संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| पञ्चम सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - पञ्चम सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत पञ्चम सर्गः Translation - भाषांतर यावदागमयतेऽथ नरेन्द्रान्सस्वयंवरमहाय महीन्द्रः ।तावदेव ऋषिरिन्द्रदिदृक्षुःनारदस्त्रिदशधाम जगाम ॥१॥नात्र चित्रमनु तं प्रययौयत्पर्वतः स खलु तस्य सपक्षः ।नारदस्तु जगतो गुरुरुच्चै-र्विस्मयाय गगनं विललङ्घे ॥२॥गच्छता पथि विनैव विमानंव्योम तेन मुनिना विजगाहे ।साधने हि नियमोऽन्यजनानांयोगिनां तु तपसाखिलसिद्धिः ॥३॥खण्डितेन्द्रभवनाद्यभिमा-नाल्लङ्घते स्म मुनिरेष विमानान् ।अर्थितोऽप्यतिथितामनुमेनेनैव तत्पतिभिरङ्घ्रिविनम्रैः ॥४॥तस्य तापनभिया तपनः स्वंतावदेव समकोचयदर्चिः ।यावदेव दिवसेन शशीवद्रागतप्यत न तन्महसैव ॥५॥पर्यभूद्दिनमणिर्द्विजराजंयत्करैरहह तेन तदा तम् ।पर्यभूत्खलु करैर्द्विजराजःकर्म कः स्वकृतमत्र न भुङ्क्ते ॥६॥विष्टरं तटकुशालिभिरद्धिःपाद्यमर्ध्यमथ कच्छरुहाभिः ।पद्मवृन्दमधुभिर्मधुपर्कंस्वर्गसिन्धुरदितातिथयेऽस्मै ॥७॥स व्यतीत्य वियदन्तरगाधंनाकनायकनिकेतनमाप ।संप्रतीर्य भवसिन्धुमनार्दिब्रह्म शर्मभरचारु यतीव ॥८॥अर्चनाभिरुचितोच्चतराभिःचारु तं सदकृतातिथिमिन्द्रः ।यावदर्हकरणं किल साधोःप्रत्यवायधुतये न गुणाय ॥९॥नामधेयसमतासखमद्रेरद्रि-भिन्मुनिमथाद्रियत द्राक् ।पर्वतोऽपि लभतां कथमर्चांन द्विजः स विबुधप्रभुलम्भी ॥१०॥तद्भुजादतिवितीर्णसपर्याद्दयुद्रुमानपि विवेद मुनीन्द्रः ।स्वः सहस्थितिसुशिक्षितयातान्दानपारमितयैव वदान्यान् ॥११॥मुद्रितान्यजनसंकथनः सन्नारदं बलरिपुः समवादीत् ।आकरः स्वपरभूरिकथानांप्रायशो हि सुहृदोः सहवासः ॥१२॥तं कथानुकथनप्रसृतायांदूरमालपनकौतुकितायाम् ।भूभृतां चिरमनागतिहेतुंज्ञातुमिच्छुरवदच्छतमन्युः ॥१३॥प्रागिव प्रसुवते नृपवंशाःकिंनु संप्रति न वीरकरीरान् ।ये परप्रहरणैः परिणामेविक्षताः क्षितितले निपतन्ति ॥१४॥पार्थिवं हि निजमाजिषु वीरादूरमूर्ध्वगमनस्य विरोधि ।गौरवाद्वपुरपास्य भजन्तेमत्कृतामतिथिगौरवऋद्धिम् ॥१५॥साभिशापमिव नातिथयस्तेमां यदद्य भगवन्नुपयन्ति ।तेन न श्रियमिमां बहु मन्येस्वोदरैकभृतिकार्यकदर्याम् ॥१६॥पूर्वपुण्यविभवव्ययलब्धाःश्रीभरा विपद एव विमृष्टाः ।पात्रपाणिकमलार्पणमासांतासु शान्तिकविधिर्विधिदृष्टः ॥१७॥तद्विमृज्य मम संशयशिल्पि स्फीतमत्र विषये सहसाघम् ।भूयतां भगवतः श्रुतिसारैःअद्य वाग्भिरघमर्षणऋग्भिः ॥१८॥इत्युदीर्य मघवा विनयर्धिंवर्धयन्नवहितत्वभरेण ।चक्षुषां दशशतीमनिमेषांतस्थिवान्मुनिमुखे प्रणिधाय ॥१९॥वीक्ष्य तस्य विनये परिपाकंपाकशासनपदं स्पृशतोऽपि ।नारदः प्रमदगद्गदयोक्त्याविस्मितः स्मितपुरः सरमूचे ॥२०॥भिक्षिता शतमखी सुकृतं यत्तत्परिश्रमविदः स्वविभूतौ ।तत्फले यदि परं तव हेलाक्लेशलब्धमधिकादरदं तु ॥२१॥संसपदस्तव गिरामपि दूरायन्न नाम विनयं विनयन्ते ।श्रद्दधाति क इवेह न साक्षाद्आह चेदनुभवः परमाप्तः ॥२२॥श्रीभरानतिथिसात्करवाणिस्वोपभोगपरता न हितेति ।पश्यतो बहिरिवान्तरपीयंदृष्टिसृष्टिरधिका तव कापि ॥२३॥आः स्वभावमधुरैरनुभावैःतावकैरतितरां तरलाः स्मः ।द्यां प्रशाधि गलितावधिकालंसाधु साधु विजयस्व बिडौजः ॥२४॥संख्यविक्षततनुस्रवदस्रक्षालि-ताखिलनिजाघलघूनाम् ।यत्त्विहानुपगमः शृणु राज्ञांतज्जगद्युवमुदं तमुदन्तम् ॥२५॥सा भुवः किमपि रत्नमनर्घेभूषणं जयति तत्र कुमारी ।भीमभूपतनया दमयन्तीनाम या मदनशस्त्रममोघम् ॥२६॥संप्रति प्रतिमुहूर्तमपूर्वाकापि यौवनजवेन भवन्ती ।आशिखं सुकृतसारभृते साक्वापि यूनि भजते किल भावम् ॥२७॥कथ्यते न कतमः स इति त्वंमां विवक्षुरसि किं चलदोष्ठः ।अर्धवर्त्मनि रुणत्सि न पृच्छांनिर्गमेण न परिश्रमयैनाम् ॥२८॥यत्पथावधिरणुः परमः सायोगिधीरपि न पश्यति यस्मात् ।बालया निजमनः परमाणौह्रीदरीशयहरीकृतमेनम् ॥२९॥सा शरस्य कुसुमस्य शरव्यंसूचिता विरहवाचिभरङ्गैः ।तातचित्तमपि धातुरधत्त स्व-स्वयंवरमहाय सहायम् ॥३०॥मन्मथाय यदथादित राज्ञांहूतिदूत्यविधये विधिराज्ञाम् ।तेन तत्परवशाः पृथिवीशाःसंगरं गरमिवाकलयन्ति ॥३१॥येषु येषु सरसा दमयन्तीभूषणेषु यदि वापि गुणेषु ।तत्र तत्र कलयापि विशेषो यःस हि क्षितिभृतां पुरुषार्थः ॥३२॥शैशवव्ययदिनावधि तस्यायौवनोदयिनि राजसमाजे ।आदरादहरहः कुसुमेषोःउल्ललास मृगयाभिनिवेशः ॥३३॥इत्यमी वसुमतीकमितारःसादरास्त्वदतिथीभवितुं न ।भीमभूसुरभुवोरभिलापेदूरमन्तरमहो नृपतीनाम् ॥३४॥तेन जाग्रदधृतिर्दिवमागांसंख्यसौख्यमनुसर्तुमनु त्वाम् ।यन्मृधं क्षितिभृतां न विलोकेतन्निमग्नमनसां भुवि लोके ॥३५॥वेद यद्यपि न कोऽपि भवन्तंहन्त हन्त्रकरुणं विरुणद्धि ।पृच्छयसे तदपि येन विवक-प्रोञ्छनाय विषये रससेकः ॥३६॥एवमुक्तवति देवऋषीन्द्रेद्रागभेदि मघवाननमुद्रा ।उत्तरोत्तरशुभो हि विभूनांकोऽपि मञ्जुलतमः क्रमवादः ॥३७॥कानुजे मम निजे दनुजारौजाग्रति स्वशरणे रणचर्चा ।यद्भुजाङ्कमुपधाय जयाङ्कंशर्मणा स्वपिमि वीतविशङ्कः ॥३८॥विश्वरूपकलनादुपपन्नंतस्य जैमिनिमुनित्वमुदीये ।विग्रहं मखभुजामसहिष्णुःव्यर्थतां मदशनिं स निनाय ॥३९॥ईदृशानि मुनये विनयाब्धिःतस्थिवान् स वचनान्युपहृत्य ।प्रांशुनिःश्वसितपृष्ठचरी वाङ्नारदस्य निरियाय निरोजाः ॥४०॥स्वारसातलभवाहवशङ्कीनिर्वृणोमि न वसन्वसुमत्याम् ।द्यां गतस्य हृदि मे दुरुदर्कःक्ष्मातलद्वयभटाजिवितर्कः ॥४१॥वीक्षितस्त्वमसि मामथ गन्तुंतन्मनुष्यजगतेऽनुमनुष्व ।किं भुवः परिवृढा न विवोढुंतत्र तामुपगता विवदन्ते ॥४२॥इत्युदीर्य स ययौ मुनिरुर्वोस्वर्पतिं प्रतिनिवर्त्य बलेन ।वारितोऽप्यनुजगाम सयत्नंतं कियन्त्यपि पदान्यपराणि ॥४३॥पाणये बलरिपोरथ भैमी-शीतकोमलकरग्रहमर्हम् ।भेषजं चिरचिताशनिवास-व्यापदामुपदिदेश रतीशः ॥४५॥नाकलोकभिषजोः सुषमा यापुष्पचापमपि चुम्बति सैव ।वेद्मि तादृगभिषज्यदसौ तद्-द्वारसंक्रमितवैद्यकविद्यः ॥४६॥मानुषीमनुसरत्यथ पत्यौखर्वभावमवलम्ब्य मघोनी ।खण्डितं निजमसूचयदुच्चैःमानमाननसरोरुहनत्या ॥४७॥यो मघोनि दिवमुच्चरमाणेरम्भया मलिनिमालमलम्भि ।वर्ण एव स खलूज्ज्वलमस्याःशान्तमान्तरमभाषत भङ्ग्या ॥४८॥जीवितेन कृतमप्सरसां तत्प्राणमुक्तिरिह युक्तिमती नः ।इत्यनक्षरमवाचि धृताच्यादीर्घनिःश्वसितनिर्गमितेन ॥४९॥साधु नः पतनमेवमितः स्यात्इत्यभण्यत तिलोत्तमयापि ।चामरस्य पतनेन कराब्जात्तद्विलोलनचलद्भुजनालात् ॥५१॥उर्वशी गुणवशीकृतविश्वातत्क्षणस्तिमितभावनिभेन ।शक्रसौहृदसमापनसीमःतम्भकार्यमपुषद्वपुषैव ॥५२॥कापि कामपि बभाण बुभुत्सुंशृण्वति त्रिदशभर्तरि किंचित् ।एष कश्यपसुतामभिगन्तापश्य कश्यपसुतः शतमन्युः ॥५३॥आलिमात्मसुभगत्वसगर्वाकापि शृण्वति मघोनि बभाषे ।वीक्षणेऽपि सघृणासि नृणांकिं यासि न त्वमपि सार्थगुणेन ॥५४॥अन्वयुर्द्युतिपयः पितृनाथाःतंमुदाथ हरितां कमितारः ।वर्त्म कर्षतु पुरः परमेकस्तद्गतानुगतिको न महार्घः ॥५५॥प्रेषिताः पृथगथो दमयन्त्यैचित्तचौर्यचतुरा निजदूत्यः ।तहुरुं प्रति च तैरुपहाराःसंख्यसौख्यकपटेन निगूढाः ॥५६॥चित्रमत्र विबुधैरपि यत्तैःस्वर्विहाय बत भूरनुसस्रे ।द्यौर्न काचिदथवास्ति निरुढासैव सा चलति यत्र हि चित्तम् ॥५७॥किं घनस्य जलधेरथवैवंनैव संशयितुमप्यलभन्त ।स्यन्दनं परमदूरमपश्यन्निःस्वनश्रुतिसहोपनतं ते ॥५९॥सूतविश्रमदकौतुकिभावंभावबोधचतुरं तुरगाणाम् ।तत्र नेत्रजनुषः फलमेतेनैषधं बुबुधिरे विबुधेन्द्राः ॥६०॥वीक्ष्य तस्य वरुणस्तरुणत्वंतद्बभार निबिडं जडभूयम् ।नौचिती जलपतेः किमु सास्यप्राज्यविस्मयरसस्तिमितस्य ॥६१॥रूपमस्य विनिरूप्य तथातिम्लानिमाप रविवंशवतंसः ।कीर्त्यते यदधुनापि स देवःकाल एव सकलेन जनेन ॥६२॥यं बभार दहनः खलु तापंरूपधेयभरमस्य विमृश्य ।तत्र भूदनलता जनिकर्त्री मातदप्यनलतैव तु हेतुः ॥६३॥कामनीयकमधः कृतकामंकाममक्षिभिरवेक्ष्य तदीयम् ।कौशिकः स्वमखिलं परिपश्यन्मन्यते स्म खलु कौशिकमेव ॥६४॥रामणीयकगुणाद्वयवादंमूर्तमुत्थितममुं परिभाव्य ।विस्मयाय हृदयानि वितेरुःतेन तेषु न सुराः प्रबभूवुः ॥६५॥प्रैयरूपकविशेषनिवेशैःसंवदद्भिरमराः श्रुतपूर्वैः ।एष एव स नलः किमितीदंमन्दमन्दमितरेतरमूचुः ॥६६॥तेषु तद्विधवधूवरणार्हंभूषणं स समयः स रथाध्वा ।तस्य कुण्डिनपुरं प्रतिसर्पन्भूपतेर्व्यवसितानि शशंसुः ॥६७॥धर्मराजसलिलेशहुताशैःप्राणातां श्रितममुं जगतस्तैः ।प्राप्य हृष्टचलविस्तृततापैःचेतसा निभृतमेतदचिन्ति ॥६८॥नैव नः प्रियतमोभयथासौयद्यमुं न वृणुते वृणुते वा ।एकतो हि धिगमूमगुणज्ञम्अन्यतः कथमदः प्रतिलम्भः ॥६९॥मां वरिष्यति तदा यदि मत्तो वेद नेयमियदस्य महत्त्वम् ।ईदृशी च कथमाकलयित्रीमद्विशेषमपरान्नृपपुत्री ॥७०॥नैषधे बत वृते दमयन्त्याव्रीडितो नहि बहिर्भवितास्मि ।स्वां गृहेऽपि वनितां कथमास्यंह्रीनिमीलि खलु दर्शयिताहे ॥७१॥इत्यवेत्य मनसात्मविधेयंकिंचन त्रिविबुधी बुबुधे न ।नाकनायकमपास्य तमेकंसा स्म पश्यति परस्परमास्यम् ॥७२॥किं विधेयमधुनेति विमुग्धंस्वानुगाननमवेक्ष्य ऋभुक्षाः ।शंसति स्म कपटे पटुरुच्चैःवञ्चनं समभिलष्य नलस्य ॥७३॥सर्वतः कुशलवानसि किच्चित्वंस नैषध इति प्रतिभा नः ।स्वासनार्धसुहृदस्त्वयिरेखां वीरसेननृपतेरिव विद्मः ॥७४॥क्व प्रयास्यसि नलेत्यलमुक्त्वायात्रयात्र शुभयाजनि यन्नः ।तत्तयैव फलसत्वरया त्वंनाध्वनोऽर्धमिदमागमितः किम् ॥७५॥एष नैषध ! स दण्डभृदेषज्वालजालजटिलः स हुताशः ।यादसां स पतिरेष च शेषंशासितारमधिगच्छ सुराणाम् ॥७६॥अर्थितो वयममी समुपेमःत्वां नलेति फलितार्थमवेहि ।अध्वनः क्षणमपास्य च खेदंकुर्महे भवति कार्यनिवेदम् ॥७७॥ईदृशीं गिरमुदीर्य बिडौजाजोषमास न विशिष्य बभाषे ।नात्र चित्रमभिधाकुशलत्वेशैशवावधि गुरुर्गुरुरस्य ॥७८॥अर्थिनामहृषिताखिललोमास्वं नृपः स्फुटकदम्बकदम्बम् ।अर्चनार्थमिव तच्चरणानांस प्रणामकरणादुपनिन्ये ॥७९॥दुर्लभं दिगधिपैः किममीभिःतादृशं कथमहो मदधीनम् ।ईदृशं मनसिकृत्य विरोधंनैषधेन समशायि चिराय ॥८०॥जीवितावधि वनीयकमात्रैःयाच्यमानमखिलैः सुलभं यत् ।अर्थिने परिवृढाय सुराणां किंवितीर्य परितुष्यति चेतः ॥८१॥भीमजा च हृदि मे परमास्तेजीवितादपि धनादपि गुर्वी ।न स्वमेव मम सार्हति यस्याःषोडशीमपि कलां किल नोर्वी ॥८२॥मीयतां कथमभीप्सितमेषांदीयतां कथमयाचितमेव ।तं धिगस्तु कलयन्नपि वाञ्छाम्अर्थिवागवसरं सहते यः ॥८३॥प्रापितेन चटुकाकुविडम्बंलम्भितेन बहुयाचनलज्जाम् ।अर्थिना यदघमर्जति दातातन्न लुम्पति विलम्ब्य ददानः ॥८४॥यत्प्रदेयमुपनीय वदान्यैःदीयते सलिलमर्थिजनाय ।सार्थनोक्तिविफलत्वविशङ्कात्रासमूर्च्छदपमृत्युचिकित्सा ॥८५॥अर्थिने न तृणवद्धनमात्रं किंतु जीवनमपि प्रतिपाद्यम् ।एवमाह कुशवज्जलदापीदव्यदानविधिरुक्तिविदग्धः ॥८६॥पङ्कसंकरविगर्हितमर्हंन श्रियः कमलमाश्रयणाय ।अर्थिपाणिकमलं विमलंतद्वासवेश्म विदधीत सुधीस्तत् ॥८७॥याचमानजनमानसवृत्तेःपूरणाय बत जन्म न यस्य ।तेन भूमिरतिभारवतीयंन द्रुमैर्न गिरिभिर्न समुद्रैः ॥८८॥मा धनानि कृपणः खलु जीवंस्तृष्णयार्पयतु जातु परस्मै ।तत्र चैष कुरुते मम चित्रंयत्तु नार्पयति तानि मृतोऽपि ॥८९॥माममीभिरिह याचितवद्भिःदातृजातमवमत्य जगत्याम् ।यद्यशो मयि निवेक्षितमेतन्निष्क्रयोऽस्तु कतमस्तु तदीयः ॥९०॥लोक एष परलोकमुपेताहा विहाय निधने धनमेकः ।इत्यमुं खलु तदस्य निनीषत्-यर्थिबन्धुरुदयद्दयचित्तः ॥९१॥दानपात्रमधर्मणमिहैक-ग्राहि कोटिगुणितं दिवि दायि ।साधुरेति सुकृतैर्यदि कर्तुंपारलौकिककुसीदमसीदत् ॥९२॥एवमादि स विचिन्त्य मुहूर्तंतानवोचत पतिर्निषधानाम् ।अर्थिदुर्लभमवाप्य सहर्षान्याच्यमानमुखमुल्लसितश्रि ॥९३॥नास्ति जन्यजनकव्यतिभेदःसत्यमन्नजनितो जनदेहः ।वीक्ष्य वः खलु तनूममृतादंदृङ्गिमज्जनमुपैति सुधायाम् ॥९४॥मत्तपः क्व नु तनु क्व फलं वायूयमीक्षणपथं व्रजथेति ।ईदृशं परिणमन्ति पुनर्नःपूर्वपूरुषतपांसि जयन्ति ॥९५॥प्रत्यतिष्ठिपदिलां खलु देवींकर्म सर्वसहनव्रतजन्म ।यूयमप्यहह पूजनमस्यायन्निजैः सृजथ पादपयोजैः ॥९६॥जीवितावधि किमप्यधिकं वायन्मनीषितमितो नरडिम्भात् ।तेन वश्चरणमर्चतु सोऽयंब्रूत वस्तु पुनरस्तु किमीदृक् ॥९७॥एवमुक्तवति वीतविशङ्केवीरसेनतनये विनयेन ।वक्रभावविषमामथ शक्रःकार्यकैतवगुरुर्गिरमूचे ॥९८॥पाणिपीडनमहं दमयन्त्याःकामयेमहि महीमिहिकांशो ! ।दूत्यमत्र कुरु नः स्मरभीतिंनिर्जितस्मर ! चिरस्य निरस्य ॥९९॥आसते शतमधिक्षिति भूपाःतोयराशिरसि ते खलु कूपाः ।किं ग्रहा दिवि न जाग्रति ते तेभास्करस्य कतमस्तुलयास्ते ॥१००॥विश्वदृश्वनयना वयमेवत्वह्गुणाम्बुधिमगाधमवेमः ।त्वामिहैवमनिवेश्य रहस्येनिर्वृतिं नहि लभेमहि सर्वे ॥१०१॥शुद्धवंशजनितोऽपि गुणस्यस्थानतामनुभवन्नपि शक्रः ।क्षिप्नुरेमृजुमाशु सपक्षंसायकं धनुरिवाजनि वक्रः ॥१०२॥तेन तेन वचसैव मघोनःस स्म वेद कपटं पटुरुच्चैः ।आचरत्तदुचितामथ वाणी-मार्जवं हि कुटिलेषु न नीतिः ॥१०३॥सेयमुच्चतरता दुरितानाम्अन्यजन्मनि मयैव कृतानाम् ।युष्मदीयमपि या महिमनंजेतुमिच्छति कथापथपारम् ॥१०४॥वित्थ चित्तमखिलस्य न कुर्यांधुर्यकार्यपरिपन्थि तु मौनम् ।ह्रीर्गिरास्तु वरमस्तु पुनर्मास्वीकृतैव परवागपरास्ता ॥१०५॥यन्मतौ विमलदर्पणिकायांसंमुखस्थमखिलं खलु तत्त्वम् ।तेऽपि किं वितरथेदृशमाज्ञांया न यस्य सदृशी वितरीतुम् ॥१०६॥यामि यामिह वरीतुमहोतदृततां नु करवाणि कथं वः ।ईदृशां न महतां बत जातावञ्चने मम तृणस्य घृणापि ॥१०७॥उद्भ्रमामि विरहान्मुहुरस्यामोहमेमि च मुहूर्तमहं यः ।ब्रुत वः प्रभवितास्मि रहस्यंरक्षितुं स कथमीदृगवस्थः ॥१०८॥यां मनोरथमयीं हृदि कृत्वायः श्वसिम्यथ कथं स तदग्रे ।भावगुप्तिमवलम्बितुमीशेदुर्जया हि विषया विदुषापि ॥१०९॥यामिकाननुपमृद्य च मादृक्तां निरीक्षितुमपि क्षमते कः ।रक्षिलक्षजयचण्डचरित्रेपुंसि विश्वसिति कुत्र कुमारी ॥११०॥आदधीचि किल दातृकृतार्घंप्राणमात्रपणसीम यशो यत् ।आददे कथमहं प्रिययातत् प्राणतः शतगुणेन पणेन ॥१११॥अर्थना मयि भवद्भिरिवास्यैकर्तुमर्हति मयापि भवत्सु ।भीमजार्थपरयाचनचाटौयूयमेव गुरवः करणीयाः ॥११२॥अर्थिताः प्रथमतो दमयन्तींयूयमन्वहमुपास्य मया यत् ।ह्रीर्न चेद्व्यतियतामपि तद्वःसा ममापि सुतरां न तदस्तु ॥११३॥कुण्डिनेन्द्रसुतया किल पूर्वंमां वरीतुमुररीकृतमास्ते ।व्रीडमेष्यति परं मयि दृष्टेस्वीकरिष्यति न सा खलु युष्मान् ॥११४॥तत्प्रसीदत विधत्त न खेदंदूत्यमत्यसदृशं हि ममेदम् ।हास्यतैव सुलभा न तु साध्यंतद्विधित्सुभिरनौपयिकेन ॥११५॥ईदृशानि गदितानि तदानीम्आकलय्य स नलस्य बलारिः ।शंसति स्म किमपि स्मयमानःस्वानुगाननविलोकनलोलः ॥११६॥नाभ्यधायि नृपते !भवतेदं रोहिणीरमणवंशभुवैव ।लज्जते न रसना तववाम्यादर्थिषु स्वयमुरीकृतकाम्या ॥११७॥भङ्गुरं न वितथं न कथं वाजीवलोकमवलोकयसीमम् ।येन धर्मयशसी परिहातुंधीरहो चलति धीर ! तवापि ॥११८॥कः कुलेऽजनि जगन्मुकुटे वःप्रार्थकेप्सितमपूरि न येन ।इन्दुरादिरजनिष्ट कलङ्कीकष्टमत्र स भवानपि मा भूत् ॥११९॥यापदृष्टिरपि या मुखमुद्रायाचमानमनु या च न तुष्टिः ।त्वादृशस्य सकलः स कलङ्कःशीतभासि शशकृः परमङ्कः ॥१२०॥नाक्षराणि पठता किमपाठिप्रस्मृतः किमथवा पठितोऽपि ।इत्थमर्थिचयसंशय दोला-खेलनं खलु चकार नकारः ॥१२१॥अब्रवीत्तमनलः क्व नलेदंलब्धमुज्झसि यशः शशिकल्पम् ।कल्पवृक्षपतिमर्थिनमित्थंनाप कोऽपि शतमन्युमिहान्यः ॥१२२॥न व्यहन्यत कदापि मुदं यःस्वः सदामुपनयन्नभिलाषः ।तत्पदे त्वदभिषेककृतां नःस त्यजत्वसमतामदमद्य ॥१२३॥अब्रवीदथ यमस्तमहृष्टंवीरसेनकुलदीप ! तमस्त्वाम् ।यत्किमप्यभिबुभूषतितत्किं चन्द्रवंशवसतेः सदृशं ते ॥१२४॥रोहणः किमपि यः कठिनानांकामधेनुरपि या पशुरेव ।नैनयोरपि वृथाऽभवदर्थीही विधित्सुरसि वत्स ! किमेतत् ॥१२५॥याचितश्चिरयति क्व नु धीरःप्राणने क्षणमपि प्रतिभूः कः ।शंसति द्विनयनी दृढनिद्रांद्राङ्गिमेषमिषघूर्णनपूर्णा ॥१२६॥अभ्रपुष्पमपि दित्सति शीतंसार्थिना विमुखता यदभाजि ।स्तोककस्य खलु चञ्चुपुटेनम्लानिरुल्लसति तद्धनसङ्घे ॥१२७॥ऊचिवानुचितमक्षरमेनंपाशपाणिरपि पाणिमुदस्य ।कीर्तिरेव भवतां प्रियदारादाननीरझरमौक्तिकहारा ॥१२८॥चर्म वर्म किल यस्य नभेद्यंयस्य वज्रमयमस्थि च तौ चेत् ।स्थायिनाविह न कर्णदधीचीतन्न धर्ममवधीरय धीर ! ॥१२९॥अद्य यावदपि येन निबद्धौन प्रभू विचलितुं बलिविन्ध्यौ ।आस्थितावितथतागुणपाशःत्वादृशा स विदुषा दुरपासः ॥१३०॥प्रेयसी जितसुधांशुमुखश्रीःया न मुञ्चति दिगन्तगतापि ।भङ्गिसङ्गमकुरङ्गदृगर्थेकः कदर्थयति तामपि कीर्तिम् ॥१३१॥यान्वरं प्रति परेऽर्थयितारस्तेऽपि यं वयमहो स पुनस्त्वम् ।नैव नः खलु मनोरथमात्रंशूर ! पूरय दिशोऽपि यशोभिः ॥१३२॥अर्थिता त्वयि गतेषु सुरेषुम्लानदानजनिजोरुयशः श्रीः ।अद्य पाण्डु गगनं सुरशाखीकेवलेन कुसुमेन विधत्तम् ॥१३३॥प्रवसते भरतार्जुनवैन्यंवत्स्मृतिधृतोऽपि नल ! त्वमभीष्टदः ।स्वगमनाफलतां यदि शङ्कसेतदफलं निखिलं खलु मङ्गलम् ॥१३४॥इष्टं न प्रति ते प्रतिश्रुतिरभूद्याद्य स्वराह्लादिनीधर्मार्था सृज तां श्रुतिप्रतिभटीकृत्यान्विताख्यापदाम् ।त्वत्कीर्तिः पुनती पुनस्त्रिभुवनं शुभ्राद्वयादेशना-द्द्रव्याणां शितिपीतलोहितहरिन्नामान्वयं लुम्पतु ॥१३५॥यं प्रासूत सहस्रपादुदभवत्पादेन खञ्जः कथंस च्छायातनयः सुतः किल पितुः सादृश्यमन्विच्छति ।एतस्योत्तरमद्य नः समजनि त्वत्तेजसां लङ्घनेसाहस्रैरपि पङ्गुरङ्घ्रिभिरभिव्यक्तीभवन्भानुमान् ॥१३६॥इत्याकर्ण्य क्षितीशस्त्रिदशपरिषदस्ता गिरश्चाटुगर्भावैदर्भीकामुकोऽपि प्रसभविनिहितं दूत्यभारं बभार ।अङ्गीकारं गतेऽस्मिन्नमरपरिवृढः संभृतानन्दमूचेभूयादन्तर्धिसिद्धेरनुविहितभवच्चित्तता यत्र तत्र ॥१३७॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।तस्य श्रीविजयप्रशस्तिरचनातातस्य नव्ये महा-काव्ये चारुणि नैषधीयचरिते सर्गोऽगमत्पञ्चमः ॥१३८॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP