संस्कृत सूची|संस्कृत स्तोत्र साहित्य|नैषधीयचरितम्| चतुर्दश सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - चतुर्दश सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत चतुर्दश सर्गः Translation - भाषांतर अथाधिगन्तुं निषधेश्वरं सा प्रसादनामाद्रियतामराणाम् ।यतः सुराणां सुरभिर्नृणां तु सा वेधसासृज्यत कामधेनुः ॥१॥प्रदक्षिणप्रक्रमणालवालविलेपधूपाचरणाम्बुसेकैः ।इष्टं च मृष्टं च फलं सुवाना देवा हि कल्पद्रुमकाननं नः ॥२॥श्रद्धामयीभूय सुपर्वणस्तान्ननाम नामग्रहणाग्रकं सा ।सुरेषु हि श्रद्दधतां नमस्य सर्वाऋथसिद्ध्यङ्गमिथः समस्या ॥३॥यत्तान्निजे सा हृदि भावनाया बलेन साक्षादकृताखिलस्थान् ।अभूदभीष्टप्रतिभूः स तस्या वरं हि दृष्टा ददते परं ते ॥४॥सभाजनं तत्र ससर्ज तेषां सभाजने पश्यति विस्मिते सा ।आमुद्यते यत्सुमनोभिरेवं फलस्य सिद्धौ सुमनोभिरेव ॥५॥वैशद्यहृद्यैर्म्रदिमाभिरामैरामोदिभिस्तानथ जातिजातैः ।आनर्च गीत्यन्वितषट्पदैः सा स्तवप्रसूनस्तबकैर्नवीनैः ॥६॥हृत्पद्मसद्मन्यधिवास्य बुद्ध्या दध्यावथैतानियमेकताना ।सुपर्वणां हि स्फुटभावना या सा पूर्वरूपं फलभावनायाः ॥७॥भक्त्या तयैव प्रससाद तस्यास्तुष्टं स्वयं देवचतुष्टयं ततः ।स्वेनानलस्य स्फुटतां यियासोः फूत्कृत्यपेक्षा कियती खलु स्यात् ॥८॥प्रसादमासाद्य सुरैः कृतं सा सस्मार सारस्वतसूक्तिसृष्टेः ।देवा हि नान्यद्वितरन्ति किंतु प्रसद्य ते साधुधियं ददन्ते ॥९॥शेषं नलं प्रत्यमरेण गाथा या या समर्था खलु येन येन ।तां तां तदन्येन सहालगन्तीं तदा विशेषं प्रतिसंदधे सा ॥१०॥एकैकवृत्तेः प्रतिलोकपालं पतिव्रतात्वं जगृहुर्दिशां याः ।वेद स्म गाथा मिलितास्तदासावाशा इवैकस्य नलस्य वश्याः ॥११॥या पाशिनैवाशनिपाणिनैव गाथा यमेनैव समाग्निनैव ।तामेव मेने मिलितां नलस्य सैषा विशेषाय तदा नलस्य ॥१२॥निश्चित्य शेषं तमसौ नरेशं प्रमोदमेदस्वितरान्तराभूत् ।देव्या गिरां भावितभङ्गिराख्यच्चित्तेन चिन्तार्णवयादसेयम् ॥१३॥सा भङ्गिरस्याः खलु वाचि कापि यद्भारती मूर्तिमतीयमेव ।श्लिष्टं निगद्यादृत वासवादीन्विशिष्य मे नैषधमप्यवादीत् ॥१४॥जग्रन्थ सेयं मदनुग्रहेण वचःस्रजः स्पष्टयितुं चतस्रः ।द्वे ते नलं लक्षयितुं क्षमेते ममैव मोहोऽयमहो महीयान् ॥१५॥श्लिष्यन्ति वाचो यदमूरमुष्याः कवित्वशक्तेः खलु ते विलासाः ।भूपाललीलाः किल लोकपालाः समाविशन्ति व्यतिभेदिनोऽपि ॥१६॥त्यागं महेन्द्रादिचतुष्टस्य किमभ्यनन्दत्क्रमसूचिअस्य ।किं प्रेरयामास नले च तन्मां सा सूक्तिरस्या मम कः प्रमोहः ॥१७॥परस्य दारान्खलु मन्यमानैरस्पृश्यमानाममरैर्धरित्रीम् ।भक्त्यैव भर्तुश्चरणौ दधानां नलस्य तत्कालमपश्यदेषा ॥१८॥सुरेषु नापश्यदवैक्षताक्ष्णोर्निमेषमुर्वीभृति संमुखी सा ।इह त्वमागत्य नले मिलेति संज्ञानदानादिव भाषमाणम् ॥१९॥नाबुद्ध बाला विबुधेषु तेषु क्षोदं क्षितेरैक्षत नैषधे तु ।पत्ये सृजन्त्याः परिरम्भमुर्व्याः संभूतसंभेदमसंशयं सा ॥२०॥स्वेदः स्वदेहस्य वियोगतापं निर्वापयिष्यन्निव संसिसृक्षोः ।हीराङ्कुरश्चारुणि हेमनीव नले तयालोकि न दैवतेषु ॥२१॥सुरेषु मालाममलामपश्यन्नले तु बाला मलिनीभवन्तीम् ।इमां किमासाद्य नलोऽद्य मृद्वीं श्रद्धास्यते मामिति चिन्तयेव ॥२२॥श्रियं भजन्तां कियदस्य देवाश्छाया नलस्यास्ति तथापि नैषाम् ।इतीरयन्तीव तया निरैक्षि सा नैषधे न त्रिदशेषु तेषु ॥२३॥चिह्नैरमीभिर्नलसंविदस्याः संवादमाप प्रथमोपजाता ।सा लक्षणव्यक्तिभिरेव देवप्रसादमासादितमप्यबोधि ॥२४॥नले निधातुं वरणस्रजं तां स्मरः स्म रामां त्वरयत्यथैनाम् ।अपत्रपा तां निषिषेध तेन द्वयानुरोधं तुलितं दधौ सा ॥२५॥स्रजा समालिङ्गयितुं प्रियं सा रसादधत्तैव बहुप्रयत्नम् ।स्तम्भत्रपाभ्यामभवत्तदीये स्पन्दस्तु मन्दोऽपि न पाणिपद्मे ॥२६॥तस्या हृदि व्रीडमनोभवाभ्यां दोलाविलासं समवाप्यमाने ।स्थितं धृतैणाङ्ककुलातपत्रे शृङ्गारमालिङ्गदधीश्वरश्रीः ॥२७॥करः स्रजा सज्जतरस्तदीयः प्रियोन्मुखः सन्विरराम भूयः ।प्रियाननस्यार्धपथं ययौ च प्रत्याययौ चातिचलः कटाक्षः ॥२८॥तस्याः प्रियं चित्तमुपेतमेव प्रभूबभूवाक्षि न तु प्रयातुम् ।सत्यः कृतः स्पष्टमभूत्तदानीं तयाक्ष्णि लज्जेति जनप्रवादः ॥२९॥कथं कथंचिन्निषधेश्बरस्य कृत्वास्यपद्मं दरवीक्षितश्रि ।वाग्देवताया वदनेन्दुबिम्बं त्रपावती साकृत सामिदृष्टम् ॥३०॥अजानतीवेदमवोचदेनामाकूतमस्यास्तदवेत्य देवी ।भावस्त्रपोर्मिप्रतिसीरया ते न दीयते लक्षयितुं ममापि ॥३१॥देव्याः श्रुतौ नेति नलार्धनाम्नि गृहीत एव त्रपया निपीता ।अथाङ्गुलीरङ्गुलिभिर्मृशन्ती दूरं सा नमयांचकार ॥३२॥करे विधृत्येश्वरया गिरां सा पान्था पथीन्द्रस्य कृता विहस्य ।वामेति नामैव बभाज सार्धं पुरन्ध्रिसाधारणसंविभागम् ॥३३॥विहस्य हस्तेऽथ विकृष्य देवी नेतुं प्रयाताऽभि महेन्द्रमेताम् ।भ्रमादियं दत्तमिवाहिदेहे ततश्चमत्कृत्य करं चकर्ष ॥३४॥भैमीं निरीक्ष्याभिमुखीं मघोनः स्वाराज्यलक्ष्मीरभृताभ्यसूयाम् ।दृष्ट्वा ततस्तत्परिहारिणीं तां व्रीडं बिडौजःप्रवणाभ्यपादि ॥३५॥त्वत्तः श्रुतं नेति नले मयातः परं वदस्वेत्युदिताथ देव्या ।हीमन्मथद्वैरथरङ्गभूमी भैमी दृशा भाषितनैषधाभूत् ॥३६॥हसत्सु भैमीं दिविषत्सु पाणौ पाणिम् प्रणीयाप्सरसां रसात्सा ।आलिङ्ग्य नीत्वाकृत पान्थदुर्गां भूपालदिक्पालकुलाध्वमध्यम् ॥३७॥आदेशितामप्यवलोक्य मन्दं मन्दं नलस्यैव दिशा चलन्तीम् ।भूयः सुरानर्धपथादथासौ तानेव तां नेतुमना नुनोद ॥३८॥मुखाब्जमावर्तनलोलनालं कृत्वालिहूंहूंरवलक्ष्यलक्ष्यम् ।भीमोद्भवा तां नुनुदेऽङ्कपालीं देव्या नवोढेव दृढां विवोढुः ॥३९॥देवी कथंचित्खलु तामदेवद्रीचीं भवन्तीं स्मितसिक्तसृक्का ।आह स्म मां प्रत्यपि ते पुनः का शङ्का शशाङ्कादधिकाष्यबिम्बे ॥४०॥एषामकृत्वा चरणप्रणाममेषामनुज्ञामनवाप्य सम्यक् ।सुपर्ववैरे तव वैरसेनिं वरीतुमीहा कथमौचितीयम् ॥४१॥इतीरिते विश्वसितां पुनस्तामादाय पाणौ दिविषत्सु देवी ।कृत्वा प्रणम्रां वदति स्म सा तान् भक्तेयमर्हत्यधुनानुकम्पाम् ॥४२॥युष्मान्वृणीते न बहून्सतीयं शेषावमानाच्च भवत्सु नैकम् ।तद्वः समेतान्नृपमेनमंशान्वरीतुमन्विष्यति लोकपालाः ॥४३॥भैम्या स्रजःसञ्जनया पथि प्राक्स्वयंवरं संजनयांबभूव ।संभोगमालिङ्गनयास्य वेधाः शेषं तु कं हन्तुमियद्यतध्वे ॥४४॥वर्णाश्रमाचारपथात्प्रजाभिः स्वाभिः सहैवास्खलते नलाय ।प्रसेदुषो वेदृशवृत्तभङ्ग्या दित्सैव कीर्तेर्भुवमानयद्वः ॥४५॥इति श्रुतेऽस्या वचसैव हास्यात्कृत्वा सलास्याधरमास्यबिम्बम् ।भ्रूविभ्रमाकूतकृताभ्यनुज्ञेष्वेतेषु तां साथ नलाय निन्ये ॥४६॥मन्दाक्षनिस्पन्दतनोर्मनोभूदुष्प्रेरमप्यानयति स्म तस्याः ।मधूकमालामधुरं करं सा कण्ठोपकण्ठं वसुधासुधांशोः ॥४७॥अथाभिलिख्येव समर्प्यमाणां राजिं निजस्वीकरणाक्षराणाम् ।दूर्वाङ्कुराढ्यां नलकण्ठनाले वधूर्मधूकस्रजमुत्ससर्ज ॥४८॥तां दूर्वया श्यामलयातिवेलं शृङ्गारभाषंनिभया सुशोभाम् ।मालां प्रसूनायुधपाशभासं कण्ठेन भूभृद्बिभरांबभूव ॥४९॥दूर्वाग्रजाग्रत्पुलकावलिं तां नलाङ्गमङ्गाद्भृशमुल्लसन्तीम् ।मानेन मन्ये नमितानना सा सासूयमालोकत पुष्पमालाम् ॥५०॥कापि प्रमोदास्फुटनिर्जिहानवर्णेव या मङ्गलगीतिरासाम् ।सैवाननेभ्यः पुरसुन्दरीणामुच्चैरुलूलुध्वनिरुच्चचार ॥५१॥सा निर्मले तस्य मधूकमाला हृदि स्थिता च प्रतिबिम्बिता च ।कियत्यमग्ना कियती च मग्ना पुष्पेषुबाणालिरिव व्यलोकि ॥५२॥रोमाणि सर्वाण्यपि बालभावाद्वरश्रियं वीक्षितुमुत्सुकानि ।तस्यास्तदा कण्टकिताङ्गयष्टेरुद्ग्रीविकादानमिवान्वभूवन् ॥५३॥रोमाङ्कुरैर्दन्तुरिताखिलाङ्गी रम्याधरा सा सुतरां विरेजे ।शरव्यदण्डैः श्रितमण्डनश्रीः स्मारी शरोपासनवेदिकेव ॥५४॥चेष्टा व्यनेशन्निखिलास्तदास्याः स्मरेषुवातैरिव ता विधूताः ।अभ्यर्थ्य नीताः कलिना मुहूर्तं लाभाय तस्य बहु चेष्टितुं वा ॥५५॥तन्न्यस्तमाल्यस्पृशि यन्नलस्य स्वेदं करे पञ्चशरश्चकार ।भविष्यदुद्वाहमहोत्सवस्य हस्तोदकं तज्जनयांबभूव ॥५६॥तूलेन तस्यास्तुलना मृदोस्तत्कम्प्राऽस्तु सा मन्मथबाणवातैः ।चित्रीयितं तत्तु नलो यदुच्चैरभूत्स भूभृत्पृथुवेपथुस्तैः ॥५७॥दृशोरपि न्यस्तमिवास्त राज्ञां रागाद्दृगम्बुप्रतिबिम्बिमाल्यम् ।नृपस्य तत्पीतवतोरिवाक्ष्णोः प्रालम्ब्यमालम्बनयुक्तमन्तः ॥५८॥स्तम्भस्तथालम्भितमां नलेन भैमीकरस्पर्शमुदः प्रसादः ।कंदर्पलक्ष्यीकरणार्पितस्य स्तम्भस्य दम्भं स चिरं यथापत् ॥५९॥उत्सृज्य साम्राज्यमिवाथ भिक्षां तारुण्यमुल्लङ्घ्य जरामिवारात् ।तं चारुमाकारमुपेक्ष्य यान्तं निजां तनूमाददिरे दिगीशाः ॥६०॥मायानलत्वं त्यजतो निलीनैः पूर्वैरहंपूर्विकया मघोनः ।भीमोद्भवासात्त्विकभावशोभा दिदृक्षयेवाविरभावि नेत्रैः ॥६१॥गोत्रानुकूलत्वभवे विवाहे तत्प्रातिकूल्यादिव गोत्रशत्रुः ।पुरश्चकार प्रवरं वरं यमायन्सखायं ददृशे तया सः ॥६२॥स्वकामसंमोहमहान्धकारनिर्वापमिच्छन्निव दीपिकाभिः ।उद्गत्वरीभिश्छुरितं वितेने निजं वपुर्वायुसखः शिखाभिः ॥६३॥पत्यौ वृते भीमजया न वह्नावह्ना स्वमह्नाय निजुह्नुवे यः ।जनादपत्रप्य स हा सहायस्तस्य प्रकाशोऽभवदप्रकाशः ॥६४॥सदण्डमालक्तकनेत्रचण्डं तमःकिरं कायमधत्त कालः ।तत्कालमन्तःकरणं नृपाणामध्यासितुं कोप इवोपनम्रः ॥६५॥दृग्गोचरोऽभूदथ चित्रगुप्तः कायस्थ उच्चैर्गुण एतदीयः ।ऊर्ध्वं तु पत्त्रस्य मषीद एको मषेर्ददञ्चोपरि पत्त्रमन्यः ॥६६॥तस्यां मनोबन्धविमोचनस्य कृतस्य तत्कालमिव प्रचेताः ।पाशं दधानः करबद्धवासं विभुर्बभावाप्यमवाप्य देहम् ॥६७॥सहद्वितीयः स्त्रियमभ्युपेयादेवं स दुर्बुध्य नयोपदेशम् ।अन्यां सभार्यः कथमृच्छतीति जलाधिपोऽभूदसहाय एव ॥६८॥देव्यापि दिव्याऽनु तनुः प्रकाशीकृता मुदश्चक्रभृतः सृजन्ती ।अनिह्नुतैस्तामवधार्य चिह्नैस्तद्वाचि बाला शिथिलाद्भुताभूत् ॥६९॥विलोकके नायकमेलकेऽस्मिन्रूपान्यताकौतुकदर्शिभिस्तैः ।बाधा बतेन्द्रादिभिरिन्द्रजालविद्याविदां वृत्तिवधाद्व्यधायि ॥७०॥विलोक्य तावाप्तदुरापकामौ परस्परप्रेमरसाभिरामौ ।अथ प्रभुः प्रीतमना बभाषे जाम्बूनदोर्वीधरसार्वभौमः ॥७१॥वैदर्भि दत्तस्तव तावदेष वरो दुरापः पृथिवीश एव ।दूत्यं तु यत्त्वं कृतवानमायं नल प्रसादस्त्वयि तन्ममायम् ॥७२॥प्रत्यक्षलक्ष्यामवलम्ब्य मूर्तिं हुतानि यज्ञेषु तवोपभोक्ष्ये ।संशेरतेऽस्माभिरवीक्ष्य भुक्तं मखं हि मन्त्राधिकदेवभावे ॥७३॥भवानपि त्वद्दयितापि शेषे सायुज्यमासादयतं शिवाभ्याम् ।प्रेत्यास्मि कीदृग्भवितेति चिन्ता संतापमन्तस्तनुते हि जन्तोः ॥७४॥तवोपवाराणसि नामचिह्नं वासाय पारेसि पुरं पुरास्ति ।निर्वातुमिच्छोरपि तत्र भैमीसंभोगसंकोचभियाधिकाशि ॥७५॥धूमावलिश्मश्रु ततः सुपर्वा मुखं मखास्वादविदां तमूचे ।कामं मदीक्षामयकामधेनोः पयायतामभ्युदयस्त्वदीयः ॥७६॥या दाहपाकौपयिकी तनुर्मे भूयात्त्वदिच्छावशवर्तिनी सा ।तया पराभूततनोरनङ्गात्तस्याः प्रभुः सन्नधिकस्त्वमेधि ॥७७॥अस्तु त्वया साधितमन्नमीनरसादि पीयूषरसातिशायि ।यद्भूप विद्मस्तव सूपकारक्रियासु कौतूहलशालि शीलम् ॥७८॥वैवस्वतोऽपि स्वत एव देवस्तुष्टस्तमाचष्ट धराधिराजम् ।वरप्रदानाय तवावदानैश्चिरं मदीया रसनोद्धुरेयम् ॥७९॥सर्वाणि शस्त्राणि तवाङ्गचक्रैराविर्भवन्तु त्वयि शत्रुजैत्रे ।अवाप्यमस्मादधिकं न किंचिज्जागर्ति वीरव्रतदीक्षितानाम् ॥८०॥कृच्छ्रं गतस्यापि दशाविपाकं धर्मान्न चेतः स्खलतु त्वदीयम् ।अमुञ्चतः पुण्यमनन्यभक्तेः स्वहस्तवास्तव्य इव त्रिवर्गः ॥८१॥स्मिताञ्चितां वाचमवोचदेनं प्रसन्नचेता नृपतिं प्रचेताः ।प्रदाय भैमीमधुना वरौ तु ददामि तद्यौतककौतुकेन ॥८२॥यत्राभिलाषस्तव तत्र देशे नन्वस्तु धन्वन्यपि तूर्णमर्णः ।आपो वहन्तीह हि लोकयात्रां यथा न भूतानि तथाऽपराणि ॥८३॥प्रसारितापः शुचिभानुनास्तु मरुः समुद्रत्वमपि प्रपद्य ।भवन्मनस्कारलवोद्गमेन क्रमेलकानां निलयः पुरेव ॥८४॥अम्लानिरामोदभरश्च दिव्यः पुष्पेषु भूयाद्भवदङ्गसङ्गात् ।दृष्टं प्रसूनोपमया मयान्यन्न धर्मशर्मोभयकर्मठं यत् ॥८५॥वाग्देवतापि स्मितपूर्वमुर्वीसुपर्वराजं रभसाद्बभाषे ।त्वत्प्रेयसीसंमदमाचरन्त्या मत्किं न किंचिद्ग्रहणोचितं ते ॥८६॥अर्थो विनैवाऋथनयोपसीदन्नाल्पोऽपि धीरैरवधीरणीयः ।मान्येन मन्ये विधिना वितीर्णः स प्रीतिदायो बहु मन्तुमर्हः ॥८७॥अवामावामार्धे सकलमुभयाकारघटनाद्द्विधाभूतं रूपं भगवदभिधेयं भवति यत् ।तदन्तर्मन्त्रं मे स्मरहरमयं सेन्दुममलं निराकारं शश्वज्जप नरपते सिध्यतु सते ॥८८॥सर्वाङ्गीणरसामृतस्तिमितया वाचा स वाचस्पतिः स स्वर्गीयमृगीदृशामपि वशीकाराय मारायते ।यस्मै यः स्पृहयत्यनेन स तदेवाप्नोति इं भूयसा येनायं हृदये स्थितः सुकृतिना अम्न्मन्त्रचिन्तामणिः ॥८९॥पुष्पैरभ्यर्च्य गन्धादिभिरपि सुभगैश्चारुहंसेन मां चेन्निर्यान्तीं मन्त्रमूर्तिं जपति मयि मतिं न्यस्य मय्येव भक्तः ।तत्प्राप्ते वत्सरान्ते शिरसि करमसौ यस्य कस्यापि धत्ते सोऽपि श्लोकानकाण्डे रचयति रुचिरान्कौतुकं दृश्यमस्याः ॥९०॥गुणानामास्थानीं नृपतिलकनारीति विदितां रसस्फीतामन्तस्तव च तव वृत्ते च कवितुः ।भवित्री वैदर्भीमधिकमधिकण्ठं रचयितुं परीरम्भक्रीडाचरणशरणामन्वहमहम् ॥९१॥भवद्वृत्तस्तोतुर्मदुपहितकण्ठस्य कवितुर्मुखात्पुण्यैः श्लोकैस्त्वयि घनमुदेयं जनमुदे ।ततः पुण्यश्लोकः क्षितिभुवनलोकस्य भविता भवानाख्यातः सन्कलिकलुषहारी हरिरिव ॥९२॥देवी च ते च जगदुर्जगदुत्तमाङ्गरत्नाय ते कथय कं वितराम कामम् ।किंचित्त्वया नहि पतिव्रतया दुरापं भस्मास्तु यस्तव बत व्रतलोपमिच्छुः ॥९३॥कूटकायमपहाय नो वपुर्बिभ्रतस्त्वमसि वीक्ष्य विस्मिता ।आप्तुमाकृतिमतो मनीषितां विद्यया हृदि तवाप्युदीयताम् ॥९४॥इत्थं वितीर्य वरमम्बरमाश्रयत्सु तेषु क्षणादुदलसद्विपुलः प्रणादः ।उत्तिष्ठतां परिजनालपनैर्नृपाणां स्वर्वासिवृन्दहतदुन्दुभिनादसान्द्रः ॥९५॥न दोषं विद्वेषादपि निरवकाशं गुणमये वरेण प्राप्तास्त्रे न समरसमारम्बसदृशम् ।जगुः पुण्यश्लोकं प्रतिनृपतयः किंतु विदधुः स्वनिश्वासैर्भैमीहृदयमुदयन्निर्भरदयम् ॥९६॥भूभृद्भिर्लम्भिताऽसौ करुणरसनदीमूर्तिमद्देवतात्वं तातेनाभ्यर्थ्ययोग्याःसपदिनिजसखीर्दापयामासतेभ्यः ।वैदर्भ्यास्तेऽप्यलाभात्कृतगमनमनःप्राणवाञ्छां विजघ्नुः सख्यः संशिक्ष्य विद्याः सततधृतवयस्यानुकाराभिराभिः ॥९७॥अहह सह मघोना श्रीप्रतिष्ठासमाने निलयमभि नलेऽथ स्वं प्रतिष्ठासमाने ।अपतदमरभर्तुर्मूर्तिबद्धेव कीर्तिर्गलदलिमधुबाष्पा पुष्पवृष्टिर्नभस्तः ॥९८॥स्वस्यामरैर्नृपतिमंशममुं त्यजद्भिरंशच्छिदाकदनमेव तदाध्यगामि ।उत्का स्म पश्यति निवृत्य निवृत्य यान्ती वाग्देवतपि निजविभ्रमधाम भैमीम् ॥९९॥सानन्दंतनुजाविवाहनमहे भीमः स भूमीपतिर्वैदर्भीनिषधेश्वरौ नृपजनानिष्टोक्तिनिर्मृष्टये ।स्वानि स्वानि धराधिपाश्च शिबिराण्युद्दिश्य यान्तः क्रमादेको द्वौ बहबश्चकार सृजतः स्मातेनिरे मङ्गलम् ॥१००॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।यातस्तस्य चतुर्दशः शरदिजज्योत्स्नाच्छसूक्तेःमहाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥१०१॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP