११३॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP