संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| चतुर्दशः पटलः स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - चतुर्दशः पटलः स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र चतुर्दशः पटलः Translation - भाषांतर श्रीभैरव उवाचमुद्राणं लक्षणं वक्ष्ये अस्मिंस्तन्त्रे यथास्थितं ।उत्तानमञ्जलिं कृत्वा कपालं परिकीर्तितं ॥१॥तिर्यक्कृत्वा करं वामं कनिष्ठाद्यङ्गुलित्रयं ।अङ्गुष्ठेनाक्रमेद्देवि ऋज्वीं कृत्वा प्रदेशिनीं ॥२॥पराङ्मुखं करं कृत्वा स्कन्धदेशे निवेशयेथ् ।खट्वाङ्गं कीर्तितं ह्येतत्खड्गमुद्रां निबोध मे ॥३॥अङ्गुष्ठेनाक्रमेद्देवि सकनिष्ठामनामिकां ।मध्यमां तर्जनीं चोर्ध्वं खड्गमुद्रा प्रकीर्तिता ॥४॥मुष्टिं बद्ध्वा कनिष्ठां च प्रसार्येत वरानने ।आत्मनः सम्मुखं कृत्वा स्फरस्ते कथितो मया ॥५॥मुष्टिं बद्ध्वा तु देवेशि तर्जन्यूर्ध्वं तु कुञ्चयेथ् ।अङ्कुशः कथितो ह्येष पाशमुद्रां निबोध मे ॥६॥तर्जनीं वर्तुलां कृत्वा मूलेऽङ्गुष्ठस्य योजयेथ् ।पाशस्तु कथितो ह्येष दुष्टजालनिबन्धकः ॥७॥मुष्टिं बद्ध्वा वरारोहे सम्प्रसार्य प्रदेशिनीं ।नाराचस्तु समाख्यातः समासात्तव भैरवि ॥८॥मुष्टिं बद्ध्वा प्रसार्येत तर्जन्यङ्गुष्ठकं प्रिये ।अग्रे निकुञ्चयेत्किञ्चित्पिनाकं परिकीर्तितं ॥९॥अग्रप्रसारितो हस्तः श्लिष्टशाखो वरानने ।पराङ्मुखं तु तं कृत्वा त्वभयः परिकीर्तितः ॥१०॥वामं भुजं प्रसार्यैव जानूपरि निवेशयेथ् ।प्रसृतं दर्शयेद्देवि वरः सर्वार्थसाधकः ॥११॥घण्टाकारं करं वामं कृत्वा चैव त्वधोमुखं ।दक्षहस्तस्य तर्जन्या घृषेद्घण्टा प्रकीर्तिता ॥१२॥कनिष्ठिकां समाक्रामेदङ्गुष्ठेन समाहितः ।प्रसार्य चाङ्गुलीस्तिस्रस्त्रिशूलं परिकीर्तितं ॥१३॥दण्डो वै मुष्टिबन्धेन वज्रमुद्रं निबोध मे ।वामहस्तमधः कृत्वा उत्तानं तु समाहितः ॥१४॥दक्षं चाधोमुखं कृत्वा त्वङ्गुष्ठं च कनिष्ठिकां ।उभयोरपि सङ्घृष्य वज्रमुद्रां प्रदर्शयेथ् ॥१५॥डमरुं मुष्टिबन्धेन दक्षहस्तस्य सुव्रते ।सुषिरेण समायुक्तं दर्शयेत्तु वरानने ॥१६॥मुद्गरं तु प्रवक्ष्यामि हस्तौ द्वौ सम्प्रसारयेथ् ।मुद्गरः कथितो ह्येष वल्लकीं च निबोध मे ॥१७॥हस्तौ प्रसारयेद्देवि उत्तानौ तु समाहितः ।अनामे कुञ्चयित्वा तु वीणामुद्रा प्रकीर्तिता ॥१८॥प्रसारयेदङ्गुलीस्तु कनिष्ठानाममध्यमाः ।अङ्गुष्ठेनाक्रमेदाद्यां परशुः समुदाहृताः ॥१९॥एता मुद्रा महादेवि भैरवस्य प्रदर्शयेथ् ।आवाहने निरोधे च तथा चैव विसर्जने ॥२०॥कपालं चैव खट्वाङ्गं अनुक्तेषु प्रदर्शयेथ् ।कपालं धवलं ज्ञेयं खट्वाङ्गं च तथैव हि ॥२१॥त्रिशूलं चैव नाराचं खड्गो नीलोत्पलप्रभः ।स्फरं रक्तं पिनाकं च कृष्णं सम्परिकीर्तितं ॥२२॥घण्टा हेमप्रभा ज्ञेयाङ्कुशो मरकतप्रभः ।पाशो भिन्नाञ्जननिभः स्फटिकाभोऽभयः स्मृतः ॥२३॥वरश्चित्तप्रसादेन ध्यातव्यो वरवर्णिनि ।डमरुं हेमसङ्काशं वीणां चैतत्समप्रभां ॥२४॥दण्डं रक्तं विजानीयाद्वज्रं पीतं विचिन्तयेथ् ।राजावर्तनिभो देवि मुद्गरः परशुस्तथा ॥२५॥मुद्रापीठं समाख्यातं चतुर्वर्गफलोदयं ।प्रणवासनमारूढा ओंकाराद्या वरानने ॥२६॥स्वनामकृतविन्यासा नमस्कारावसानिकाः ।साधयन्ति महादेवि फलानि विविधानि तु ॥२७॥निर्विघ्नकरणं ख्यातं मुद्राणां लक्षणं प्रिये ।वेदितव्यं प्रयत्नेन साधितव्यं महात्मना ॥२८॥इति स्वच्छन्दतन्त्रे चतुर्दशः पटलः N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP