संस्कृत सूची|संस्कृत स्तोत्र साहित्य|नैषधीयचरितम्| नवमः सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - नवमः सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत नवमः सर्गः Translation - भाषांतर इतीयमक्षिभ्रुवविभ्रमेङ्गित-स्फुटामनिच्छां विवरीतुमुत्सुका ।तदुक्तिमात्रश्रवणेच्छयाऽशृणोद्दिगीशसंदेशगिरं न गौरवात् ॥१॥तदर्पितामश्रुतवद्विधायतां दिगीशसंदेशमयीं सरस्वतीम् ।इदं तमुर्वीतलशीतलद्युतिंजगाद वैदर्भनरेन्द्रनन्दिनी ॥२॥मयाङ्ग ! पृष्टः कुलनामनी भवान्अमू विमुच्यैव किमन्यदुक्तवान् ।न मह्यमत्रोत्तरधारयस्य किंह्रियेऽपि सेयं भवतोऽधमर्णता ॥३॥अदृश्यमाना क्वचिदीक्षिता क्वचिन्ममानुयोगे भवतः सरस्वती ।क्वचित्प्रकाशां क्वचिदस्फुटार्णसंसरस्वतीं जेतुमनाः सरस्वतीम् ॥४॥गिरः श्रुता एव तव श्रवः सुधाःश्लथा भवन्नाम्नि तु न श्रुतिस्पृहा ।पिपासुता शान्तिमुपैति वारिजान जातु दुग्धान्मधुनोऽधिकादपि ॥५॥बिभर्ति वंशः कतमस्तमोपहंभवादृशं नायकरत्नमीदृशम् ।तमन्यसामान्यधियावमानितंत्वया महान्तं बहु मन्तुमुत्सहे ॥६॥इतीरयित्वा विरतां स तां पुनःगिरानुजग्राहतरां नराधिपः ।विरुत्य विश्रान्तवतीं तपात्ययेघनाघनश्चातकमण्डलीमिव ॥७॥अये ! ममोदासितमेव जिह्वयाद्वयेऽपि तस्मिन्ननतिप्रयोजने ।गरौ गिरः पल्लवनार्थलाघवेमितं च सारं च वचो हि वाग्मिता ॥८॥वृथा कथेयं मयि वर्णपद्धतिःकयानुपूर्व्या समकेति केति च ।क्षमे समक्षव्यवहारमावयोःपदे विधातुं खलु युष्मदस्मदी ॥९॥यदि स्वभावान्मम नोज्ज्वलं कुलंततस्तदुद्भावनमौचिती कुतः ।अथावदातं तदहो विडम्बनातथा कथा प्रेष्यतयोपसेदुषः ॥१०॥इति प्रतीत्यैव मयावधीरितेतवापि निर्बन्धरसो न शोभते ।हरित्पतीनां प्रतिवाचिकं प्रतिश्रमो गिरां ते घटते हि संप्रति ॥११॥तथापि निर्बन्धति ! तेऽथवा स्पृहाम्इहानुरुन्धे मितया न किं गिरा ।हिमांशुवंशस्य करीरमेव मांनिशम्य किं नासि फलेग्रहिग्रहा ॥१२॥महाजनावारपरम्परेदृशीस्वनाम नामाददते न साधवः ।अतोऽभिधातुं न तदुत्सहे पुनःजनः किलाचारमुचं विगायति ॥१३॥अदोऽयमालप्य शिखीव शारदोबभूव तूष्णीमहितापकारकः ।अथास्यरागस्य दधा पदे पदेवचांसि हंसीव विदर्भजाददे ॥१४॥सुधांशुवंशाभरणं भवानितिश्रुतेऽपि नापैति विशेषसंशयः ।कियत्सु मौनं वितता कियत्सु वाङ्-महत्यहो वञ्चनचातुरी तव ॥१५॥मयापि देयं प्रतिवाचिकं न तेस्वनाम मत्कर्णसुधामकुर्वते ।परेण पुंसा हि ममापि संकथाकुलाबलाचारसहासनासहा ॥१६॥हृदाभिनन्द्य प्रतिबन्द्यनुत्तरःप्रियागिरः सस्मितमाह स स्म ताम् ।वदामि वामाक्षि ! परेषु मा क्षिपस्वमीदृशं माक्षिकमाक्षिपद्वचः ॥१७॥करोषि नेमं फलिनं मम श्रमंदिशोऽनुगृह्णासि न कंचन प्रभुम् ।त्वमित्थमर्हासि सुरानुपासितुंरसामृतस्नानपवित्रया गिरा ॥१८॥सुरेषु संदेशयसीदृशीं बहुंरसस्रवेण स्तिमितां न भारतीम् ।मदर्पिता दर्पकतापितेषु याप्रयाति दावार्दितदाववृष्टिताम् ॥१९॥यथा यथेह त्वदुपेक्षयानयानिमेषमप्येष जनो विलम्बते ।रुषा शरव्यीकरणे दिवौकसांतथा तथाद्य त्वरते रतेः पतिः ॥२०॥इयच्चिरस्यावदधन्ति मत्पथेकिमिन्द्रनेत्राण्यशनिर्न निर्ममौ ।धिगस्तु मां सत्वरकार्यमन्थरंस्थितः परप्रेष्यगुणोऽपि यत्र न ॥२१॥इदं निगद्य क्षितिभर्तरि स्थितेतयाभ्यधायि स्वगतं विदग्धया ।अधिस्त्रि तं दूतयतां भुवः स्मरंमनो दधत्या नयनैपुणव्यये ॥२२॥जलाधिपस्त्वामदिशन्मयि ध्रुवंपरेतराजः प्रजिधाय स स्फुटम् ।मरुत्वतैव प्रहितोऽसि निश्चितंनियोजितश्चोर्ध्वमुखेन तेजसा ॥२३॥अथ प्रकाशं निभृतस्मिता सतीसतीकुलस्याभरणं किमप्यसौ ।पुनस्तदाभाषणविभ्रमोन्मुखंमुखं विदर्भाधिपसंभवा दधौ ॥२४॥वृथापरीहास इति प्रगल्भतान नेति च त्वादृशि वाग्विगर्हणा ।भवत्यवज्ञा च भवत्यनुत्तरात्अतः प्रदित्सुः प्रतिवाचमस्मि ते ॥२५॥कथं नु तेषां कृपयापि वागसा-वसावि मानुष्यकलाञ्छने जने ।स्वभावभक्तिप्रवणं प्रतीश्वराःकया न वाचा मुदमुद्गिरन्ति वा ॥२६॥अहो महेन्द्रस्य कथं मयौचितीसुराङ्गनासंगमशोभिताभृतः ।ह्रदस्य हंसावलिमांसलश्रियोबलाकयेव प्रबला विडम्बना ॥२७॥पुरः सुरीणां भण केव मानवीन यत्र तास्तत्र तु शोभिकापि सा ।अकाञ्चनेऽकिंचन नायिकाङ्गकेकिमारकूटाभरणेन न श्रियः ॥२८॥यथा तथा नाम गिरः किरन्तुते श्रुती पुनर्मे बधिरे तदक्षरे ।पृषत्किशारी कुरुतामसंगतांकथं मनोवृत्तिमपि द्विपाधिपे ॥२९॥अदो निगद्यैव नतास्यया तयाश्रुतौ लगित्वाभिहितालिरालपत् ।प्रविश्य यन्मे हृदयं ह्रियाह तद्विनिर्यदाकर्णय मन्मुखाध्वना ॥३०॥बिभेमि चिन्तामपि कर्तुमीदृशींचिराय चित्तार्पितनैषधेश्वरा ।मृणालतन्तुच्छिदुरा सतीस्थितिःलवादपि त्रुट्यति चापलात्किल ॥३१॥ममाशयः स्वप्नदशाज्ञयापि वानलं विलङ्घ्येतरमस्पृशद्यदि ।कुतः पुनस्तत्र समस्तसाक्षिणीनिजैव बुद्धिर्विबुधैर्न पृच्छ्यते ॥३२॥अपि स्वमस्वप्नमसूषुपन्नमीपरस्य दाराननवैतुमेव माम् ।स्वयं दुरध्वार्णवनाविकाः कथंस्पृशन्तु विज्ञाय हृदापि तादृशीम् ॥३३॥अनुग्रहः केवलमेष मादृशेमनुष्यजन्मन्यपि यन्मनो जने ।स चेद्विधेयस्तदमी तमेव मेप्रसद्य भिक्षां वितरीतुमीशताम् ॥३४॥अपि द्रढीयः शृणु मत्प्रतिश्रुतंस पीडयेत्पाणिमिमं न चेन्नृपः ।हुताशनोद्बन्धनवारिकारितांनिजायुषस्तत्करवै स्ववैरिताम् ॥३५॥निषिद्धमप्याचरणीयमापदिक्रिया सती नावति यत्र सर्वथा ।घनाम्बुना राजपथे हि पिच्छिलेक्वचिद्बुधैरप्यपथेन गम्यते ॥३६॥स्त्रिया मया वाग्मिषु तेषु शक्यतेन जातु सम्यग्वितरीतुमुत्तरम् ।तदत्र मद्भाषितसूत्रपद्धतौप्रबन्धृतास्तु प्रतिबन्धृता न ते ॥३७॥निरस्य दूतः स्म तथा विसर्जितःप्रियोक्तिरप्याह कदुष्णमक्षरम् ।कुतूहलेनेव मुहुः कुहूरवंविडम्ब्य डिम्भेन पिकः प्रकोपितः ॥३८॥अहो मनस्त्वामनु तेऽपि तन्वतेत्वमप्यमीभ्यो विमुखीति कौतुकम् ।क्व वा निधिर्निर्धनमेति किंच तंस वाक्कवाटं घटयन्निरस्यते ॥३९॥सहाखिलस्त्रीषु वहेऽवहेलयामहेन्द्ररागाद्गुरुमादरं त्वयि ।त्वमीदृशि श्रेयसि संमुखेऽपि तंपराङ्मुखी चन्द्रमुखि ! न्यवीवृतः ॥४०॥दिवौकसं कामयते न मानवीनवीनमश्रावि तवाननादिदम् ।कथं न वा दुर्ग्रहदोष एष तेहितेन सम्यग्गुरुणापि शाम्यते ॥४१॥अनुग्रहादेव दिवौकसां नरोनिरस्य मानुष्यकमेति दिव्यताम् ।अयोविकारे स्वरितत्वमिष्यतेकुतोऽयसां सिद्धरसस्पृशामपि ॥४२॥हरिं परित्यज्य नलाभिलाषुकान लज्जसे वा विदुषिब्रुवा कथम् ? ।उपेक्षितेक्षोः करभाच्छमीरतात्उरुं वदे त्वां करभोरु ! भोरिति ॥४३॥विहाय हा सर्वसुपर्वनायकंत्वया धृतः किं नरसाधिमभ्रमः ।मुखं विमुच्य श्वसितस्य धारयावृथैव नासापथधावनश्रमः ॥४४॥तपोऽनले जुह्वति सूरयस्तनुःदिवे फलायान्यजनुर्भविष्णवे ।करे पुनः कर्षति सैव विह्वलाबलादिव त्वां बलसे न बालिशे ! ॥४५॥यदि स्वमुद्बन्धुमना विना नलंभवेर्भवन्तीं हरिरन्तरिक्षगाम् ।दिविस्थितानां प्रथितः पतिस्ततोहरिष्यति न्याय्यमुपेक्षते हि कः ॥४६॥निवेक्ष्यसे यद्यनले नलोज्झितासुरे तदस्मिन्महती दया कृता ।चिरादनेनार्थनयापि दुर्लभंस्वयं त्वयैवाङ्ग ! यदङ्गमर्प्यते ॥४७॥जितं जितं तत्खलु पाशपाणिनाविना नलं वारि यदि प्रवेक्ष्यसि ।तदा त्वदाख्यान्बहिरप्यसूनसौपयःपतिर्वक्षसि वक्ष्यतेतराम् ॥४८॥करिष्यसे यद्यत एव दूषणात्उपायमन्यं विदुषी स्वमृत्यवे ।प्रियातिथिः स्वेन गृहागता कथंन धर्मराजं चरितार्थयिष्यसि ? ॥४९॥निषेधवेषो विधिरेष तेऽथवातवैव युक्ता खलु वाचि वक्रता ।विजृम्भितं यस्य किल ध्वनेरिदंविदग्धनारीवदनं तदाकरः ॥५०॥भ्रमामि ते भैमि ! सरस्वतीरस-प्रवाहचक्रेषु निपत्य कत्यदः ।त्रपामपाकृत्य मनाक्कुरु स्फुटंकृतार्थनीयः कतमः सुरोत्तमः ॥५१॥मतः किमैरावतकुम्भकैतव-प्रगल्भपीनस्तनदिग्धवस्तव ।सहस्रनेत्रान्न पृथग्मते ममत्वदङ्गलक्ष्मीमवगाहितुं क्षमः ॥५२॥प्रसीद तस्मै दमयन्ति ! संततंत्वदङ्गसङ्गप्रभवैर्जगत्प्रभुः ।पुलोमजालोचनतीक्ष्णकण्टकैःतनुं घनामातनुतां स कण्टकैः ॥५३॥अबोधि तत्त्वं दहनेऽनुरज्यसेस्वयं खलु क्षत्रियगोत्रजन्मनः ।विना तमोजस्विनमन्यतः कथंमनोरथस्ते वलते विलासिनि ! ॥५४॥त्वयैकसत्या तनुतापशङ्कयाततो निवर्त्य न मनः कथंचन ।हिमोपमा तस्य परीक्षणक्षणेसतीषु वृत्तिः शतशो निरूपिता ॥५५॥स धर्मराजः खलु धर्मशीलयात्वयास्ति चित्तातिथितामवापितः ।ममापि साधुः प्रतिभात्ययं क्रमःचकास्ति योग्येन हि योग्यसंगमः ॥५६॥अजातविच्छेदलवैः स्मरोद्भवैःअगस्त्यभासा दिशि निर्मलत्विषि ।धुतावधिं कालममृत्युशङ्कितानिमेषवत्तेन नयस्व केलिभिः ॥५७॥शिरीषमृद्वी वरुणं किमीहसेपयः प्रकृत्या मृदुवर्गवासवम् ।विहाय सर्वान्वृणुते स्म किं नसा निशापि शीतांशुमनेन हेतुना ॥५८॥असेवि यस्त्यक्तदिवा दिवानिशंश्रियः प्रियेणानणुरामणीयकः ।सहामुना तत्र पयःपयोनिधौकृशोदरि ! क्रीड यथामनोरथम् ॥५९॥इति स्फुटं तद्वचसस्तयादरात्सुरस्पृहारोपविडम्बनादपि ।कराङ्कसुप्तैककपोलकर्णयाश्रुतं च तद्भाषितमश्रुतं च तत् ॥६०॥चिरादनध्यायमवाङ्मुखी मुखेततः स्म सा वासयते दमस्वसा ।कृतायतश्वासविमोक्षणाथ तंक्षणाद्बभाषे करुणं विचक्षणा ॥६१॥विभिन्दता दुष्कृतिनीं मम श्रुतिंदिगिन्द्रदुर्वाचिकसूचिसंचयैः ।प्रयातजीवामिव मां प्रति स्फुटंकृतं त्वयाप्यन्तकदूततोचितम् ॥६२॥त्वदास्यनिर्यन्मदलीकदुर्यशोम्अषीमयं सल्लिपिरूपभागिव ।श्रुतं ममाविश्य भवद्दुरक्षरंसृजत्यदः कीटवदुत्कटा रुजः ॥६३॥तमालिरूचेऽथ विदर्भजेरिताप्रगाढमौनव्रतयैकया सखी ।त्रपां समाराधयतीयमन्ययाभवन्तमाह स्वरसज्ञया मया ॥६४॥तमर्चितुं मद्वरणस्रजा नृपंस्वयंवरः संभविता परेद्यवि ।ममासुभिर्गन्तुमनाः पुरः सरैःतदन्तरायः पुनरेष वासरः ॥६५॥तदद्य विश्रम्य दयालुरेधि मेदिनं निनीषामि भवद्विलोकिनी ।नखैः किलाख्यायि विलिख्य पक्षिणातवैव रूपेण समः स मत्प्रियः ॥६६॥दृशोर्द्वयी ते विधिनास्ति वञ्चितामुखस्य लक्ष्मीं तव यन्न वीक्षते ।असावपि श्वस्तदिमां नलाननेविलोक्य साफल्यमुपैतु जन्मनः ॥६७॥ममैव पाणौकरणेऽग्निसाक्षिकंप्रसङ्गसंपादितमङ्ग ! संगतम् ।न हा सहाधीतिधृतः स्पृहा कथंतवार्यपुत्रीयमजर्यमर्जितुम् ? ॥६८॥दिगीश्वरार्थे न कथंचन त्वयाकदर्थनीयास्मि कृतोऽयमञ्जलिः ।प्रसद्यतां नाद्य निगाद्यमीदृशंदृशौ दधे बाष्परयास्पदे भृशम् ॥६९॥वृणे दिगीशानिति का कथा तथात्वयीति नेक्षे नलभामपीहया ।सतीव्रतेऽग्नौ तृणयामि जीवितंस्मरस्तु किं वस्तु तदस्तु भस्म यः ॥७०॥न्यवेशि रत्नत्रितये जिनेन यःस धर्मचिन्तामणिरुज्झितो यया ।कपालिकोपानलभस्मनः कृतेतदेव भस्म स्वकुले स्तृतं तया ॥७१॥निपीय पीयूषरसौरसीरसौगिरः स्वकंदर्पहुताशनाहुतीः ।कृतान्तदूतं न तया यथोदितंकृतान्तमेव स्वममन्यतादयम् ॥७२॥स भिन्नमर्मापि तदर्तिकाकुभिःस्वदूतधर्मान्न विरन्तुमैहत ।शनैरशंसन्निभृतं विनिश्वसन्विचित्रवाक्चित्रशिखण्डिनन्दनः ॥७३॥दिवोधवस्त्वां यदि कल्पशाखिनंकदापि याचेत निजाङ्गणालयम् ।कथं भवेरस्य न जीवितेश्वरीन मोघयाच्ञः स हि भीरु ! भूरुहः ॥७४॥शिखी विधाय त्वदवाप्तिकामनांस्वयंहुतस्वांशहविः स्वमूर्तिषु ।क्रतुं विधत्ते यदि सार्वकामिकंकथं स मिथ्यास्तु विधिस्तु वैदिकः ॥७५॥सदा तदाशामधितिष्ठतः करंवरं प्रदातुं चलिताद्बलादपि ।मुनेरगस्त्याद्वृणुते स धर्मराड्यदि त्वदाप्तिं भण का तदा गतिः ॥७६॥क्रतोः कृते जाग्रति वेत्ति कः कतिप्रभोरपां वेश्मनि कामधेनवः ? ।त्वदर्थमेकामपि याचते स चेत्प्रचेतसः पाणिगतैव वर्तसे ॥७७॥न संनिधात्री यदि विघ्नसिद्धयेपतिव्रता पत्युरनिच्छया शची ।स एव राजव्रजवैशसात्कुतःपरस्परस्पर्धिवरः स्वयंवरः ? ॥७८॥निजस्य वृत्तान्तमजानतां मिथोमुखस्य रोषात्परुषाणि जल्पतः ।मृधं किमच्छत्रकदण्डताण्डवंभुजाभुजि क्षोणिभुजां दिदृक्षसे ॥७९॥अपार्थयन्याजकफूत्कृतिश्रमंज्वलेद्रुषा चेद्वपुषा तु नानलः ।अलं नलः कर्तुमनग्निसाक्षिकंविधिं विवाहे तव सारसाक्षि ! कम् ? ॥८०॥पतिंवरायाः कुलजं वरस्य वायमः कमप्याचरितातिथिं यदि ।कथं न गन्ता विफलीभविष्णुतांस्वयंवरः साध्वि ! समृद्धिमानपि ? ॥८१॥अपः प्रति स्वामितयाऽपरः सुरःस ता निषेधेद्यदि नैषधक्रुधा ।नलाय लोभात्ततपाणयेऽपि तेपिता कथं त्वां वद संप्रदास्यते ॥८२॥इदं महत्तेऽभिहितं हितं मयाविहाय मोहं दमयन्ति ! चिन्तय ।सुरेषु विघ्नैकपरेषु को नरःकरस्थमप्यर्थमवाप्तुमीश्वरः ? ॥८३॥इमा गिरस्तस्य विचिन्त्य चेतसातथेति संप्रत्ययमाससाद सा ।निवारितावग्रहनीरनिर्झरेनभोनभस्यत्वमलम्भयदृशौ ॥८४॥स्फुटोत्पलाभ्यामलिदंपतीव तद्विलोचनाभ्यां कुचकुङ्मलाशया ।निपत्य बिन्दू हृदि कज्जलाविलौमणीव नीलौ तरलौ विरेजतुः ॥८५॥धुतापतत्पुष्पशिलीमुखाशुगैःशुचेस्तदासीत्सरसी रसस्य सा ।रयाय बद्धादरयाश्रुधारयासनालनीलोत्पललीललोचना ॥८६॥अथोद्भ्रमन्ती रुदती गतक्षमाससंभ्रमा लुप्तरतिः स्खलन्मतिः ।व्यधात्प्रियप्राप्तिविधातनिश्चयान्मृदूनि दूना परिदेवतानि सा ॥८७॥त्वरस्व पञ्चेषुहुताशनात्मनःतनुष्व मद्भस्ममयं यशश्चयम् ।विधे ! परेहाफलभक्षणव्रतीपताद्य तृष्यन्नसुभिर्ममाफलैः ॥८८॥भृशं वियोगानलतप्यमान !किं विलीयसे न त्वमयोमयं यदि ।स्मरेषुभिर्भेद्य ! न वज्रमप्यसिब्रवीषि न स्वान्त ! कथं न दीर्यसे ॥८९॥विलम्बसे जीवित ! किं द्रव द्रुतंज्वलत्यदस्ते हृदयं निकेतनम् ।जहासि नाद्यापि मृषा सुखासिकाम्अपूर्वमालस्यमिदं तवेदृशम् ॥९०॥दृशौ ! मृषा पातकिनो मनोरथाःकथं पृथू वामपि विप्रलेभिरे ।प्रियश्रियः प्रेक्षणघाति पातकंस्वमश्रुभिः क्षालयतं शतं समाः ॥९१॥प्रियं न मृत्युं न लभे त्वदीप्सितंतदेव न स्यान्मम यत्त्वमिच्छसि ।वियोगमेवेच्छ मनः ! प्रियेण मेतव प्रसादान्न भवत्वसौ मम ॥९२॥न काकुवाक्यैरतिवाममङ्गजंद्विषत्सु याचे पवनं तु दक्षिणम् ।दिशापि मद्भस्म किरत्वयं तयाप्रियो यया वैरविधिर्वधावधिः ॥९३॥अमूनि गच्छन्ति युगानि न क्षणःकियत्सहिष्ये न हि मृत्युरस्ति मे ।स मां न कान्तः स्फुटमन्तरुज्झितान तं मनस्तच्च न कायवायवः ॥९४॥मदुग्रतापव्ययशक्तशीकरःसुराः ! स वः केन पपे कृपार्णवः ।उदेति कोटिर्न मुदे मदुत्तमाकिमाशु संकल्पकणश्रमेण वः ॥९५॥ममैव वाहर्दिनमश्रुदुर्दिनैःप्रसह्य वर्षासु ऋतौ प्रसञ्जिते ।कथं नु शृण्वन्तु सुषुप्य देवताभवत्वरण्येरुदितं न मे गिरः ॥९६॥इयं न ते नैषध ! दृक्पथातिथिःत्वदेकतानस्य जनस्य यातना ।ह्रदे ह्रदे हा न कियद्गवेषितःस वेधसाऽगोपि खगोऽपि वक्ति यः ॥९७॥ममापि किं नो दयसे दयाघन !त्वदङ्घ्रिमग्नं यदि वेत्थ मे मनः ।निमज्जयन्संतमसे पराशयंविधिस्तु वाच्यः क्व तवागसः कथा ? ॥९८॥कथावशेषं तव सा कृते गते-त्युपैष्यति श्रोत्रपथं कथं न ते ? ।दयाणुना मां समनुग्रहीप्यसेतदापि तावद्यदि नाथ ! नाधुना ॥९९॥ममादरीदं विदरीतुमान्तरंतदर्थिकल्पद्रुम ! किंचिदर्थये ।भिदां हृदि द्वारमवाप्य मा स मेहतासुभिः प्राणसमः समं गमः ॥१००॥इति प्रियाकाकुभिरुन्मिषन्भृशंदिगीशदूत्येन हृदि स्थिरीकृतः ।नृपं स योगेऽपि वियोगमन्मथःक्षणं तमुद्भ्रान्तमजीजनत्पुनः ॥१०१॥महेन्द्रदूत्यादि समस्तमात्मनःततः स विस्मृत्य मनोरथस्थितैः ।क्रियाः प्रियाया ललितैः करम्बितावितर्कयन्नित्थमलीकमालपत् ॥१०२॥अयि प्रिये ! कस्य कृते विलप्यतेविलिप्यते हा मुखमश्रुबिन्दुभिः ।पुरस्त्वयालोकि नमन्नयं न किंतिरश्चलल्लोचनलीलया नलः ॥१०३॥चकास्ति बिन्दुच्युतकातिचातुरीघनास्रुबिन्दुस्रुतिकैतवात्तव ।मसारताराक्षि ! ससारमात्मनातनोषि संसारमसंशयं यतः ॥१०४॥अपास्तपाथोरुहि शायितं करेकरोषि लीलाकमलं किमाननम् ।तनोषि हारं कियदस्रुणः स्रवैःअदोषनिर्वासितभूषणे हृदि ॥१०५॥दृशोरमङ्गल्यमिदं मिलज्जलंकरेण तावत्परिमार्जयामि ते ।अथापराधं भवदङ्घ्रिपङ्कजद्वयीरजोभिः सममात्ममौलिना ॥१०६॥मम त्वदच्छाङ्घ्रिनखामृतद्युतेःकिरीमाणिक्यमयूखमञ्जरी ।उपासनामस्य करोतु रोहिणीत्यज त्यजाकारणरोषणे ! रुषम् ॥१०७॥तनोषि मानं मयि चेन्मनागपित्वयि श्रये तद्बहुमानमानतः ।विनम्य वक्रं यदि वर्तसे कियन्नमामि ते चण्डि ! तदा पदावधि ॥१०८॥प्रभुत्वभूम्नानुगृहाण वा न वाप्रणाममात्राधिगमेऽपि कः श्रमः ? ॥१०९॥स्मरेषुमाथं सहसे मृदुः कथंहृदि द्रढीयः कुचसंवृते तव ।निपत्य वैसारिणकेतनस्य वाव्रजन्ति बाणा विमुखोत्पतिष्णुताम् ॥११०॥स्मितस्य संभावय सृक्वणा कणान्विधेहि लीलाचलमञ्चलं भ्रुवः ।अपाङ्गरथ्यापथिकीं च हेलयाप्रसद्य संधेहि दृशं ममोपरि ॥१११॥समापय प्रावृषमस्रुविप्नुषांस्मितेन विश्राणय कौमुदीमुदः ।दृशावितः खेलतु खञ्जनद्वयीविकासि पङ्केरुहमस्तु ते मुखम् ॥११२॥सुधारसोद्वेलनकेलिमक्षर-स्रजा सृजान्तर्मम कर्णकूपयोः ।दृशौ मदीये मदिराक्षि ! कारयस्मितश्रिया पायसपारणाविधिम् ॥११३॥ममासनार्धे भव मण्डनं न नप्रिये ! मदुत्सङ्गविभूषणं भव ।अहं भ्रमादालपमङ्ग ! मृष्यतांविना ममोरः कतमत्तवासनम् ॥११४॥अधीतपञ्चाशुगबाणवञ्चने !स्थिता मदन्तर्बहिरेषि चेदुरेः ।स्मराशुगेभ्यो हृदयं बिभेतु नप्रविश्य तत्त्वन्मयसंपुटे मम ॥११५॥परिष्वजस्वानवकाशबाणतास्मरस्य लग्ने हृदयेद्वयेऽस्तु नौ ।दृढा मम त्वत्कुचयोः कठोरयोःउरस्तटीयं परिचारिकोचिता ॥११६॥तवाधराय स्पृहयामि यन्मधु-स्रवैः श्रवः साक्षिकमाक्षिका गिरः ।अधित्यकासु स्तनयोस्तनोतु तेममेन्दुलेखाभ्युदयाद्भ्रुतं नखः ॥११७॥न वर्तसे मन्मथनाटिका कथंप्रकाशरोमावलिसूत्रधारिणी ।तवाङ्गहारे रुचिमेति नायकःशिखामणिश्च द्विजराड्विदूषकः ॥११८॥शुभाष्टवर्गस्त्वदनङ्गजन्मनःतवाधरेऽलिख्यत यत्र लेखया ।मदीयदन्तक्षतराजिरञ्जनैःस भूर्जतामर्जतु बिम्बपाटलः ॥११९॥गिरानुकम्पस्व दयस्व चुम्बनैःप्रसीद शुश्रूषयितुं मया कुचौ ।निशेव चान्द्रस्य करोत्करस्ययन्मम त्वमेकासि नलस्य जीवितम् ॥१२०॥मुनिर्यथात्मानमथ प्रबोधवान्प्रकाशयन्तं स्वमसावबुध्यत ।अपि प्रपन्नां प्रकृतिं विलोक्य ताम्अवाप्तसंस्कारतयासृजद्गिरः ॥१२१॥अये ! मयात्मा किमनिह्नुतीकृतःकिमत्र मन्ता स तु मां शतक्रतुः ।पुरः स्वभक्त्याथ नमन्ह्रियाविलोविलोकिताहे न तदिङ्गितान्यपि ॥१२२॥स्वनाम यन्नाम मुधाभ्यधामहोमहेन्द्रकार्ये महदेतदुज्झितम् ।हनूमदाद्यैर्यशसा मया पुनर्द्विषांहसैर्दूत्यपथः सितीकृतः ॥१२३॥धियात्मनस्तावदचारु नाचरंपरस्तु तद्वेद स यद्वदिष्यति ।जनावनायोद्यमिनं जनार्दनंक्षये जगज्जीवपिबं शिवं वदन् ॥१२४॥स्फुटत्पदः किं हृदयं त्रपाभराद्यदस्य शुद्धिर्विबुधैर्विबुध्यताम् ।विदन्तु ते तत्त्वमिदं तु दन्तुरंजनानने कः करमर्पयिष्यति ॥१२५॥मम श्रमश्चेतनयानया फलीबलीयसालोपि च सैव वेधसा ।न वस्तु दैवस्वरसाद्विनाश्वरंसुरेश्वरोऽपि प्रतिकर्तुमीश्वरः ॥१२६॥इति स्वयं मोहमहोर्मिनिर्मितंप्रकाशनं शोचति नैषधे निजम् ।तथाव्यथामग्नतदुद्दिधीर्षयादयालुरागाल्लघु हेमहंसराट् ॥१२७॥नलं स तत्पक्षरवोर्ध्ववीक्षिणंस एष पक्षीति भणन्तमभ्यधात् ।नयादयैनामति मा निराशताम्असून्विहातेयमतः परं परम् ॥१२८॥सुरेषु पश्यन्निजसापराधताम्इयत्प्रयस्यापि तदर्थसिद्धये ।न कूटसाक्षीभवनोचितो भवान्सतां हि चेतः शुचितात्मसाक्षिका ॥१२९॥इतीरिणापृच्छय नलं विदर्भजाम्अपि प्रयातेन खगेन सान्त्वितः ।मृदुर्बभाषे भगिनीं दमस्य सप्रणम्य चित्तेन हरित्पतीन्नृपः ॥१३०॥ददेऽपि तुभ्यं कियतीः कदर्थनाःसुरेषु रागप्रसवावकेशिनीः ।अदम्भदूत्येन भजन्तु वा दयांदिशन्तु वा दण्डममी ममागसा ॥१३१॥अयोगजामन्वभवं न वेदनांहिताय मेऽभूदियमुन्मदिष्णुता ।उदेति दोषादपि दोषलाघवंकृशत्वमज्ञानवशादिवैनसः ॥१३२॥तवेत्ययोगस्मरपावकोऽपि मेकदर्थनात्यर्थतयाऽगमद्दयाम् ।प्रकाशमुन्माद्य यदद्य कारयन्मयात्मनस्त्वामनुकम्पते स्म सः ॥१३३॥अमी समीहैकपरास्तवामराःस्वकिंकरं मामपि कर्तुमीशिषेविचार्य कार्यं सृज मा विधान्मुधाकृतानुतापस्त्वयि पार्ष्णिविग्रहम् ॥१३४॥उदासितेनैव मयेदमुद्यसेभिया न तेभ्यः स्मरतानवान्न वा ।हितं यदि स्यान्मदसुव्ययेन तेतदा तव प्रेमणि शुद्धिलब्धये ॥१३५॥इतीरितैर्नैषधसूनृतामृतैःविदर्भजन्मा भृशमुल्ललास सा ।ऋतोरधिश्रीः शिशिरनुजन्मनःपिकस्वरैर्दूरविकस्वरैर्यथा ॥१३६॥नलं तदावेत्य तमाशये निजेघृणां विगानं च मुमोच भीमजा ।जुगुप्समाना हि मनो धृतं तदासतीधिया दैवतदूतधावि सा ॥१३७॥मनोभुवस्ते भविनां मनः पितानिमज्जयन्नेनसि तन्न लज्जसे ।अमुद्रि सत्पुत्रकथा त्वयेति सास्थिता सती मन्मथनिन्दिनी धिया ॥१३८॥प्रसूनमित्येव तदङ्गवर्णनान सा विशेषात्कतमत्तदित्यभूत् ।तदा कदम्बं तदवर्णि लोमभिःमुदस्रुणा प्रावृषि हर्षमागतैः ॥१३९॥मयैव संबोध्य नलं व्यलापि यत्स्वमाह मद्बुद्धमिदं विमृश्य तत् ।असाविति भ्रान्तिमसाद्दमस्वसुःस्वभाषितस्वोद्भ्रमविभ्रमक्रमः ॥१४०॥विदर्भराजप्रभवा ततः परंत्रपासखी वक्तुमलं न वा नलम् ।पुरस्तमूचेऽभिमुखं यदत्रपाममज्ज तेनैव महाह्रदे ह्रियः ॥१४१॥यदापवार्यापि न दातुमुत्तरंशशाक सख्याः श्रवसि प्रियस्व सा ।विहस्य सख्येव तमव्रवीत्तदाह्रियाऽधुना मौनधना भवत्प्रिया ॥१४२॥पदातिथेयाँल्लिखितस्य ते स्वयंवितन्वती लोचननिर्झरानियम् ।जगाद यां सैव मुखान्मम त्वयाप्रसूनवाणोपनिषन्निशम्यताम् ॥१४३॥असंशयं स त्वयि हंस एव मांशशंस न त्वद्विरहाप्तसंशयाम् ।क्व चन्द्रवंशस्य वतंस ! मद्वधान्नृशंसता संभविनी भवादृशे ॥१४४॥जितस्तवयास्येन विधुः स्मरः श्रियाकृतप्रतिज्ञौ मम तौ वधे कुतः ।तवेति कृत्वा यदि तज्जितं मयान मोघसङ्कल्पधराः किलामराः ॥१४५॥निजांशुनिर्दग्धमदङ्गभस्मभिःमुधा विधुर्वाञ्छति लाञ्छनोन्मृजाम् ।त्वदास्यतां यास्यति तावतापि किंवधूवधेनैव पुनः कलङ्कितः ॥१४६॥प्रसीद यच्छ स्वशरान्मनोभुवेस हन्तु मां तैर्धुतकौसुमाशुगः ।त्वदेकचित्ताहमसून्विमुञ्चतीत्वमेव भूत्वा तृणवज्जयामि तम् ॥१४७॥श्रुतिः सुराणां गुणगयनी यदित्वदङ्घ्रिमग्नस्य जनस्य किं ततः ।स्तवे रवेरप्सु कृताप्लवैः कृतेन मुद्वती जातु भवेत्कुमुद्वती ॥१४८॥कथासु शिष्यै वरमद्य न ध्रियेममावगन्तासि न भावमन्यथा ।त्वदर्थमुक्तासुतया सुनाथ ! मांप्रतीहि जावाभ्यधिक ! त्वदेकिकाम् ॥१४९॥महेन्द्रहेतेरपि रक्षणं भयाद्यदर्थिसाधारणमस्त्रभृद्द्रतम् ।प्रसूनबाणादपि मामरक्षतःक्षतं तदुच्चैरवकीर्णिनस्तव ॥१५०॥तवास्मि मां धातुकमप्युपेक्षसेमृषामरं हाऽमरगौरवात्स्मरम् ।अवेहि चण्डालमनङ्गमङ्ग ! तंस्वकाण्डकारस्य मघोः सखा हि सः ॥१५१॥लघौ लघावेव पुरः परे बुधैःविधेयमुत्तेजनमात्मतेजसः ।तृणे तृणेढि ज्वलनः खलु ज्वलन्क्रमात्करीषद्रुमकाण्डमण्डलम् ॥१५२॥सुरापराधस्तव वा कियानयंस्वयंवरायामनुकम्प्रता मयि ।गिरापि वक्ष्यन्ति मखेषु तर्पणाद्इदं न देवा मुखलज्जयैव ते ॥१५३॥व्रजन्तु ते तेऽपि वरं स्वयंवरंप्रसाद्य तानेव मया वरिष्यसे ।न सर्वथा तानपि न स्पृशेद्दयान तेऽपि तावन्मदनस्त्वमेव वा ॥१५४॥इतीयमालेख्यगतेऽपि वीक्षितेत्वयि स्मरव्रीडसमस्ययानया ।पदे पदे मौनमयान्तरीपिणीप्रवर्तिता सारघसारसारणी ॥१५५॥चण्डालस्ते विषामविशिखः स्पृश्यते दृश्यते नख्यातोऽनङ्गस्त्वयि जयति यः किंनु कृत्ताङ्गुलीकः ।कृत्वा मित्त्रं मधुमधिवनस्थानमन्तश्चरित्वासख्याः प्राणान्हरति हरितस्त्वद्यशस्तज्जुषन्ताम् ॥१५६॥अथ भीमभुवैव रहोऽभिहितांनतमौलिरपत्रपया स निजाम् ।अमरैः सह राजसमाजगतिंजगतीपतिरभ्युपगत्य ययौ ॥१५७॥श्वस्तस्याः प्रियमाप्तुसुद्धुरधियो धाराः सृजन्त्या रया-न्नम्रोन्नम्रकपोलपालिपुलकैर्वेतस्वतीरस्रुणः ।चत्वारः प्रहराः स्मरार्तिभिरभूत्सापि क्षपा दुःक्षयातत्तस्यां कृपयाखिलैव विधिना रात्रिस्त्रियामा कृता ॥१५८॥तदखिलमिह भूतं भूतगत्या जगत्याःपतिरभिलपति स्म स्वात्मदूतत्वतत्त्वम् ।त्रिभुवनजनयावद्दृत्तवृत्तान्तसाक्षा-त्कृतिकृतिषु निरस्तानन्दमिन्द्रादिषु द्राक् ॥१५९॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।संदृब्धार्णववर्णनस्य नवमस्तस्य व्यरंसीन्महा-काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥१६०॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP