संस्कृत सूची|संस्कृत स्तोत्र साहित्य|नैषधीयचरितम्| सप्तमः सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - सप्तमः सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत सप्तमः सर्गः Translation - भाषांतर अथ प्रियासादनशीलनादौमनोरथः पल्लवितश्चिरं यः ।विलोकनेनैव स राजपुत्र्याःपत्या भुवः पूर्णवदभ्यमानि ॥१॥प्रतिप्रतीकं प्रथमं प्रियायाम्अथान्तरानन्दसुधासमुद्रे ।ततः प्रमोदाश्रुपरम्पराणांममज्जतुस्तस्य दृशौ नृपस्य ॥२॥ब्रह्माद्वयस्यान्वभवत्प्रमोदंरोमाग्र एवाग्रनिरीक्षितेऽस्याः ।यथौचितीत्थं तदशेषदृष्टा-वथ स्मराद्वैतमुदं तथासौ ॥३॥वेलामतिक्रम्य पृथुं मुखेन्दोःआलोकपीयूषरसेन तस्याः ।नलस्य रागाम्बुनिधौ विवृद्धेतुङ्गौ कुचावाश्रयतः स्म दृष्टि ॥४॥मग्ना सुधायां किमु तन्मुखेन्दोःलग्ना स्थिता तत्कुचयाः किमन्तः ।चिरेण तन्मध्यममुञ्चतास्यदृष्टिः क्रशीयः स्खलनाद्भिया नु ॥५॥प्रियाङ्गपान्था कुचयोर्निवृत्यनिवृत्य लोला नलदृग्भ्रमन्ती ।बभौतमां तन्मृगनाभिलेप-तमः समासादितदिग्भ्रमेव ॥६॥विभ्रम्य तच्चारुनितम्बचक्रेदूतस्य दृक्तस्य खलु स्खलन्ती ।स्थिरा चिरादास्य तदूरुरम्भाःतम्भावुपाश्लिष्य करेण गाढम् ॥७॥वासः परं नेत्रमहं न नेत्रंकिमु त्वमालिङ्ग्य तन्मयापि ।उरोनितम्बोपु कुरु प्रसादम्इतीव सा तत्पदयोः पपात ॥८॥दृशोर्यथाकाममथोपहृत्सस प्रेयसीमालिकुलं च तस्याः ।इदं प्रमोदाद्भुतसंभृतेनमहीमहेन्द्रो मनसा जगाद ॥९॥पदे विधातुर्यदि मन्मथो वाममाभिषिच्येत मनोरथो वा ।तदा घटेतापि न वा तदेतत्प्रतिप्रतीकाद्भुतरूपशिल्पम् ॥१०॥तरङ्गिणी भूमिभृतः प्रभूताजानामि श्रृङ्गाररसस्य सेयम् ।लावण्यपूरोऽजनि यौवनेनतस्यां तथोच्चैस्तनताघनेन ॥११॥अस्यां वपुर्व्यूहविधानविद्यांकिं द्योतयामास नवां स कामः ।प्रत्यङ्गसङ्गस्फुटलब्धभूमालावण्यसीमा यदिमामुपास्ते ॥१२॥जम्बालजालात्किमकर्षि जम्बू-नद्या न हारिद्रनिभप्रभेयम् ।अप्यङ्गयुग्मस्य न सङ्गचिह्नम्उन्नीयते दन्तुरता यदत्र ॥१३॥सत्येव साम्ये सदृशादशेषाद्गुणान्तरेणोच्चकृषे यदङ्गैः ।अस्यास्ततः स्यात्तुलनापि नामवस्तु त्वमीषामुपमापमानः ॥१४॥पुराकृतिस्त्रैणमिमां विधातुम्अभूद्विधातुः खलु हस्तलेखः ।येयं भवद्भाविपुरंघ्निसृष्टिःसास्यै यशस्तज्जयजं प्रदातुम् ॥१५॥भव्यानि हानीरगुरेतदङ्गाद्यथा यथानर्ति तथा तथा तैः ।अस्याधिकस्योपमयोपमातादाता प्रतिष्ठां खलु तेभ्य एव ॥१६॥नास्पर्शि दृष्टापि विमोहिकेयंदोषैरशेषैः स्वभियेति मन्ये ।अन्येषु तैराकुलितस्तदस्यांवसत्यसापत्न्यसुखी गुणौघः ॥१७॥औज्झि प्रियाङ्गैर्घृणयैव रूक्षान वारिदुर्गात्तु वराटकस्य ।न कण्टकैरावरणाच्च कान्तिःधूलीभृता काञ्चनकेतकस्य ॥१८॥प्रत्यङ्गमस्यामभिकेन रक्षांकर्तुं मघोनेव निजास्त्रमस्ति ।वज्रं च भूषामणिमूर्तिधारिनियोजितं तद्दयुतिकार्मुकं च ॥१९॥अस्याः सपक्षैकविधोः कचौघःस्थाने मुखस्योपरि वासमाप ।पक्षस्थतावद्बहुचन्द्रकोऽपिकलापिनां येन जितः कलापः ॥२०॥अस्या यदास्येन पुरस्तिरश्चतिरस्कृतं शीतरुचान्धकारम् ।स्फुटस्फुटद्भङ्गिकचच्छलेनतदेव पश्चादिदमस्ति बद्धम् ॥२१॥अस्याः कचानां शिखिनश्च किंनुविधिं कलापौ विमतेरगाताम् ।तेनायमेभिः किमपूजि पुष्पैःभर्त्सि दत्त्वा स किमर्धचन्द्रम् ॥२२॥केशान्धकारादथ दृश्यभाल-स्थललार्धचन्द्रा स्फुटमष्टमीयम् ।एनां यदासाद्य जगज्जयायमनोभुवा सिद्धिरसाधि साधु ॥२३॥पौष्पं धनुः किं मदनस्य दाहेश्यामीभवत्केसरशेषमासीत् ।व्यधाद्द्विधेशस्तदपि क्रुधा किंभैमीभ्रुवौ येन विधिर्यधत्त ॥२४॥भ्रूम्यां प्रियाया भवता मनोभू-चापेन चापे घनसारभावः ।निजां यदप्लोषदशामपेक्ष्यसंप्रत्यनेनाधिकवीर्यतार्जि ॥२५॥स्मारं धनुर्यद्विधुनोज्झितास्यायास्येन भूतेन च लक्ष्मलेखा ।एतद्भ्रुवौ जन्म तदाप युग्मंलीलाचलत्वोचितबालभावम् ॥२६॥इषुत्रयेणैव जगत्त्रयस्यविनिर्जयात्पुष्पमयाशुगेन ।शेषा द्विबाणी सफलीकृतेयंप्रियादृगम्भोजपदेऽभिषिच्य ॥२७॥सेयं मृदुः कौसुमचापयष्टिःस्मरस्य मुष्टिग्रहणार्हमध्या ।तनोति नः श्रीमदपाङ्गमुक्तांमोहाय या दृष्टिशरौघवृष्टिम् ॥२८॥आघूर्णितं पक्ष्मलमक्षिपद्मंप्रान्तद्युतिश्वैत्यजितामृतांशु ।अस्या इवास्याश्चलदिन्द्रनील-गोलामलश्यामलतारतारम् ॥२९॥कर्णोत्पलेनापि मुखं सनाथंलभेत नेत्रद्युतिनिर्जितेन ।यद्येतदीयेन ततः कृतार्थास्वचक्षुषी किं कुरुते कुरङ्गी ॥३०॥त्वचः समुत्तार्य दलानि रीत्यामोचात्वचः पञ्चषपाटनायाम् ।सारौर्गृहीतैर्विधिरुत्पलौघात्अस्यामभूदीक्षणरूपशिल्पी ॥३१॥चकोरनेत्रैणदृगुत्पलानांनिमेषयन्त्रेण किमेष कृष्टः ।सारः सुधोद्गारमयः प्रयत्नैःविधातुमेतन्नयने विधातुः ॥३२॥ऋणीकृता किं हरिणीभिरासीत्अस्याः सकाशान्नयनद्वयश्रीः ।भूयोगुणेयं सकला बलाद्यत्ताभ्योऽनयाऽलभ्यत बिभ्यतीभ्यः ॥३३॥दृशौ किमस्याश्चपलस्वभावेन दूरमाक्रम्य मिथो मिलेताम् ।न चेत्कृतः स्यादनयोः प्रयाणेविघ्नः श्रवः कूपनिपातभीत्या ॥३४॥केदारभाजा शिशिरप्रवेशात्पुण्याय मन्ये मृतमुत्पलिन्या ।जाता यतस्तत्कुसुमेक्षणेयंयातश्च तत्कोरकदृक्चकोरः ॥३५॥नासादसीया तिलपुष्पतूणंजगत्त्रयव्यस्तशरत्रयस्य ।श्वासानिलामोदभरानुमेयांदधद्द्विबाणीं कुसुमायुधस्य ॥३६॥बन्धूकबन्धूभवदेतदस्यामुखेन्दुनानेन सहोज्जिहाना ।रागश्रिया शैशवयौवनीयांस्वमाह संध्यामधरोष्ठलेखा ॥३७॥अस्या मुखेन्दावधरः सुधाभू-बिम्बस्य युक्तः प्रतिबिम्ब एषः ।तस्याथ वा श्रीर्द्रुमभाजि देशेसंभाव्यमानास्य तु विद्रुमे सा ॥३८॥जानेऽतिरागादिदमेव बिम्बंबिम्बस्य च व्यक्तमितोऽधरत्वम् ।द्वयोर्विशेषावमाक्षमाणांनाम्नि भ्रमोऽभूदनयोर्जनानाम् ॥३९॥मध्योपकण्ठावधरोष्ठभागौभातः किमप्युच्छृसितौ यदस्याः ।तत्स्वप्नसंभोगवितीर्णदन्त-दंशेन किं वा न मयापराद्धम् ॥४०॥विद्या विदर्भेन्द्रसुताधरोष्ठेनृत्यन्ति कत्यन्तरभेदभाजः ।इतीव रेखाभिरपश्रमस्ताःसंख्यातवान् कौतुकवान्विधाता ॥४१॥संभुज्यमानाद्य मया निशान्तेस्वप्नेऽनुभूता मधुराधरेयम् ।असीमलावण्यरदच्छदेत्थंकथं मयैव प्रतिपद्यते वा ॥४२॥यदि प्रसादीकुरुते सुधांशोःएषा सहस्रांशमपि स्मितस्य ।तत्कौमुदीनां कुरुते तमेवनिमिच्छय देवः सफलं स जन्म ॥४३॥चन्द्राधिकैतन्मुखचन्द्रिकाणांदरायतं तत्किरणाद्धनानाम् ।पुरः सरस्रस्तपृषद्द्वितीयंरदावलिद्वन्द्वति बिन्दुवृन्दम् ॥४४॥सेयं ममैतद्विरहार्तिमूर्च्छातमीविभातस्य विभाति संध्या ।महेन्द्रकाष्ठागतरागकर्त्रीद्विजैरमीभिः समुपास्यमाना ॥४५॥राजौ द्विजानामिह राजदन्ताःसंबिभ्रति श्रोत्रियबिभ्रमं यत् ।उद्वेगरागादिमृजावदाताःचत्वार एते तदवैमि मुक्ताः ॥४६॥शिरीषकोषादपि कोमलायावेधा विधायाङ्गमशेषमस्याः ।प्राप्तप्रकर्षः सुकुमारसर्गेसमापयद्वाचि मृदुत्वमुद्राम् ॥४७॥प्रसूनबाणाद्वयवादिनी साकाचिद्द्विजेनोपनिषत्पिकेन ।अस्याः किमास्यद्विजराजतो वानाधीयते भैक्षभुजा तरुभ्यः ॥४८॥पद्माङ्कसद्मानमवेक्ष्य लक्ष्मीम्एकस्य विष्णोः श्रयणात्सपत्नीम् ।आस्येन्दुमस्या भजते जिताब्जंसरस्वती तद्विजिगीषया किम् ॥४९॥कण्ठे वसन्ती चतुरा यदस्याःसरस्वती वादयते विपञ्चीम् ।तदेव वाग्भूय मुखे मृगाक्ष्याःश्रोतुः श्रुतौ याति सुधारसत्वम् ॥५०॥विलोकितास्या मुखमुन्नमय्यकिं वेधसेयं सुषमासमाप्तौ ।धृत्युद्भवा यच्चिबुके चकास्तिनिम्ने मनागङ्गुलियन्त्रणेव ॥५१॥प्रियामुखीभूय सुखी सुधांशुःजयत्ययं राहुभयव्ययेन ।इमां दधाराधरबिम्बलीलांतस्यैव बालं करचक्रवालम् ॥५२॥अस्या मुखस्यास्तु न पूर्णमास्यंपूर्णस्य जित्वा महिमा हिमांशुम् ।भ्रूलक्ष्म खण्डं दधदर्धमिन्दुःभालस्तृतीयः खलु यस्य भागः ॥५३॥व्यधत्त धाता मुखपद्ममस्याःसम्राजमम्भोजकुलेऽखिलेऽपि ।सरोजराजौ सृजतोऽदसीयांनेत्राभिधेयावत एव सेवाम् ॥५४॥दिवारजन्यो रविसोमभीतेचन्द्राम्बुजे निक्षिपतः स्वलक्ष्मीम् ।आस्य यदास्या न तदा तयोः श्री-एकश्रियेदं तु कदा न कान्तम् ॥५५॥अस्या मुखश्रीप्रतिबिम्बमेवजलाच्च तातान्मुकुराच्च मित्रात् ।अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौविभूषणं याचितकं कदाचित् ॥५६॥अर्काय पत्ये खलु तिष्ठमानाभृङ्गैर्मितामक्षिभिरम्बुकेलौ ।भैमीमुखस्य श्रियमम्बुजिन्योयाचन्ति विस्तारितपद्महस्ताः ॥५७॥अस्या मुखेनैव विजित्य नित्य-स्पर्धी मिलत्कुङ्कुमरोषभासा ।प्रसह्य चन्द्रः खलु नह्यमानःस्यादेव तिष्ठत्परिवेषपाशः ॥५८॥विधोर्विधिर्बिम्बशतानि लोपंलोपं कुहूरात्रिषु मासि मासि ।अभङ्गुरश्रीकममुं किमस्यामुखेन्दुमस्थापयदेकशेषम् ॥५९॥कपोलपत्रान्मकरात्सकेतुःभ्रूम्यां जिगीषुर्धनुषा जगन्ति ।इहावलम्ब्यास्ति रतिं मनोभूरज्यद्वयस्यो मधुनाधरेण ॥६०॥वियोगबाष्पाञ्चितनेत्रपद्म-च्छद्मार्पितोत्सर्गपयः प्रसूनौ ।कर्णो किमस्या रतितत्पतिभ्यांनिवेद्यपूपौ विधिशिल्पमीदृक् ॥६१॥इहाविशद्येन पथातिवक्रःशास्त्रौघनिष्यन्दसुधाप्रवाहः ।सोऽस्याः श्रवः पत्रयुगे प्रणालि-रेखेव धावत्यभिकर्णकूपम् ॥६२॥अस्या यदष्टादश संविभज्यविद्याः श्रुती दध्रतुरर्धमर्धम् ।कर्णान्तरुत्कीर्णगभीररेखःकिं तस्य संख्यैव नवा नवाङ्कः ॥६३॥मन्येऽमुना कर्णलतामयेनपाशद्वयेन च्छिदुरेतरेण ।एकाकिपाशं वरुणं विजिग्येऽ–नङ्गीकृतायासतती रतीशः ॥६४॥आत्मैव तातस्य चतुर्भुजस्यजातश्चतुर्दोरुचितः स्मरोऽपि ।तच्चापयोः कर्णलते भ्रुवोर्ज्येवंशत्यगंशौ चिपिटे किमस्याः ॥६५॥ग्रीवाद्भुतैवावटुशोभितापिप्रसाधिता माणवकेन सेयम् ।आलिङ्ग्यतामप्यबलम्बमानासुरूपताभागखिलोर्ध्वकाया ॥६६॥कवित्वगानप्रियवादसत्यान्यस्या विधाता व्यधिताधिकण्ठम् ।रेखात्रयन्यासमिषादमीषांवासाय सोऽयं विबभाज सीमाः ॥६७॥बाहू प्रियाया जयतां मृणालंद्वन्द्वे जयो नाम न विस्मयोऽस्मिन् ।उच्चैस्तु तच्चित्रममुष्य भग्नःयोलोक्यते निर्व्यथनं यदन्तः ॥६८॥अजीयतावर्तशुभंयुनाभ्यांदोर्भ्यां मृणालं किमु कोमलाभ्याम् ।निःसूत्रमास्ते घनपङ्कमृत्सुमूर्तासु नाकीर्तिषु तन्निमग्नम् ॥६९॥रज्यन्नखस्याङ्गुलिपञ्चकस्यमिषादसौ हैङ्गुलपद्मतूणे ।हैमैकपुङ्खास्ति विशुद्धपर्वाप्रियाकरे पञ्चशरी स्मरस्य ॥७०॥अस्याः करस्पर्धनगर्धनर्द्धिःबालत्वमापत् खलु पल्लवो यः ।भूयोऽपि नामाधरसाम्यगर्वंकुर्वन्कथं वास्तु न स प्रवालः ॥७१॥अस्यैव सर्गाय भवत्करस्यसरोजसृष्टिर्मम हस्तलेखः ।इत्याह धाता हरिणेक्षणायांकिं हस्तलेखीकृतया तयाऽस्याम् ॥७२॥किं नर्मदाया मम सेयमस्यादृश्याभितो बाहुलतामृणाली ।कुचौ किमुत्तस्थतुरन्तरीयेस्मरोष्मशुष्यत्तरबाल्यवारः ॥७३॥तालं प्रभु स्यादनुकर्तुमेतावुत्थानसुस्थौ पतितं न तावत् ।परं च नाश्रित्य तरुं महान्तंकुचौ कृशाङ्ग्याः स्वत एव तुङ्गौ ॥७४॥एतत्कुचस्पर्धितया घटस्यख्यातस्य शास्त्रेषु निदर्शनत्वम् ।तस्माच्च शिल्पान्मणिकादिकारीप्रसिद्धनामाजनि कुम्भकारः ॥७५॥गुच्छालयस्वच्छतमोदबिन्दुवृन्दाभमुक्ताफलफेनिलाङ्के ।माणिक्यहास्य विदर्भसुभ्रूपयोधरे रोहति रोहितश्रीः ॥७६॥निःशङ्कसंकोचितपङ्कजोयम्अस्यामुदीतो मुखमिन्दुबिम्बः ।चित्रं तथापि स्तनकोकयुग्मंन स्तोकमप्यञ्चति विप्रयोगम् ॥७७॥आभ्यां कुचाभ्यामिभकुम्भयोः श्री-रादीयतेऽसावनयोर्न ताभ्याम् ।भयेन गोपायितमौक्तिकौ तौप्रव्यक्तमुक्तभरणाविमौ यत् ॥७८॥कराग्रजाग्रच्छतकोटिरर्थीययोरिमौ तौ तुलयेत्कुचौ चेत् ।सर्वं तदा श्रीफलमुन्मदिष्णुजातं वटीमप्यधुना न लब्धुम् ॥७९॥स्तनावटे चन्दनपङ्किलेऽस्याजातस्य यावद्युवमानसानाम् ।हारावलीरत्नमयूखधारा-काराः स्फुरन्ति स्खलनस्य रेखाः ॥८०॥क्षीणेन मध्येऽपि सतोदरेणयत्प्राप्यते नाक्रमणं वलिभ्यः ।सर्वाङ्गशुद्धौ तदनङ्गराज्यविजृम्भितं भीमभुवीह चित्रम् ॥८१॥मध्यं तनूकृत्य यदीदमीयंवेधा न दध्यात्कमनीयमंशम् ।केन स्तनौ संप्रति यौवनेऽस्याःसृजेदनन्यप्रतिमाङ्गयष्टेः ॥८२॥गौरीव पत्या सुभगा कदाचित्कर्तेयमप्यर्धतनूसमस्याम् ।इतीव मध्ये विदधे विधातारोमावलीमेचकसूत्रमस्याः ॥८३॥रोमावलीरज्जुमुरोजकुम्भौगम्भीरमासाद्य च नाभिकूपम् ।सद्रष्टितृष्णा विरमेद्यदि स्यान्नैषां बतैषा सिचयेन गुप्तिः ॥८४॥उन्मूलितालानविलाभनाभिःछिन्नस्खलच्छृङ्खलरोमराजिः ।मत्तस्य सेयं मदनद्विपस्यप्रस्वापवप्रोच्चकुचास्तु वास्तु ॥८५॥रोमावलिभ्रूकुसुमैः स्वमौर्वी-चापेषुभिर्मध्यललाटमूर्ध्नि ।व्यस्तैरपि स्थास्नुभिरेतदीयै-र्जैत्रः स चित्रं रतिजानिवीरः ॥८६॥पुष्पाणि बाणाः कुचमण्डनानिभ्रुवौ धनुर्भालमलंकरिष्णु ।रोमावली मध्यविभूषणं ज्यातथापि जेता रतिजानिरेतैः ॥८७॥अस्याः खलु ग्रन्थिनिबद्धकेश-मल्लीकदम्बप्रतिबिम्बवेषात् ।स्मरप्रशस्ती रजताक्षरेयंपृष्ठस्थलीहाटकपट्टिकायाम् ॥८८॥चक्रेण विश्वं युधि मत्स्यकेतुःपितुर्जितं वीक्ष्य सुदर्शनेन ।जगज्जिगीषत्यमुना नितम्बम्अयेन किं दुर्लभदर्शनेन ॥८९॥रोमवलीदण्डनितम्बचक्रेगुणं च लावण्यजलं च बाला ।तारुण्यमूर्तेः कुचकुम्भकर्तुःबिभर्ति शङ्केः सहकारिचक्रम् ॥९०॥अङ्गेन केनापि विजेतुमस्यागवेष्यते किं चलपत्रपत्रम् ।न चेद्विशेषादितरच्छदेभ्यःतस्यास्तु काम्पस्तु कुतो भयेन ॥९१॥भ्रूश्चित्रलेखा च तिलोत्तमास्यानासा च रम्भा च यदूरुसृष्टिः ।दृष्टा ततः पूरयतीयमेकान्एकाप्सरः प्रेक्षणकौतुकानि ॥९२॥रम्भापि किं चिह्नयति प्रकाण्डंन चात्मनः स्वेन न चैतदूरु ।स्वस्यैव येनोपरि सा ददानापत्राणि जागर्त्यनयोर्भ्रमेण ॥९३॥विधाय मूर्धानमदश्चरं चेन्-मुञ्चेत्तपोभिः स्मरसामभावम् ।जाड्यं च नाञ्चेत्कदली बलीयस्-तदा यदि स्यादिदमूरुचारुः ॥९४॥ऊरुप्रकाण्डद्वितयेन तन्व्याःकरः पराजीयत वारणीयः ।युक्तं ह्रिया कुण्डलनच्छलेनगोपायति स्वं मुखपुष्करं सः ॥९५॥अस्यां मुनीनामपि मोहमूहेभृगुर्महान्यत्कुचशैलशीली ।नानारदाह्लादि मुखं श्रितोरुःव्यासो महाभारतसर्गयोग्यः ॥९६॥क्रमाद्गता पीवरताधिजङ्घंवृक्षाधिरूढं विदुषी किमस्याः ।अपि भ्रमीभङ्गिभिरावृताङ्गंवासो लतावेष्टितकप्रवीणम् ॥९७॥अरुन्धतीकामपुरंघ्रिलक्ष्मी-जन्भद्विषद्दारनवाम्बिकानाम् ।चतुर्दशीयं तदिहोचितैवगुल्फद्वयाप्ता यददृश्यसिद्धिः ॥९८॥अस्याः पदौ चारुतया महान्ता-वपेक्ष्य सौक्ष्म्याल्लवभावभाजः ।जाता प्रवालस्य महीरुहाणांजानीमहे पल्लवशब्दलब्धिः ॥९९॥जगद्वधूमूर्धसु रूपदर्पाद्यदेतयादायि पदारविन्दम् ।तत्सान्द्रसिन्दूरपरागरागैःध्रुवं प्रवालप्रबलारुणं तत् ॥१००॥रुषारुणा सर्वगुणैर्जयन्त्याभैम्याः पदं श्रीः स्म विधेर्वृणीते ।ध्रुवं स तामच्छलयद्यतः साभृशारुणैतत्पदभाग्विभाति ॥१०१॥यानेन तन्व्या जितदन्तिनाथौपादाब्जराजौ परिशुद्धपार्ष्णी ।जाने न शुश्रूषयितुं स्वमिच्छूनतेन मूर्ध्ना कतरस्य राज्ञः ॥१०२॥कर्णाक्षिदन्तच्छदबाहुपाणि-पादादिनः स्वाखिलतुल्यजेतुः ।उद्वेगभागद्वयताभिमाना-दिहैव वेधा व्यधित द्वितीयम् ॥१०३॥तुषारनिःशेषितमब्जसर्गंविधातुकामस्य पुनर्विधातुः ।पञ्चस्विहास्याङ्घ्रिकरेष्वभिख्या-भिक्षाधुना माधुकरीसदृक्षा ॥१०४॥एष्यन्ति यावद्गणनाद्दिगन्तान्नृपाः स्मरार्ताः शरणे प्रवेष्टुम् ।इमे पदाब्जे विधिनापि सृष्टाःतावत्य एवाङ्गुलयोऽत्र लेखाः ॥१०५॥प्रियानखीभूतवतो मुदेदंव्यधाद्विधिः साधुदशत्वमिन्दोः ।एतत्पदच्छद्मसरागपद्म-सौभाग्यभाग्यं कथमन्यथा स्यात् ॥१०६॥यशः पदाङ्गुष्ठनखौ मुखं चबिभर्ति पूर्णेन्दुचतुष्टयं या ।कला चतुःषष्टिरुपैतु वासंतस्यां कथं सुभ्रुवि नाम नास्याम् ॥१०७॥सृष्टातिविश्वा विधिनैव तावत्तस्यापि नीतोपरि यौवनेन ।वैदग्ध्यमध्याप्य मनोभुवेयम्अवापिता वाक्पथपारमेव ॥१०८॥इति स चिकुरादारभ्यैनां नखावधि वर्णयन्हरिणरमणीनेत्रां चित्राम्बुधौ तरदन्तरः ।हृदयभरणोद्वेलनन्दः सखीवृतभीमजा-नयनविषयीभावे भावं दधार धराधिपः ॥१०९॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।गौडर्वीशकुलप्रशस्तिभणितिभ्रातर्ययं तन्महा-काव्ये चारुणि वैरसेनिचरिते सर्गोऽगमत्सप्तमः ॥११० ॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP