संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| प्रथमः सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - प्रथमः सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत प्रथमः सर्गः Translation - भाषांतर निपीय यस्य क्षितिरक्षिणः कथाःतथाद्रियन्ते न बुधाः सुधामपि ।नला सितच्छत्रितकीर्तिमण्डलःस राशिरासीन्महसां महोज्ज्वलः ॥१॥रसैः कथा यस्य सुधावधीरणीनलः स भूजानिरभूह्गुणाद्भुतः ।सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डलः ॥२॥पवित्रमत्रातनुते जगद्युगेस्मृता रसक्षालनयेव यत्कथा ।कथं न सा मद्गिरमाविलामपिस्वसेविनीमेव पवित्रयिष्यति ॥३॥अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः ।चतुर्दशत्वं कृतवान्कृतः स्वयंन वेद्मि विद्यासु चतुर्दश स्वयम् ॥४॥अमुष्य विद्या रसनाग्रनर्तकीत्रयीव नीताङ्गगुणेन विस्तरम् ।अगाहताष्टादशतां जिगीषयानवद्वयद्वीपपृथग्जयश्रियाम् ॥५॥दिगीशवृन्दांशविभूतिरीशितादिशां स कामप्रसरावरोधिनीम् ।बभार शास्त्राणि दृशं द्वयाधिकांनिजत्रिनेत्रावतरत्वबोधिकाम् ॥६॥पदैश्चतुर्भिः सुकृते स्थिरीकृतेकृतेऽमुना के न तपः प्रपेदिरे ।भुवं यदेकाङ्घ्रिकनिष्ठया स्पृशन्दधावधर्मोऽपि कृशस्तपस्विताम् ॥७॥यदस्य यात्रासु बलोद्धतं रजःस्फुरत्प्रतापानलघूममञ्जिम ।तदेव गत्वा पतितं सुधाम्बुधौदधाति पङ्कीभवदङ्कतां विधौ ॥८॥स्फुरद्धनर्निस्वनतद्धनाशुगप्रगल्भवृष्टिव्ययितस्य संगरे ।निजस्य तेजः शिखिनः परश्शतावितेनुरिङ्गालमिवायशः परे ॥९॥अनल्पदग्धारिपुरानलोज्ज्वलैःनिजप्रतापैर्वलयं ज्वलद्भुवः ।प्रदक्षिणीकृत्य जयाय सृष्ट्यारराज नीराजनया स राजघः ॥१०॥निवारितास्तेन महीतलेऽखिलेनिरीतिभावं गमितेऽतिवृष्टयः ।न तत्यजुर्नूनमनन्यविश्रमाःप्रतीपभूपालमृगीदृशां दृशः ॥११॥सितांशुवर्णैर्वयति स्म तह्गुणैःमहासिवेम्नः सहकृत्वरी बहुम् ।दिगङ्गनाङ्गावरणं रणाङ्गणेयशः पटं तद्भटचातुरीतुरी ॥१२॥प्रतिपभूपैरिव किं ततो भियाविरुद्धधर्मैरपि मेत्तृतोज्झिता ।अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक्चारदृगप्यवर्तत ॥१३॥तदोजसस्तद्यशसः स्थिताविमौवृथेति चित्ते कुरुते यदा यदा ।तनो ति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥१४॥अयं दरिद्रो भवितेति वैधसींविपिं ललाटेऽर्थिजनस्य जाग्रतीम् ।मृषां न चक्रेऽल्पितकल्पपादपःप्रणीय दारिद्रदरिद्रतां नलः ॥१५॥विभज्य मेरुर्न यदर्थिसात्कृतोन सिन्धुरुत्सर्गजलव्यययैर्मरुः ।अमानि तत्तेन निजायशोयुगंद्विफालबद्धाश्चिकुराः शिरः स्थितम् ॥१६॥अजस्रमभ्यासमुपेयुषा समंमुदैव देवः कविना बुधेन च ।दधौ पटीयान्समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥१७॥अधोविधानात्कमलप्रवालयोःशिरः सु दानादखिलक्षमाभुजाम् ।पुरेदमूर्ध्व भवतीति वेधसापदं किमस्याङ्कितमूर्ध्वरेखया ॥१८॥जगज्जयं तेन च कोशमक्षयंप्रणीतवान् शैशवशेषवानयम् ।सखा रतीशस्य ऋतुर्यथा वनंवपुस्तथालिङ्गदथास्य यौवनम् ॥१९॥अधारि पद्मेषु तदङ्घ्रिणा घृणाक्व तच्छयच्छायलवोऽपि पल्लवे ।तदास्यदास्येऽपि गतोऽधिकारितांन शारदः पार्धिकशर्वरीश्वरः ॥२०॥किमस्य लोम्नां कपटेन कोटिभिःविधिर्न लेखाभिरजीगणह्गुणान् ।न रोमकूपौघमिषाज्जगत्कृताकृताश्च किं दूषणशून्यबिन्दवः ॥२१॥अमुष्य दोर्भ्यामरिदुर्गलुण्ठनेध्रुवं गृहीतार्गलदीर्घपीनता ।उरः श्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिरः प्रसारिता ॥२२॥स्वकेलिलेशस्मितनिन्दितेन्दुनोनिजांशदृक्तर्जितपद्मसंपदः ।अतद्द्वयीजित्वरसुन्दरान्तरेन तन्मुखस्य प्रतिमा चराचरे ॥२३॥सरोरुहं तस्य दृशैव निर्जितंजिताः स्मितेनैव विधोरपि श्रियः ।कुतः परं भव्यमहो महीयसीतदाननस्योपमितौ दरिद्रता ॥२४॥स्ववालभारस्य तदुत्तमाङ्गजैःसमं चमर्येव तुलाभिलाषिणः ।अनागसे शंसति बालचापलंपुनः पुनः पुच्छविलोलनच्छलात् ॥२५॥महीभृतस्तस्य च मन्मथश्रियानिजस्य चित्तस्य च तं प्रतीच्छया ।द्विधा नृपे तत्र जगत्त्रयीभुवांनतभ्रुवां मन्मथविभ्रमोऽभवत् ॥२६॥निमीलनभ्रंशजुषा दृशा भृशंनिपीय तं यस्त्रिदशीर्बिरर्जितः ।अमूस्तमभ्यासभरं विवृण्वतेनिमेषनिः स्वैरधुनापि लोचनैः ॥२७॥अदस्तदाकर्णि फलाढ्यजीवितंदृशोर्द्वयं नस्तदवीक्षि चाफलम् ।ति स्म चक्षुः श्रवसां प्रिया नलेस्तुवन्ति निन्दन्ति हृदातदात्मनः ॥२८॥विलोकयन्तीभिरजस्रभावना-बलादमुं नेत्रनिमीलनेष्वपि ।अलम्भि मर्त्याभिरमुष्य दर्शनेन विघ्नलेशोऽपि निमेषनिर्मितिः ॥२९॥न का निशि स्वप्नगतं ददर्शतं जगाद गोत्रस्खलिते च का न तम् ।तदात्मताध्यातधवा रते च काचकार वा न स्वमनोभवोद्भवम् ॥३०॥श्रियास्य योग्याहमिति स्वमीक्षितुंकरे तमालोक्य सुरूपया धृतः ।विहाय भैमीमपदर्पया कयान दर्पणः श्वासमलीमसः कृतः ॥३१॥यथोह्यमानः खलु भोगभोजिनाप्रसह्य वैरोचनिजस्य पत्तनम् ।विदर्भजाया मदनस्तथा मनो-नलावरुद्धं वयसैव वेशितः ॥३२॥नृपेऽनुरूपे निजरूपसंपदांदिदेश तस्मिन्बहुशः श्रुतिं गते ।विशिष्य सा भीमनरेन्द्रनन्दनामनोभवाज्ञैकवशंवदं मनः ॥३३॥उपासनामेत्य पितुः स्म रज्यतेदिने दिने सावसरेषु बन्दिनाम् ।पठत्सु तेषु प्रतिभूपतीनलंविनिद्ररोमाजनि शृण्वती नलम् ॥३४॥कथा प्रसङ्गेषु मिथः सखीमुखात्तृणेऽपि तन्व्या नलनामनि श्रुते ।द्रुतं विधूयान्यदभूयतानयामुदा तदाकर्णनसज्जकर्णया ॥३५॥स्मरात्परासोरनिमेषलोचना-द्बिभेमि तद्भन्नमुदाहरेति सा ।जनेन यूनः स्तुवता तदास्पदेनिदर्शनं नैषधमभ्यषेचयत् ॥३६॥नलस्य पृष्टा निषधागता गुणान्मिषेण दूतद्विजबन्दिचारणाः ।निपीय तत्कीर्तिकथामथानयाचिराय तस्थे विमनायमानया ॥३७॥प्रीयं प्रियां च त्रिजगज्जयिश्रियौलिखाधिलीलागृहभित्ति कावपि ।इति स्म सा कारुवरेण लेखितंनलस्य च स्वस्य च सख्यमीक्षते ॥३८॥मनोरथेन स्वपतीकृतं नलंनिशि क्व सा न स्वपती स्म पश्यति ।अदृष्टमप्यर्थमदृष्टवैभवात्करोति सुप्तिर्जनदर्शनातिथिम् ॥३९॥निमीलितादक्षियुगाच्च निद्रयाहृदोऽपि बाह्येन्द्रियमौनमुद्रितात् ।अदर्शि संगोप्य कदाप्यवीक्षितोरहस्यमस्याः स महन्महीपतिः ॥४०॥अहो अहोभिर्महिमा हिमागमेऽ–प्यभिप्रपेदे प्रति तां स्मरार्दिताम् ।तपर्तुपूर्तावपि मेदसां भराविभावरीभिर्बिभरांबभूविरे ॥४१॥स्वकान्तिकीर्तिव्रजमौक्तिकस्रजःश्रयन्तमन्तर्घटनागुणश्रियम् ।कदाचिदस्या युवधैर्यलोपिनंनलोऽपि लोकादशृणोह्गुणोत्करम् ॥४२॥तमेव लब्ध्वावसरं ततः स्मरःशरीरशोभाजयजातमत्सरः ।अमोघशक्त्या निजयेन मूर्तयातया विनिर्जेतुमियेष नैषधम् ॥४३॥अकारि तेन श्रवणातिथिर्गुणःक्षमाभुजा भीमनृपात्मजालयः ।तदुच्चधैर्यव्ययसंहितेषुणास्मरेण च स्वात्मशरासनाश्रयः ॥४४॥अमुष्य धीरस्य जयाय साहसीतदा खलु ज्यां विशिखैः सनाथयन् ।निमज्जयामास यशांसि संशयेस्मरस्त्रिलोकीविजयार्जितान्ययि ॥४५॥अनेन भैमीं घटयिष्यतस्तथाविधेरवन्ध्येच्छतया व्यलासि तत् ।अभेदि तत्तादृगनङ्गमार्गणै-र्यदस्य पौष्पैरपि धैयकञ्चुकम् ॥४६॥किमन्यदद्यापि यदस्त्रतापितःपितामहो वारिजमाश्रयत्यहो ।स्मरं तनुच्छायतया तमात्मनःशशाक शङ्के स न लङ्घितुं नलः ॥४७॥उरोभुवा कुम्भयुगेन जृम्भितंनवोपहारेण वयः कृतेन किम् ।त्रपासरिदृर्गमपि प्रतीर्य सानलस्य तन्वी हृदयं विवेश यत् ॥४८॥अपह्नुवानस्य जनाय यन्निजामधीरतामस्य कृतं मनोभुवा ।अबोधि तज्जागरदुःखसाक्षिणीनिशा च शय्या च शशाङ्ककोमला ॥४९॥स्मरोपतप्तोऽपि भृशं न स प्रभु-र्विदर्भराजं तनयामयाचत ।त्यजन्त्यसूञ्शर्म च मानिनोवरंत्यजन्ति न त्वेकमयाचितव्रतम् ॥५०॥मृषाविषादाभिनयादयं क्वचि-ज्जुगोप निःश्वासततिं वियोगजाम् ।विलेपनस्याधिकचन्द्रभागताविभावनाच्चापललाप पाण्डुताम् ॥५१॥शशाक निह्नोतुमयेन तत्प्रियामयं बभाषे यदलीकवीक्षिताम् ।समाज एवालपितासु वैणिकै-र्मुमूर्च्छ यत्पञ्चममूर्च्छनासु च ॥५२॥अवाप सापत्रपतां स भूपति-र्जितेन्द्रियाणां धुरि कीर्तितस्थितिः ।असंवरे शंबरवैरिविक्रमेक्रमेण तत्र स्फुटतामुपेयुषि ॥५३॥अलं नलं रोद्दुममी किलाभव-न्गुणा विवेकप्रमुखा न चापलम् ।स्मरः स रत्यामनिरुद्धमेव यत्-सृजत्ययं सर्गनिसर्ग ईदृशः ॥५४॥अनङ्गचिह्नं स विना शशाक नोयदासितुं संसदि यत्नवानपि ।क्षणं तदारामविहारकैतवान्निषेवितुं देशमियेष निर्जनम् ॥५५॥अथ श्रिया भर्त्सितमत्स्यलाच्छनःसमं वयस्यैः स्वरहस्यवेदिभिः ।पुरोपकण्ठोपवनं किलेक्षितादिदेश यानाय निदेशकारिणः ॥५६॥अमी ततस्तस्य विभूषितं सितंजवेऽपि मानेऽपि च पौरुषाधिकम् ।उपाहरन्नश्वमजस्रचञ्चलैःखुराञ्चलैः क्षोदितमन्दुरोदरम् ॥५७॥अथान्तरेणावटुगामिनाध्वनानिशीथिनीनाथमहः सहोदरैः ।निगालगाद्देवमणेरिवोत्थितै-र्विराजितं केसरकेशरश्मिभिः ॥५८॥अजस्रभूमीतटकुट्टनोत्थितै-रुपास्यमानं चरणेषु रेणुभिः ।रयप्रकर्षाध्ययनार्थमागतै-र्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥५९॥चलाचलप्रोथतया महीभृतेस्ववेगदर्पानिव वक्तुमुत्सुकम् ।अलं गिरा वेद किलायमाशयंस्वयं हयस्येति च मौनमास्थितम् ॥६०॥महारथस्याध्वनि चक्रवर्तिनःपरानपेक्षोद्वहनाद्यशः सितम् ।रदावदातांशुमिषादनीदृशांहसन्तमन्तर्बलमर्वतां रवेः ॥६१॥सितत्विषश्चञ्चलतामुपेयुषोमिषेण पुच्छस्य च केसरस्य च ।स्फुटं चलच्चामरयुग्मचिह्ननै-रनिह्नुवानं निजवाजिराजताम् ॥६२॥अपि द्विजिह्वाभ्यवहारपौरुषेमुखानुषक्तायतवल्गुवल्गया ।उपेयिवांसं प्रतिमल्लतां रय-स्मये जितस्य प्रसभं गरुत्मतः ॥६३॥स सिन्धुजं शीतमहः सहोदरंहरन्तमुच्चैः श्रवसः श्रियं हयम् ।जिताखिलक्ष्माभृदनल्पलोचन-स्तमारुरोह क्षितिपाकशासनः ॥६४॥निजा मयूखा इव तीक्ष्णदीधितिंस्फुटारविन्दाङ्कितपाणिपङ्कजम् ।तमश्ववारा जवनाश्वयायिनंप्रकाशरूपा मनुजेशमन्वयुः ॥६५॥चलन्नलंकृत्य महारयं हयंस्ववाहवाहोचितवेषपेशलः ।प्रमोदनिः स्पन्दतराक्षिपक्ष्मभि-र्व्यलोकि लोकैर्नगरालयैर्नलः ॥६६॥क्षणादथैष क्षणदापतिप्रभःप्रभञ्जनाध्येयजवेन वाजिना ।सहैव ताभिर्जनदृष्टिवृष्टिभि-र्बहिः पुरोऽभूत्पुरुहूतपौरुषः ॥६७॥ततः प्रतीच्छ प्रहरेति भाषिणीपरस्परोल्लासितशल्यपल्लवे ।मृषामृघं सादिबले कुतूहला-न्नलस्य नासीरगते वितेनतुः ॥६८॥प्रयातुमस्माकमियं कियत्पदंधरा तदम्भोधिरपि स्थलायताम् ।इतीव वाहैर्निजवेगदर्पितैःपयोधिरोधक्षममुद्धतं रजः ॥६९॥हरेर्यदक्रामि पदैककेन खंपदैश्चतुर्भिः क्रमणेऽपि तस्य नः ।त्रपा हरीणामिति नम्रिताननै-र्न्यवर्ति तैरर्धनभः कृतक्रमैः ॥७०॥चमूचरास्तस्य नृपस्य सादिनोजिनोक्तिषु श्राद्धतयेव सैन्धवाः ।विहारदेशं तमवाप्य मण्डली-मकारयन् भूरितुरंगमानपि ॥७१॥द्विषद्भिरेवास्य विलङ्घिता दिशोयशोभिरेवाब्धिरकारि गोष्पदम् ।इतीव धारामवधीर्य मण्डलीक्रियाश्रियाऽमण्डि तुरंगमैः स्थली ॥७२॥अचीकरच्चारु हयेन या भ्रमी-र्निजातपत्रस्य तलस्थले नलः ।मरुत्किमद्यापि न तासु शिक्षतेवितत्य वात्यामयचक्रङ्क्रमान् ॥७३॥विवेश गत्वा स विलासकाननंततः क्षणात्क्षोणिपतिर्धृतीच्छया ।प्रवालरागच्छुरितं सुषुप्सयाहरिर्धनच्छायमिवार्णसां निधिम् ॥७४॥वनान्तपर्यन्तमुपेत्य सस्पृहंक्रमेण तस्मिन्नवतीर्णदृक्पथे ।न्यवर्ति दृष्टिप्रकरैः पुरौकसा-मनुव्रजद्बन्धुसमाजबन्धुभिः ॥७५॥ततः प्रसूने च फले च मञ्जुलेस संमुखस्थाङ्गुलिना जनाधिपः ।निवेद्यमानं वनपालपाणिनाव्यालोकयत्काननकामनीयकम् ॥७६॥फलानि पुष्पाणि च पल्लवे करेवयोतिपातोद्गतवातवेपिते ।स्थितैः समादाय महर्षिवार्धकाद्वने तदातिथ्यमशिक्षि शाखिभिः ॥७७॥विनिद्रपत्रालिगतालिकैतवान्-मृगाङ्कचूडामणिवर्जनार्जितम् ।दधानमाशासु चरिष्णु दुर्यशःस कौतुकी तत्र ददर्श केतकम् ॥७८॥वियोगभाजां हृदि कण्टकैः कटु-र्निधीयसे कर्णिशरः स्मरेण यत् ।ततो दुराकर्षतया तदन्तकृद्-विगीयसे मन्मथदेहदाहिना ॥७९॥त्वदग्रसूचीसचिवेन कामिनो-र्मनोभवः सीव्यति दुर्यशः पटौ ।स्फुटं स पत्रैः करपत्रमूर्तिभिर्वियोगिहृद्दारुणि दारुणायते ॥८०॥धनुर्मधुस्विन्नकरोऽपि भीम-जापरं परागैस्तव धूलिहस्तयन् ।प्रसूनधन्वा शरसात्करोति मा-मिति क्रुधाक्रुश्यत तेन कैतकम् ॥८१॥विदर्भसुभ्रूस्तनतुङ्गताप्तयेघटानिवापश्यदलं तपस्यतः ।फलानि धूमस्य धयानधोमुखान्-स दाडिमे दोहदधूपिनि द्रुमे ॥८२॥वियोगिनीमैक्षत दाडिमीमसौप्रियस्मृतेः स्पष्टमुदीतकण्टकाम् ।फलस्तनस्थानविदीर्णरागिहृ-द्विशच्छुकास्यस्मरकिंशुकाशुगाम् ॥८३॥स्मरार्धचन्द्रेषुनिभे क्रशीयसांस्फुटं पलाशेऽध्वजुषां पलाशनात् ।स वृन्तमालोकत खण्डमन्वितंवियोगिहृत्खण्डिनि कालखण्डजम् ॥८४॥नवा लता गन्धवहेन चुम्बिताकरम्बिताङ्गी मकरन्दशीकरैः ।दृशा नृपेण स्मितशोभिकुञ्चलादरादराभ्यां दरकम्पिनी पपे ॥८५॥विचिन्वतीः पान्थपतङ्गहिंसनै-रपुण्यकर्माण्यलिकज्जलच्छलात् ।व्यलोकयच्चम्पककोरकावलीःस शम्बरारेर्बलिदीपिका इव ॥८६॥अमन्यतासौ कुसुमेषुगर्भगंपरागमन्धंकरणं वियोगिनाम् ।स्मरेण मुक्तेषु पुरा पुरारयेतदङ्गभस्मेव शरेषु संगतम् ॥८७॥पिकाद्वने शृण्वति भृङ्गहुं कृतै-र्दशामुदञ्चत्करुणे वियोगिनाम् ।अनास्थया सूनकरप्रसारिणींददर्श दूनः स्थलपद्मिनीं नलः ॥८८॥रसालसालः समदृश्यतामुनास्फुरद्द्विरेफारवरोषहुंकृतिः ।समीरलोलैर्मुकुलैर्वियोगिनेजनाय दित्सन्निव तर्जनाभियम् ॥८९॥दिने दिने त्वं तनुरेधि रेऽधिकंपुनः पुनर्मूर्च्छ च तापमृच्छ च ।इतीव पान्थाञ्शपतः पिकान्द्विजान्-सखेदमैक्षिष्ट स लोहितेक्षणान् ॥९०॥अलिस्रजा कुङ्मलमुच्चशेखरंनिपीय चाम्पेयमधीरया धिया ।स धूमकेतुं विषदे वियोगिना-मुदीतमातङ्कितवानशङ्कत ॥९१॥गलत्परागं भ्रमिभह्गिभिः पतत्-प्रसक्तभृङ्गावलि नागकेसरम् ।स मारनाराचनिघर्षणस्खल-ज्ज्वलत्कणं शाणमिव व्यलोकयत् ॥९२॥तदङ्गमुद्दिश्य सुगन्धि पातुकाःशिलीमुखालीः कुसुमाहुणस्पृशः ।स्वचापदुर्निर्गतमार्गणभ्रमात्-स्मरः स्वनन्तीरवलोक्य लज्जितः ॥९३॥मरुल्ललत्पल्लवकण्टकैः क्षतंसमुच्छलच्चन्दनसारसौरभम् ।स वारनारीकुचसंचितोपमंददर्श मालूरफलं पचेलिमम् ॥९४॥युवद्वयीचित्तनिमज्जनोचित-प्रसूनशून्येतरगर्भगह्वरम् ।स्मरेषुधीकृत्य धिया भयान्धसास पाटलायाः स्तबकं प्रकम्पितः ॥९५॥मुनिद्रुमः कोरकितः शितिद्युति-र्वनेऽमनाऽमन्यत सिंहिकासुतः ।तमिस्नपक्षत्रुटिकूटभक्षितंकलाकलापं किल वैधवं वमन् ॥९६॥पुरा हठाक्षिप्ततुषारपाण्डुर-च्छदावृतेर्वीरुधि बद्धविभ्रमाः ।मिलत्रिमीलं ससृजुर्विलोकितानभस्वतस्तं कुसुमेषु केलयः ॥९७॥गता यदुत्सङ्गतले विशालतांद्रुमाः शिरोभिः फलगौरवेण ताम् ।कथं न धात्रीमति मात्रनामितैःस वन्दमानानभिनन्दति स्म तान् ॥९८॥नृपाय तस्मै हिमितं वनानिलैःसुधीकृतं पुष्परसैरहर्महः ।विनिर्मितं केतकरेणुभिः सितं वियोगिनेऽदत्त न कौमदीमुदः ॥९९॥अयोगभाजोऽपि नृपस्य पश्यतातदेव साक्षादमृतांशुमाननम् ।पिकेन रोषारुणचक्षुषा मुहुःकुहूरुताहूयत चन्द्रवैरिणी ॥१००॥अशोकमर्थान्वितनामताशया-गतान् शरण्यं गृहशोचिनोऽद्वगान् ।अमन्यतावन्तमिवैष पल्लवैःप्रतीष्टकामज्वलदस्त्रजालकम् ॥१०१॥विलास वापीतटवीचिवादनात्-पिकालिगीतेः शिखिलास्यलाघवात् ।वनेऽपि तौर्यत्रिकमारराध तंक्व भोगमाप्नोति न भाग्यभाग्जनः ॥१०२॥तदर्थमध्याप्य जनेन तद्वनेशुका विमुक्ताः पटवस्तमस्तुवन् ।स्वरामृतेनोपजगुश्च सारिका-स्तथैव तत्पौरुषगायनीकृताः ॥१०३॥इतीष्टगन्धाढ्यमटन्नसौ वनंपिकोपगीतोऽपि शुकस्तुतोऽपि च ।अविन्दतामोदभरं बहिश्चरंविदर्भसुभ्रुविरहेण नान्तरम् ॥१०४॥करेण मीनं निजकेतनं दध-द्द्रुमालवालाम्बुनिवेशशङ्कया ।व्यतर्कि सर्वर्तुघने घने मधुंस मित्रमत्रानुसरन्निव स्मरः ॥१०५॥लताबलालास्यकलागुरुस्तरु-प्रसूनगन्धोत्करपश्यतोहरः ।असेवतामुं मधुगन्धवारिणिप्रणीतलीलाप्लवनो वनानिलः ॥१०६॥अथ स्वमादाय भयेन मन्थ-नाच्चिरत्नाधिकमुच्चितं चिरात् ।निलीय तस्मिन्निव सन्नपांनिधि-र्वने तडाको ददृशेऽवनीभुजा ॥१०७॥पयोनिलीनाभ्रमुकामुकावली-रदाननन्तोरगपुच्छसुच्छवीन् ।जलार्धरुद्धस्य तटान्तभूमिदोमृणालजालस्य मिषाद्बभार यः ॥१०८॥तटान्तविश्रान्ततुरंगमच्छटा-स्फुटानुविम्बोदयचुम्बनेन यः ।बभौ चलद्वीचिकशान्तशातनैःसहस्रमुच्चैः श्रवसामिवाश्रयन् ॥१०९॥सिताम्बुजानां निवहस्य यश्छला-द्बभावलिश्यामलितोदरश्रियाम् ।तमः समच्छायकलङ्कसंकुलंकुलं सुधांशोर्बहलं वहन्वहु ॥११०॥रथाङ्गभाजा कमलानुषङ्गिणाशिलीमुखस्तोमसखेन शार्ङ्गिणा ।सरोजिनीस्तम्बकदम्बकैतवान्-मृणालशेषाहिभुवान्वयायि यः ॥१११॥तरङ्गिणीरङ्कजुषः स्ववल्लभा-स्तरङ्गरेखा बिभरांबभूव यः ।दरोद्गतैः कोकनदौघकोरकै-र्धृतप्रवालाङ्कुरसंचयश्च यः ॥११२॥महीयसः पङ्कजमण्डलस्य य-श्छलेन गौरस्य च मेचकस्य च ।नलेन मेने सलिले निलीनयो-स्त्विषं विमुञ्चन्विधुकालकूटयोः ॥११३॥चलीकृता यत्र तरङ्गरिङ्गणै-रबालशैवाललतापरम्पराः ।ध्रुवं दधुर्वाडवहव्यवाडव-स्थितिप्ररोहत्तमभूमधूमताम् ॥११४॥प्रकाममादित्यमवाप्य कण्टकैःकरम्बितामोदभरं विवृण्वती ।धृतस्फुटश्रीगृहविग्रहा दिवासरोजिनी यत्प्रभवाप्सरायिता ॥११५॥यदम्बुपूरप्रतिबिम्बितायति-र्मरुत्तरङ्गैस्तरलस्तटद्रुमः ।निमज्ज्य मैनाकमहीभृतः सत-स्ततान पक्षान्धुवतः सपक्षताम् ॥११६॥पयोधिलक्ष्मीमुषि केलिपल्वलेरिरंसुहंसीकलनादसादरम् ।स तत्र चित्रं विचरन्तमन्तिकेहिरण्मयं हंसमबोधि नैषधः ॥११७॥प्रियासु बालासु रतक्षमासु चद्विपत्रितं पल्लवितं च बिभ्रतम् ।स्मरार्जितं रागमहीरुहाङ्कुरंमिषेण चञ्च्वोश्चरणद्वयस्य च ॥११८॥महीमहेन्द्रस्तमवेक्ष्य स क्षणंशकुन्तमेकान्तमनोविनोनदिम् ।प्रियावियोगाद्विधुरोऽपि निर्भरंकुतूहलाक्रान्तमना मनागभूत् ॥११९॥अवश्यभव्येष्वनवग्रहग्रहायया दिशा धावति वेधसः स्पृहा ।तृणेन वात्येव तयानुगम्यतेजनस्य चित्तेन भृशावशात्मना ॥१२०॥अथावलम्ब्य क्षणमेकपादिकांतदा निदद्रावुपपल्वलं खगः ।स तिर्यगावर्जितकंधरः शिरःपिधाय पक्षेण रति क्लमालसः ॥१२१॥सनालमात्मानननिर्जितप्रभंह्रिया नतं काञ्चनमम्बुजन्म किम् ।अबुद्ध तं विद्रुमदण्डमण्डितंस पीत मम्भः प्रभुचामरं नु किम् ॥१२२॥कृतावरोहस्य हयादुपानहौततः पदे रेजतुरस्य बिभ्रती ।तयोः प्रवालैर्वनयोस्तथाम्बुजै-र्नियोद्धुकामे किमु बद्धवर्मणी ॥१२३॥विधाय मूर्तिं कपटेन वामनींस्वयं बलिध्वंसिविडम्बिनीमयम् ।उपेतपार्श्वश्चरणेन मौनिनानृपः पतङ्गं समधत्त पाणिना ॥१२४॥तदात्तमात्मानमवेत्य संभ्रमात्-पुनः पुनः प्रायसदुत्प्लवाय सः ।गतो विरुत्योड्डयने निराशतांकरौ निरोद्धुर्दशति स्म केवलम् ॥१२५॥ससंभ्रमोत्पातिपतत्कुलाकुलंसरः प्रपद्योत्कतयाऽनुकम्प्रताम् ।तमूर्मिलोलैः पतगग्रहान्नृपंन्यवारयद्वारिरुहैः करैरिव ॥१२६॥पतत्रिणा तद्रुचिरेण वञ्चितंश्रियः प्रयान्त्याः प्रविहाय पल्वलम् ।चलत्पदाम्भोरुहनूपुरोपमाचुकूज कूले कलहंसमण्डली ॥१२७॥न वासयोग्या वसुधेयमीदृश-स्त्वमङ्ग ! यस्याः पतिरुज्झितस्थितिः ।इति प्रहाय क्षितिमाश्रिता नभःखगास्तमाचुकुशुरारवैः खलु ॥१२८॥न जातरूपच्छदजातरूपताद्विजस्य दृष्टेयमिति स्तुवन्मुहुः ।अवादि तेनाथ स मानसौकसाजनाधिनाथः करपञ्जरस्पृशा ॥१२९॥धिगस्तु तृष्णातरलं भवन्मनःसमीक्ष्य पक्षान्मम हेमजन्मनः ।तवार्णवस्येव तुषारशीकरै-र्भवेदमीभिः कमलोदयः कियान् ॥१३०॥न केवलं प्राणिवधो वधो ममत्वदीक्षणाद्विश्वसितान्तरात्मनः ।विगर्हितं धर्मधनैर्निबर्हणंविशिष्य विश्वासजुषां द्विषामपि ॥१३१॥पदे पदे सन्ति भटा रणोद्भटान तेषु हिंसारस एष पूर्यते ।धिगीदृशं ते नृपते ! कुविक्रमंकृपाश्रये यः कृपणे पतत्रिणि ॥१३२॥फलेन मूलेन च वारिभूरुहांमुनेरिवेत्थं मम यस्य वृत्तयः ।त्वयाद्य तस्मिन्नपि दण्डधारिणाकथं न पत्या धरणी हृणीयते ॥१३३॥इतीदृशैस्तं विरचय्य वाङ्मयैःसचित्रवैलक्ष्यकृपं नृपं खगः ।दयासमुद्रे स तदाशयेऽतिथी-चकार कारुण्यरसापगा गिरः ॥१३४॥मदेकपुत्रा जननी जरातुरानवप्रसूतिर्वरटा तपस्विनी ।गतिस्तयोरेष जनस्तमर्दय-न्नहो विधे ! त्वां करुणा रुणद्धि न ॥१३५॥मुहूर्तमात्रं भवनिन्दया दया-सखाः सखायः स्रवदश्रवो मम ।निवृत्तिमेष्यन्ति परं दुरुत्तर-स्त्वयैव मातः ! सुतशोकसागरः ॥१३६॥मदर्थसंदेशमृणालमन्थरःप्रियः कियद्दूर इति त्वयोदिते ।विलोकयन्त्या रुदतोऽथ पक्षिणःप्रिये ! स कीदृग्भविता तव क्षणः ॥१३७॥कथं विधातर्मयि पाणिपङ्कजा-त्तव प्रियाशैत्यमृदुत्वशिल्पिनः ।वियोक्ष्यसे वल्लभयेति निर्गतालिपिर्ललाटन्तपनिष्ठुराक्षरा ॥१३८॥अयि !स्वयूथ्यैरशनिक्षतोपमंममाद्य वृत्तान्तमिमं बतोदिता ।मुखानि लोलाक्षि ! दिशामसंशयंदशापि शून्यानि विलोकयिष्यसि ॥१३९॥ममैव शोकेन विदीर्णवक्षसात्वया विचित्राङ्गि ! विपद्यते यदि ।तदास्मि दैवेन हतोऽपि हा हतःस्फुटं यतस्ते शिशवः परासवः ॥१४०॥तवापि हा हा विरहात्क्षुधाकुलाःकुलायकूलेषु विलुठ्य तेषु ते ।चिरेण लब्धा बहुभिर्मनोरथै-र्गताः क्षणेनास्फुटितेक्षणा मम ॥१४१॥सुताः ! कमाहूय चिराय चुंकृतै-र्विधाय कम्प्राणि मुखानि कं प्रति ।कथासु शिष्यध्वमिति प्रमील्य सःस्त्रुतस्य सेकाद्बुबुधे नृपाश्रुणः ॥१४२॥इत्थममुं विलपन्तममुञ्च-द्दीनदयालुतयावनिपालः ।रुपमदर्शि धृतोऽसि यदर्थंगच्छ यथेच्छमथेत्यभिधाय ॥१४३॥आनन्दजाश्रुभिरनुस्रियमाणमार्गान्-प्राक्शोकनिर्गमितनेत्रपयः प्रवाहान् ।चक्रे स चक्रनिभचङ्क्रमणच्छलेननीराजनां जनयतां निजबान्धवानाम् ॥१४४॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।तच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्ग्या महा-काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ॥१४५॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP